धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 77

  1. [भ] एतस्मिन एव काले तु वसिष्ठम ऋषिसत्तमम इक्ष्वाकुवंशजॊ राजा सौदासॊ ददतां वरः ॥ 1 ॥

  2. सर्वलॊकचरं सिद्धं बरह्मकॊशं सनातनम पुरॊहितम इदं परष्टुम अभिवाद्यॊपचक्रमे ॥ 2 ॥

  3. [सौ] तरैलॊक्ये भगवन किं सवित पवित्रं कथ्यते ऽनघ यत कीर्तयन सदा मर्त्यः पराप्नुयात पुण्यम उत्तमम ॥ 3 ॥

  4. [भ] तस्मै परॊवाच वचनं परणताय हितं तदा गवाम उपनिषद विद्वान नमस्कृत्य गवां शुचिः ॥ 4 ॥

  5. गावः सुरभिगन्धिन्यस तथा गुग्गुलु गन्धिकाः गावः परतिष्ठा भूतानां गावः सवस्त्ययनं महत ॥ 5 ॥

  6. गावॊ भूतं भविष्यच च गावः पुष्टिः सनातनी गावॊ लक्ष्म्यास तथा मूलं गॊषु दत्तं न नश्यति अन्नं हि सततं गावॊ देवानां परमं हविः ॥ 6 ॥

  7. सवाहाकारवषट्कारौ गॊषु नित्यं परतिष्ठितौ गावॊ यज्ञस्य हि फलं गॊषु यज्ञाः परतिष्ठिताः ॥ 7 ॥

  8. सायं परतश च सततं हॊमकाले महामते गावॊ ददति वै हॊम्यम ऋषिभ्यः पुरुषर्षभ ॥ 8 ॥

  9. कानि चिद यानि दुर्गाणि दुष्कृतानि कृतानि च तरन्ति चैव पाप्मानं धेनुं ये ददति परभॊ ॥ 9 ॥

  10. एकां च दशगुर दद्याद दश दद्याच च गॊशती शतं सहस्रगुर दद्यात सर्वे तुल्यफला हि ते ॥ 10 ॥

  11. अनाहिताग्निः शतगुर अयज्वा च सहस्रगुः समृद्धॊ यश च कीनाशॊ नार्घ्यम अर्हन्ति ते तरयः ॥ 11 ॥

  12. कपिलां ये परयच्छन्ति स वत्सां कांस्यदॊहनाम सुव्रतां वस्त्रसंवीताम उभौ लॊकौ जयन्ति ते ॥ 12 ॥

  13. युवानम इन्द्रियॊपेतं शतेन सह यूथपम गवेन्द्रं बराह्मणेन्द्राय भूरि शृङ्गम अलंकृतम ॥ 13 ॥

  14. वृषभं ये परयच्छन्ति शरॊत्रियाय परंतप ऐश्वर्यं ते ऽभिजायन्ते जायमानाः पुनः पुनः ॥ 14 ॥

  15. नाकीर्तयित्वा गाः सुप्यान नास्मृत्य पुनर उत्पतेत सायंप्रातर नमस्येच च गास ततः पुष्टिम आप्नुयात ॥ 15 ॥

  16. गवां मूत्र पुरीषस्य नॊद्विजेत कदा चन न चासां मांसम अश्नीयाद गवां वयुष्टिं तथाश्नुते ॥ 16 ॥

  17. गाश च संकीर्तयेन नित्यं नावमन्येत गास तथा अनिष्टं सवप्नम आलक्ष्य गां नरः संप्रकीर्तयेत ॥ 17 ॥

  18. गॊमयेन सदा सनायाद गॊकरीषे च संविशेत शलेष्म मूत्र पुरीषाणि परतिघातं च वर्जयेत ॥ 18 ॥

  19. सार्द्र चर्मणि भुञ्जीत निरीक्षन वारुणीं दिशम वाग्यतः सर्पिषा भूमौ गवां वयुष्टिं तथाश्नुते ॥ 19 ॥

  20. घृतेन जुहुयाद अग्निं घृतेन सवस्ति वाचयेत घृतं दद्याद घृतं पराशेद गवां वयुष्टिं तथाश्नुते ॥ 20 ॥

  21. गॊमत्या विद्यया धेनुं तिलानाम अभिमन्त्र्य यः रसरत्नमयीं दद्यान न स शॊचेत कृताकृते ॥ 21 ॥

  22. गावॊ माम उपतिष्ठन्तु हेमशृङ्गाः पयॊ मुचः सुरभ्यः सौरभेयाश च सरितः सागरं यथा ॥ 22 ॥

  23. गावः पश्यन्तु मां नित्यं गावः पश्याम्य अहं तदा गावॊ ऽसमाकं वयं तासां यतॊ गावस ततॊ वयम ॥ 23 ॥

  24. एवं रात्रौ दिवा चैव समेषु विषमेषु च महाभयेषु च नरः कीर्तयन मुच्यते भयात ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 78

Previous: अध्याय 76