[व] ततॊ युधिष्ठिरॊ राजा भूयः शांतनवं नृप गॊधाने विस्तरं धीमान पप्रच्छ विनयान्वितः ॥ 1 ॥
गॊप्रदाने गुणान सम्यक पुनः परब्रूहि भारत न हि तृप्याम्य अहं वीर शृण्वानॊ ऽमृतम ईदृशम ॥ 2 ॥
इत्य उक्तॊ धर्मराजेन तदा शांतनवॊ नृप सम्यग आह रुणांस तस्मै गॊप्रदानस्य केवलान ॥ 3 ॥
[भ] वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम दत्त्वेदृशीं गां विप्राय सर्वपापैः परमुच्यते ॥ 4 ॥
असुर्या नाम ते लॊका गां दत्त्वा तत्र गच्छति पीतॊदकां जग्ध तृणां नष्टदुग्धां निर इन्द्रियाम ॥ 5 ॥
जरॊग्रम उपयॊक्तार्थां जीर्णां कूपम इवाजलम दत्त्वा तमः परविशति दविजं कलेशेन यॊजयेत ॥ 6 ॥
दुष्टा रुष्टा वयाधिता दुर्बला वा; न दातव्या याश च मूलैर अदत्तैः कलैशैर विप्रं यॊ ऽफलैः संयुनक्ति; तस्यावीर्याश चाफलाश चैव लॊकाः ॥ 7 ॥
बलान्विताः शीलवयॊपपन्नाः; सर्वाः परशंसन्ति सुगन्धवत्यः यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥ 8 ॥
[य] कस्मात समाने बहुला परदाने; सद्भिः परशस्तं कपिला परदानम विशेषम इच्छामि महानुभाव; शरॊतुं समर्थॊ हि भवान परवक्तुम ॥ 9 ॥
[भ] वृद्धानां बरुवतां तात शरुतं मे यत परभाषसे वक्ष्यामि तद अशेषेण रॊहिण्यॊ निर्मिता यथा ॥ 10 ॥
परजाः सृजेति वयादिष्टः पूर्वं दक्षः सवयम्भुवा असृजद वृत्तिम एवाग्रे परजानां हितकाम्यया ॥ 11 ॥
यथा हय अमृतम आश्रित्य वर्तयन्ति दिवौकसः तथा वृत्तिं समाश्रित्य वर्तयन्ति परजा विभॊ ॥ 12 ॥
अचरेभ्यश च भूतेभ्यश चराः शरेष्ठास ततॊ नराः बराह्मणाश च ततः शरेष्ठास तेषु यज्ञाः परतिष्ठिताः ॥ 13 ॥
यज्ञैर आप्यायते सॊमः स च गॊषु परतिष्ठितः सर्वे देवाः परमॊदन्ते पूर्ववृत्तास ततः परजाः ॥ 14 ॥
एतान्य एव तु भूतानि पराक्रॊशन वृत्ति काङ्क्षया वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत ॥ 15 ॥
इतीदं मनसा गत्वा परजा सर्गार्थम आत्मनः परजापतिर बलाधानम अमृतं परापिबत तदा ॥ 16 ॥
स गतस तस्य तृप्तिं तु गन्धं सुरभिम उद्गिरन ददर्शॊद्गार संवृत्तां सुरभिं मुखजां सुताम ॥ 17 ॥
सासृजत सौरभेयीस तु सुरभिर लॊकमातरः सुवर्णवर्णाः कपिलाः परजानां वृत्ति धेनवः ॥ 18 ॥
तासाम अमृतवर्णानां कषरन्तीनां समन्ततः बभूवामृतजः फेनः सरवन्तीनाम इवॊर्मिजः ॥ 19 ॥
स वत्स मुखविभ्रष्टॊ भवस्य भुवि तिष्ठतः शिरस्य अवाप तत करुद्धः स तदॊदैक्षत परभुः ललाटप्रभवेनाक्ष्णा रॊहिणीः परदहन्न इव ॥ 20 ॥
तत तेजस तु ततॊ रौद्रं कपिला गा विशां पते नानावर्णत्वम अनयन मेघान इव दिवाकरः ॥ 21 ॥
यास तु तस्माद अपक्रम्य सॊमम एवाभिसंश्रिताः यथॊत्पन्नाः सववर्णस्थास ता नीता नान्यवर्णताम ॥ 22 ॥
अथ करुद्धं महादेवं परजापतिर अभाषत अमृतेनावसिक्तस तवं नॊच्छिष्टं विद्यते गवाम ॥ 23 ॥
यथा हय अमृतम आदाय सॊमॊ विष्यन्दते पुनः तथा कषीरं कषरन्त्य एता रॊहिण्यॊ ऽमृतसंभवाः ॥ 24 ॥
न दुष्यत्य अनिलॊ नाग्निर न सुवर्णं न चॊदधिः नामृतेनामृतं पीतं वत्स पीता न वत्सला ॥ 25 ॥
इमाँल लॊकान भरिष्यन्ति हविषा परस्नवेन च आसाम ऐश्वर्यम अश्नीहि सर्वामृत मयं शुभम ॥ 26 ॥
वृषभं च ददौ तस्मै सह ताभिः परजापतिः परसादयाम आस मनस तेन रुद्रस्य भारत ॥ 27 ॥
परीतश चापि महादेवश चकार वृषभं तदा धवजं च वाहनं चैव तस्मात स वृषभध्वजः ॥ 28 ॥
ततॊ देवैर महादेवस तदा पशुपतिः कृतः ईश्वरः स गवां मध्ये वृषाङ्क इति चॊच्यते ॥ 29 ॥
एवम अव्यग्रवर्णानां कपिलानां महौजसाम परदाने परथमः कल्पः सर्वासाम एव कीर्तितः ॥ 30 ॥
लॊकज्येष्ठा लॊकवृत्ति परवृत्ता; रुद्रॊपेताः सॊमविष्यन्द भूताः सौम्याः पुण्याः कामदाः पराणदाश च; गा वै दत्त्वा सर्वकामप्रदः सयात ॥ 31 ॥
इमं गवां परभव विधानम उत्तमं; पठन सदा शुचिर अति मङ्गलप्रियः विमुच्यते कलिकलुषेण मानवः; परियं सुतान पशुधनम आप्नुयात तथा ॥ 32 ॥
हव्यं कव्यं तर्पणं शान्ति कर्म; यानं वासॊ वृद्धबालस्य पुष्टिम एतान सर्वान गॊप्रदाने गुणान वै; दाता राजन्न आप्नुयाद वै सदैव ॥ 33 ॥
[व] पितामहस्याथ निशम्य वाक्यं; राजा सह भरातृभिर आजमीढः सौवर्णकांस्यॊपदुहास ततॊ गाः; पार्थॊ ददौ बराह्मणसत्तमेभ्यः ॥ 34 ॥
तथैव तेभ्यॊ ऽभिददौ दविजेभ्यॊ; गवां सहस्राणि शतानि चैव यज्ञान समुद्दिश्य च दक्षिणार्थे; लॊकान विजेतुं परमां च कीर्तिम ॥ 35 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 76
Reach this point to mark the section finished.
Continue to अध्याय 77