धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 75

  1. येन ताञ शाश्वताँल लॊकान अखिलान अश्नुवीमहि ॥ 1 ॥

  2. [भ] न गॊदानात परं किं चिद विद्यते वसुधाधिप गौर हि नयायागता दत्ता सद्यस तारयते कुलम ॥ 2 ॥

  3. सताम अर्थे सम्यग उत्पादितॊ यः; स वै कॢप्तः सम्यग इष्टः परजाभ्यः तस्मात पूर्वं हय आदि काले परवृत्तं; गवां दाने शृणु राजन विधिं मे ॥ 3 ॥

  4. पुरा गॊषूपनीतासु गॊषु संदिग्धदर्शिना मान्धात्रा परकृतं परश्नं बृहस्पतिर अभाषत ॥ 4 ॥

  5. दविजातिम अभिसत्कृत्य शवःकालम अभिवेद्य च परदानार्थे नियुञ्जीत रॊहिणीं नियतव्रतः ॥ 5 ॥

  6. आह्वानं च परयुञ्जीत समङ्गे बहुलेति च परविश्य च गवां मध्यम इमां शरुतिम उदाहरेत ॥ 6 ॥

  7. गौर मे माता गॊवृषभः पिता मे; दिवं शर्म जगती मे परतिष्ठा परपद्यैवं शर्वरीम उष्य गॊषु; मुनिर वाणीम उत्सृजेद गॊप्रदाने ॥ 7 ॥

  8. स ताम एकां निशां गॊभिः समसंख्यः समव्रतः ऐकात्म्य गमनात सद्यः कल्मषाद विप्रमुच्यते ॥ 8 ॥

  9. उत्सृष्ट वृषवत्सा हि परदेया सूर्यदर्शने तरिविधं परतिपत्तव्यम अर्थवादाशिषः सतवाः ॥ 9 ॥

  10. ऊर्जस्विन्य ऊर्ज मेधाश च यज्ञॊ; गर्भॊ ऽमृतस्य जगतश च परतिष्ठा कषितौ राधः परभवः शश्वद एव; पराजापत्याः सर्वम इत्य अर्थवादः ॥ 10 ॥

  11. गावॊ ममैनः परणुदन्तु सौर्यास; तथा सौम्याः सवर्गयानाय सन्तु आम्नाता मे ददतीर आश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषॊ मे ॥ 11 ॥

  12. शेषॊत्सर्गे कर्मभिर देहमॊक्षे; सरस्वत्यः शरेयसि संप्रवृत्ताः यूयं नित्यं पुण्यकर्मॊपवाह्या; दिशध्वं मे गतिम इष्टां परपन्नाः ॥ 12 ॥

  13. या वै यूयं सॊ ऽहम अद्यैक भावॊ; युष्मान दत्त्वा चाहम आत्मप्रदाता मनश चयुता मन एवॊपपन्नाः; संधुक्षध्वं सौम्य रूपॊग्र रूपाः ॥ 13 ॥

  14. एवं तस्याग्रे पूर्वम अर्धं वदेत; गवां दाता विधिवत पूर्वदृष्टम परतिब्रूयाच छेषम अर्धं दविजातिः; परतिगृह्णन वै गॊप्रदाने विधिज्ञः ॥ 14 ॥

  15. गां ददानीति वक्तव्यम अर्घ्य वस्त्रवसु परदः ऊधस्या भरितव्या च वैष्णवीति च चॊदयेत ॥ 15 ॥

  16. नाम संकीर्तयेत तस्या यथा संख्यॊत्तरं स वै फलं षड्विंशद अष्टौ च सहस्राणि च विंशतिः ॥ 16 ॥

  17. एवम एतान गुणान वृद्धान गवादीनां यथाक्रमम गॊप्रदाता समाप्नॊति समस्तान अष्टमे करमे ॥ 17 ॥

  18. गॊदः शीली निर्भयश चार्घ दाता; न सयाद दुःखी वसु दाता च कामी ऊधस्यॊढा भारत यश च विद्वान; वयाख्यातास ते वैष्णवाश च नद्र लॊकाः ॥ 18 ॥

  19. गा वै दत्त्वा गॊव्रती सयात तरिरात्रं; निशां चैकां संवसेतेह ताभिः काम्याष्टम्यां वर्तितव्यं तरिरात्रं; रसैर वा गॊः शकृता परस्नवैर वा ॥ 19 ॥

  20. वेद वरती सयाद वृषभ परदाता; वेदावाप्तिर गॊयुगस्य परदाने तथा गवं विधिम आसाद्य यज्वा; लॊकान अग्र्यान विन्दते नाविधिज्ञः ॥ 20 ॥

  21. कामान सर्वान पार्थिवान एकसंस्थान; यॊ वै दद्यात कामदुघां च धेनुम सम्यक ताः सयुर हव्यकव्यौघवत्यस; तासाम उक्ष्णां जयायसां संप्रदानम ॥ 21 ॥

  22. न चाशिष्यायाव्रतायॊपकुर्यान; नाश्रद्दधानाय न वक्रबुद्धये गुह्यॊ हय अयं सर्वलॊकस्य धर्मॊ; नेमं धर्मं यत्र तत्र परजल्पेत ॥ 22 ॥

  23. सन्ति लॊके शरद्दधाना मनुष्याः; सन्ति कषुद्रा राक्षसा मानुषेषु येषां दानं दीयमानं हय अनिष्टं; नास्तिक्यं चाप्य आश्रयन्ते हय अपुण्याः ॥ 23 ॥

  24. बार्हस्पत्यं वाक्यम एतन निशम्य; ये राजानॊ गॊप्रदानानि कृत्वा लॊकान पराप्ताः पुण्यशीलाः सुवृत्तास; तान मे राजन कीर्त्यमानान निबॊध ॥ 24 ॥

  25. उशीनरॊ विष्वग अश्वॊ नृगश च; भगीरथॊ विश्रुतॊ यौवनाश्वः मान्धाता वै मुचुकुन्दश च राजा; भूरि दयुम्नॊ नैषधः सॊमकश च ॥ 25 ॥

  26. पुरूरवा भरतश चक्रवर्ती; यस्यान्वये भारताः सर्व एव तथा वीरॊ दाशरथिश च रामॊ; ये चाप्य अन्ये विश्रुताः कीर्तिमन्तः ॥ 26 ॥

  27. तथा राजा पृथु कर्मा दिलीपॊ; दिवं पराप्तॊ गॊप्रदाने विधिज्ञ्डः यज्ञैर दानैस तपसा राजधर्मैर; मान्धाताभूद गॊप्रदानैश च युक्तः ॥ 27 ॥

  28. तस्मात पार्थ तवम अपीमां मयॊक्तां; बार्हस्पतीं भारतीं धारयस्व दविजाग्र्येभ्यः संप्रयच्छ परतीतॊ; गाः पुण्या वै पराप्य राज्यं कुरूणाम ॥ 28 ॥

  29. [व] तथा सर्वं कृतवान धर्मराजॊ; भीष्मेणॊक्तॊ विधिवद गॊप्रदाने स मान्धातुर देवदेवॊपदिष्टं; सम्यग धर्मं धारयाम आस राजा ॥ 29 ॥

  30. इति नृप सततं गवां परदाने; यवशकलान सह गॊमयैः पिबानः कषितितलशयनः शिखी यतात्मा; वृष इव राजवृषस तदा बभूव ॥ 30 ॥

  31. स नृपतिर अभवत सदैव ताभ्यः; परयत मना हय अभिसंस्तुवंश च गा वै नृप धुरि च न गाम अयुङ्क्त भूयस; तुरगवरैर अगमच च यत्र तत्र ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 76

Previous: अध्याय 74