[इन्द्र] जानन यॊ गाम अपहरेद विक्रीयाद वार्थ कारणात एतद विज्ञातुम इच्छामि का नु तस्य गतिर भवेत ॥ 1 ॥
[बर] भक्षार्थं विक्रयार्थं वा ये ऽपहारं हि कुर्वते दानार्थं वा बराह्मणाय तत्रेदं शरूयतां फलम ॥ 2 ॥
विक्रयार्थं हि यॊ हिंस्याद भक्षयेद वा निर अङ्कुशः घातयानं हि पुरुषं ये ऽनुमन्येयुर अर्थिनः ॥ 3 ॥
घातकः खादकॊ वापि तथा यश चानुमन्यते यावन्ति तस्या लॊमानि तावद वर्षाणि मज्जति ॥ 4 ॥
ये दॊषा यादृशाश चैव दविज यज्ञॊपघातके विक्रये चापहारे च ते दॊषा वै समृताः परभॊ ॥ 5 ॥
अपहृत्य तु यॊ गां वै बराह्मणाय परयच्छति यावद दाने फलं तस्यास तावन निरयम ऋच्छति ॥ 6 ॥
सुवर्णं दक्षिणाम आहुर गॊप्रदाने महाद्युते सुवर्णं परमं हय उक्तं दक्षिणार्थम असंशयम ॥ 7 ॥
गॊप्रदानं तारयते सप्त पूर्वांस तथा परान सुवर्णं दक्षिणां दत्त्वा तावद दविगुणम उच्यते ॥ 8 ॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा सुवर्णं पावनं शक्र पावनानां परं समृतम ॥ 9 ॥
कुलानां पावनं पराहुर जातरूपं शतक्रतॊ एषा मे दक्षिणा परॊक्ता समासेन महाद्युते ॥ 10 ॥
[भ] एतत पितामहेनॊक्तम इन्द्राय भरतर्षभ इन्द्रॊ दशरथायाह रामायाह पिता तथा ॥ 11 ॥
राघवॊ ऽपि परिय भरात्रे लक्ष्मणाय यशस्विने ऋषिभ्यॊ लक्ष्मणेनॊक्तम अरण्ये वसता विभॊ ॥ 12 ॥
पारम्पर्यागतं चेदम ऋषयः संशितव्रताः दुर्धरं धारयाम आसू राजानश चैव धार्मिकाः उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥ 13 ॥
य इदं बराह्मणॊ नित्यं वदेद बराह्मण संसदि यज्ञेषु गॊप्रदानेषु दवयॊर अपि समागमे ॥ 14 ॥
तस्य लॊकाः किलाक्षय्या दैवतैः सह नित्यदा इति बरह्मा स भगवान उवाच परमेश्वरः ॥ 15 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 73
Reach this point to mark the section finished.
Continue to अध्याय 74