[बर] यॊ ऽयं परश्नस तवया पृष्टॊ गॊप्रदानाधिकारवान नास्य परष्टास्ति लॊके ऽसमिंस तवत्तॊ ऽनयॊ हि शतक्रतॊ ॥ 1 ॥
सन्ति नानाविधा लॊका यांस तवं शक्र न पश्यसि पश्यामि यान अहं लॊकान एकपत्न्यश च याः सत्रियः ॥ 2 ॥
कर्मभिश चापि सुशुभैः सुव्रता ऋषयस तथा स शरीरा हि तान यान्ति बराह्मणाः शुभवृत्तयः ॥ 3 ॥
शरीरन्यास मॊक्षेण मनसा निर्मलेन च सवप्नभूतांश च ताँल लॊकान पश्यन्तीहापि सुव्रतः ॥ 4 ॥
ते तु लॊकाः सहस्राक्ष शृणु यादृग गुणान्विताः न तत्र करमते कालॊ न जरा न च पापकम तथान्यन नाशुभं किं चिन न वयाधिस तत्र न कलमः ॥ 5 ॥
यद यच च गावॊ मनसा तस्मिन वाञ्छन्ति वासव तत सर्वं परापयन्ति सम मम परत्यक्षदर्शनात कामगाः कामचारिण्यः कामात कामांश च भुञ्जते ॥ 6 ॥
वाप्यः सरांसि सरितॊ विविधानि वनानि च गृहाणि पर्वताश चैव यावद दरव्यं च किं चन ॥ 7 ॥
मनॊज्ञं सर्वभूतेभ्यः सर्वं तत्र परदृश्यते ईदृशान विद्धि ताँल लॊकान नास्ति लॊकस ततॊ ऽधिकः ॥ 8 ॥
तत्र सर्वसहाः कषान्ता वत्सला गुरुवर्तिनः अहंकारैर विरहिता यान्ति शक्र नरॊत्तमाः ॥ 9 ॥
यः सर्वमांसानि न भक्षयीत; पुमान सदा यावद अन्याय युक्तः मातापित्रॊर अर्चिता सत्ययुक्तः; शुश्रूषिता बराह्मणानाम अनिन्द्यः ॥ 10 ॥
अक्रॊधनॊ गॊषु तथा दविजेषु; धर्मे रतॊ गुरुशुश्रूषकश च यावज जीवं सत्यवृत्ते रतश च; दाने रतॊ यः कषमी चापराधे ॥ 11 ॥
मृदुर दान्तॊ देवपरायणश च; सर्वातिथिश चापि तथा दयावान ईदृग गुणॊ मानवः संप्रयाति; लॊकं गवां शाश्वतं चाव्ययं च ॥ 12 ॥
न पारदारी पश्यति लॊकम एनं; न वै गुरुघ्नॊ न मृषा परलापी सदापवादी बराह्मणः शान्तवेदॊ; दॊषैर अन्यैर यश च युक्तॊ दुरात्मा ॥ 13 ॥
न मित्र धरुन नैकृतिकः कृतघ्नः; शठॊ ऽनृजुर धर्मविद्वेषकश च न बरह्महा मनसापि परपश्येद; गवां लॊकं पुण्यकृतां निवासम ॥ 14 ॥
एतत ते सर्वम आख्यातं नैपुणेन सुरेश्वर गॊप्रदान रतानां तु फलं शृणु शतक्रतॊ ॥ 15 ॥
दायाद्य लब्धैर अर्थैर यॊ गाः करीत्वा संप्रयच्छति धर्मार्जित धनक्रीतान स लॊकान अश्नुते ऽकषयान ॥ 16 ॥
यॊ वै दयूते धनं जित्वा गाः करीत्वा संप्रयच्छति स दिव्यम अयुतं शक्र वर्षाणां फलम अश्नुते ॥ 17 ॥
दायाद्या यस्य वै गावॊ नयायपूर्वैर उपार्जिताः परदतास ताः परदातॄणां संभवन्त्य अक्षया धरुवाः ॥ 18 ॥
परतिगृह्य च यॊ दद्याद गाः सुशुद्धेन चेतसा तस्यापीहाक्षयाँल लॊकान धरुवान विद्धि शचीपते ॥ 19 ॥
जन्मप्रभृति सत्यं च यॊ बरूयान नियतेन्द्रियः रुगु दविज सहः कषान्तस तस्य गॊभिः समा गतिः ॥ 20 ॥
न जातु बराह्मणॊ वाच्यॊ यद अवाच्यं शचीपते मनसा गॊषु न दरुह्येद गॊवृत्तिर गॊऽनुकम्पकः ॥ 21 ॥
सत्ये धर्मे च निरतस तस्य शक्र फलं शृणु गॊसहस्रेण समिता तस्य धेनुर भवत्य उत ॥ 22 ॥
कषत्रियस्य गुणैर एभिर अन्वितस्य फलं शृणु तस्यापि शततुल्या गौर भवतीति विनिश्चयः ॥ 23 ॥
वैश्यस्यैते यदि गुणास तस्य पञ्चाशतं भवेत शूद्रस्यापि विनीतस्य चतुर्भागफलं समृतम ॥ 24 ॥
एतच चैवं यॊ ऽनुतिष्ठेत युक्तः; सत्येन युक्तॊ गुरुशुश्रूषया च दान्तः कषान्तॊ देवतार्ची परशान्तः; शुचिर बुद्धॊ धर्मशीलॊ ऽनहंवाक ॥ 25 ॥
महत फलं पराप्नुते स दविजाय; दत्त्वा दॊग्ध्रीं विधिनानेन धेनुम नित्यं दद्याद एकभक्तः सदा च; सत्ये सथिरॊ गुरुशुश्रूषिता च ॥ 26 ॥
वेद धयायी गॊषु यॊ भक्तिमांश च; नित्यं दृष्ट्वा यॊ ऽभिनन्देत गाश च आ जातितॊ यश च गवां नमेत; इदं फलं शक्र निबॊध तस्य ॥ 27 ॥
यत सयाद इष्ट्वा राजसूये फलं तु; यत सयाद इष्ट्वा बहुना काञ्चनेन एतत तुल्यं फलम अस्याहुर अग्र्यं; सर्वे सन्तस तव ऋषयॊ ये च सिद्धाः ॥ 28 ॥
यॊ ऽगरं भक्तान किं चिद अप्राश्य दद्याद; गॊभ्यॊ नित्यं गॊव्रती सत्यवादी शान्तॊ बुद्धॊ गॊसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात पुण्यशीलः ॥ 29 ॥
य एकं भक्तम अश्नीयाद दद्याद एकं गवां च यत दशवर्षाण्य अनन्तानि गॊव्रती गॊऽनुकम्पकः ॥ 30 ॥
एकेनैव च भक्तेन यः करीत्वा गां परयच्छति यावन्ति तस्य परॊक्तानि दिवसानि शतक्रतॊ तावच छतानां स गवां फलम आप्नॊति शाश्वतम ॥ 31 ॥
बराह्मणस्य फलं हीदं कषत्रिये ऽभिहितं शृणु पञ्च वार्षिकम एतत तु कषत्रियस्य फलं समृतम ततॊ ऽरधेन तु वैश्यस्य शूद्रॊ वैश्यार्धतः समृतः ॥ 32 ॥
यश चात्मविक्रयं कृत्वा गाः करीत्वा संप्रयच्छति यावतीः सपर्शयेद गा वै तावत तु फलम अश्नुते लॊम्नि लॊम्नि महाभाग लॊकाश चास्याक्षयाः समृताः ॥ 33 ॥
संग्रामेष्व अर्जयित्वा तु यॊ वै गाः संप्रयच्छति आत्मविक्रय तुल्यास ताः शाश्वता विद्धि कौशिक ॥ 34 ॥
अलाभे यॊ गवां दद्यात तिलधेनुं यतव्रतः दुर्गात स तारितॊ धेन्वा कषीरनद्यां परमॊदते ॥ 35 ॥
न तव एवासां दानमात्रं परशस्तं; पात्रं कालॊ गॊविशेषॊ विधिश च कालज्ञानं विप्र गवान्तरं हि; दुःखं जञातुं पावकादित्यभूतम ॥ 36 ॥
सवाध्यायाढ्यं शुद्धयॊनिं परशान्तं; वैतानस्थं पापभीरुं कृतज्ञम गॊषु कषान्तं नातितीक्ष्णं शरण्यं वृत्ति; गलानं तादृशं पात्रम आहुः ॥ 37 ॥
वृत्ति गलाने सीदति चाति मात्रं; कृष्यर्थं वा हॊमहेतॊः परसूत्याम गुर्वर्थं वा बाल संवृद्धये वा; धेनुं दद्याद देशकाले विशिष्टे ॥ 38 ॥
अन्तर्जाताः सुक्रय जञानलब्धाः; पराणक्रीता निर्जिताश चौकजाश च कृच्छ्रॊत्सृष्टाः पॊषणाभ्यागताश च; दवारैर एतैर गॊविशेषाः परशस्ताः ॥ 39 ॥
बलान्विताः शीलवयॊपपन्नाः; सर्वाः परशंसन्ति सुगन्धवत्यः यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥ 40 ॥
तिस्रॊ रात्रीस तव अद्भिर उपॊष्य भूमौ; तृप्ता गावस तर्पितेभ्यः परदेयाः वत्सैः पुष्टैः कषीरपैः सुप्रचारास; तयहं दत्त्वा गॊरसैर वर्तितव्यम ॥ 41 ॥
दत्त्वा धेनुं सुव्रतां साधु वत्सां; कल्याण वृत्ताम अपलायिनीं च यावन्ति लॊमानि भवन्ति तस्यास; तावन्ति वर्षाणि वसत्य अमुत्र ॥ 42 ॥
तथानड्वाहं बराह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम हलस्य बॊढारम अनन्तवीर्यं; पराप्नॊति लॊकान दश धेनुदस्य ॥ 43 ॥
कान्तारे बराह्मणान गाश च यः परित्राति कौशिक कषेमेण च विमुच्येत तस्य पुण्यफलं शृणु अश्वमेध करतॊस तुल्यं फलं भवति शाश्वतम ॥ 44 ॥
मृत्युकाले सहस्राक्ष यां वृत्तिम अनुकाङ्क्षते लॊकान बहुविधान दिव्यान यद वास्य हृदि वर्तते ॥ 45 ॥
तत सर्वं समवाप्नॊति कर्मणा तेन मानवः गॊभिश च समनुज्ञातः सर्वत्र स महीयते ॥ 46 ॥
यस तव एतेनैव विधिना गां वनेष्व अनुगच्छति तृणगॊमय पर्णाशी निःस्पृहॊ नियतः शुचिः ॥ 47 ॥
अकामं तेन वस्तव्यं मुदितेन शतक्रतॊ मम लॊके सुरैः सार्धं लॊके यत्रापि चेच्छति ॥ 48 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 72
Reach this point to mark the section finished.
Continue to अध्याय 73