धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 71

  1. [य] उक्तं वै गॊप्रदानं ते नाचिकेतम ऋषिं परति माहात्म्यम अपि चैवॊक्तम उद्देशेन गवां परभॊ ॥ 1 ॥

  2. नृगेण च यथा दुःखम अनुभूतं महात्मना एकापराधाद अज्ञानात पितामह महामते ॥ 2 ॥

  3. दवारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः मॊक्षहेतुर अभूत कृष्णस तद अप्य अवधृतं मया ॥ 3 ॥

  4. किं तव अस्ति मम संदेहॊ गवां लॊकं परति परभॊ तत्त्वतः शरॊतुम इच्छामि गॊदा यत्र विशन्त्य उत ॥ 4 ॥

  5. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथापृच्छत पद्मयॊनिम एतद एव शतक्रतुः ॥ 5 ॥

  6. [षक्र] सवर्लॊकवासिनां लक्ष्मीम अभिभूय सवया तविषा गॊलॊकवासिनः पश्ये वरजतः संशयॊ ऽतर मे ॥ 6 ॥

  7. कीदृशा भगवँल लॊका गवां तद बरूहि मे ऽनघ यान आवसन्ति दातार एतद इच्छामि वेदितुम ॥ 7 ॥

  8. कीदृशाः किं फलाः कः सवित परमस तत्र वै गुणः कथं च पुरुषास तत्र गच्छन्ति विगतज्वराः ॥ 8 ॥

  9. कियत कालं परदानस्य दाता च फलम अश्नुते कथं बहुविधं दानं सयाद अल्पम अपि वा कथम ॥ 9 ॥

  10. बह्वीनां कीदृशं दानम अल्पानां वापि कीदृशम अदत्त्वा गॊप्रदाः सन्ति केन वा तच च शंस मे ॥ 10 ॥

  11. कथं च बहु दाता सयाद अल्पदात्रा समः परभॊ अल्पप्रदाता बहुदः कथं च सयाद इहेश्वर ॥ 11 ॥

  12. कीदृशी दक्षिणा चैव गॊप्रदाने विशिष्यते एतत तथ्येन भगवन मम शंसितुम अर्हसि ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 72

Previous: अध्याय 70