धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 70

  1. दत्तानां फलसंप्राप्तिं गवां परब्रूहि मे ऽनघ विस्तरेण महाबाहॊ न हि तृप्यामि कथ्यताम ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम ऋषेर उद्दालकेर वाक्यं नाचिकेतस्य चॊभयॊः ॥ 2 ॥

  3. ऋषिर उद्दालकिर दीक्षाम उपगम्य ततः सुतम तवं माम उपचरस्वेति नाचिकेतम अभाषत समाप्ते नियमे तस्मिन महर्षिः पुत्रम अब्रवीत ॥ 3 ॥

  4. उपस्पर्शन सक्तस्य सवाख्याय निरतस्य च इध्मा दर्भाः सुमनसः कलशश चाभितॊ जलम विस्मृतं मे तद आदाय नदीतीराद इहाव्रज ॥ 4 ॥

  5. गत्वानवाप्य तत सर्वं नदीवेगसमाप्लुतम न पश्यामि तद इत्य एवं पितरं सॊ ऽबरवीन मुनिः ॥ 5 ॥

  6. कषुत्पिपासा शरमाविष्टॊ मुनिर उद्दालकिस तदा यमं पश्येति तं पुत्रम अशपत स महातपाः ॥ 6 ॥

  7. तथा स पित्राभिहतॊ वाग्वज्रेण कृताञ्जलिः परसीदेति बरुवन्न एव गतसत्त्वॊ ऽपतद भुवि ॥ 7 ॥

  8. नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः किं मया कृतम इत्य उक्त्वा निपपात महीतले ॥ 8 ॥

  9. तस्य दुःखपरीतस्य सवं पुत्रम उपगूहत वयतीतं तद अहः शेषं सा चॊग्रा तत्र शर्वरी ॥ 9 ॥

  10. पित्र्येणाश्रु परपातेन नाचिकेतः कुरूद्वह परास्पन्दच छयने कौश्ये वृष्ट्या सस्यम इवाप्लुतम ॥ 10 ॥

  11. स पर्यपृच्छत तं पुत्रं शलाघ्यं परत्यागतं पुनः दिव्यैर गन्धैः समादिग्धं कषीणस्वप्नम इवॊत्थितम ॥ 11 ॥

  12. अपि पुत्र जिता लॊकाः शुभास ते सवेन कर्मणा दिष्ट्या चासि पुनः पराप्तॊ न हि ते मानुषं वपुः ॥ 12 ॥

  13. परत्यक्षदर्शी सर्वस्य पित्रा पृष्टॊ महात्मना अन्वर्थं तं पितुर मध्ये महर्षीणां नयवेदयत ॥ 13 ॥

  14. कुर्वन भवच छासनम आशु यातॊ; हय अहं विशालां रुचिरप्रभावाम वैवस्वतीं पराप्य सबाम अपश्यं; सहस्रशॊ यॊजनहैम भौमाम ॥ 14 ॥

  15. दृष्ट्वैव माम अभिमुखम आपतन्तं; गृहं निवेद्यासनम आदिदेश वैवस्वतॊ ऽरघ्यादिभिर अर्हणैश च; भवत कृते पूजयाम आस मां सः ॥ 15 ॥

  16. ततस तव अहं तं शनकैर अवॊचं; वृतं सदस्यैर अभिपूज्यमानम पराप्तॊ ऽसमि ते विषयं धर्मराज; लॊकान अर्हे यान सम तान मे विधत्स्व ॥ 16 ॥

  17. यमॊ ऽबरवीन मां न मृतॊ ऽसि सौम्य; यमं पश्येत्य आह तु तवां तपस्वी पिता परदीप्ताग्निसमानतेजा; न तच छक्यम अनृतं विप्र कर्तुम ॥ 17 ॥

  18. देष्टस ते ऽहं परतिगच्छस्व तात; शॊचत्य असौ तव देहस्य कर्ता ददामि किं चापि मनः परणीतं; परियातिथे तव कामान वृणीष्व ॥ 18 ॥

  19. तेनैवम उक्तस तम अहं परत्यवॊचं; पराप्तॊ ऽसमि ते विषयं दुर्निवर्त्यम इच्छाम्य अहं पुण्यकृतां समृद्धाँल; लॊकान दरष्टुं यदि ते ऽहं वरार्हः ॥ 19 ॥

  20. यानं समारॊप्य तु मां स देवॊ; वाहैर युक्तं सुप्रभं भानुमन्तम संदर्शयाम आस तदा सम लॊकान; सर्वांस तदा पुण्यकृतां दविजेन्द्र ॥ 20 ॥

  21. अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम नाना संस्थान रूपाणि सर्वरत्नमयानि च ॥ 21 ॥

  22. चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च अनेकशतभौमानि सान्तर जलवनानि च ॥ 22 ॥

  23. वैडूर्यार्क परकाशानि रूप्यरुक्ममयानि च तरुणादित्यवर्णानि सथावराणि चराणि च ॥ 23 ॥

  24. भक्ष्यभॊज्यमयाञ शैलान वासांसि शयनानि च सर्वकामफलांश चैव वृक्षान भवनसंस्थितान ॥ 24 ॥

  25. नद्यॊ वीथ्यः सभा वापी दीर्घिकाश चैव सर्वशः घॊषवन्ति च यानानि युक्तान्य एव सहस्रशः ॥ 25 ॥

  26. कषीरस्रवा वै सरितॊ गिरींश च; सर्पिस तथा विमलं चापि तॊयम वैवस्वतस्यानुमतांश च देशान; अदृष्टपूर्वान सुबहून अपश्यम ॥ 26 ॥

  27. सर्वं दृष्ट्वा तद अहं धर्मराजम; अवॊचं वै परभविष्णुं पुराणम कषीरस्यैताः सर्पिषश चैव नद्यः; शश्वत सरॊताः कस्य भॊज्याः परदिष्टाः ॥ 27 ॥

  28. यमॊ ऽबरवीद विद्धि भॊज्यास तवम एता; ये दातारः साधवॊ गॊरसानाम अन्ये लॊकाः शाश्वता वीतशॊकाः; समाकीर्णा गॊप्रदाने रतानाम ॥ 28 ॥

  29. न तव एवासां दानमात्रं परशस्तं; पात्रं कालॊ गॊविशेषॊ विधिश च जञात्वा देया विप्र गवान्तरं हि; दुःखं जञातुं पावकादित्यभूतम ॥ 29 ॥

  30. सवाध्यायाढ्यॊ यॊ ऽतिमात्रं तपस्वी; वैतानस्थॊ बराह्मणः पात्रम आसाम कृच्छ्रॊत्सृष्टाः पॊषणाभ्यागताश च; दवारैर एतैर गॊविशेषाः परशस्ताः ॥ 30 ॥

  31. तिस्रॊ रात्रीर अद्भिर उपॊष्य भूमौ; तृप्ता गावस तर्पितेभ्यः परदेयाः वत्सैः परीताः सुप्रजाः सॊपचारास; तर्यहं दत्त्वा गॊरसैर वर्तितव्यम ॥ 31 ॥

  32. दत्त्वा धेनुं सुव्रतां कांस्यदॊहां; कल्याण वत्साम अपलायिनीं च यावन्ति लॊमानि भवन्ति तस्यास; तावद वर्षाण्य अश्नुते सवर्गलॊकम ॥ 32 ॥

  33. तथानड्वाहं बराह्मणाय परदाय; दान्तं धुर्यं बलवन्तं युवानम कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लॊकान संमितान धेनुदस्य ॥ 33 ॥

  34. गॊषु कषान्तं गॊशरण्यं कृतज्ञं; वृत्ति गलानं तादृशं पात्रम आहुः वृत्ति गलाने संभ्रमे वा महार्थे; कृष्यर्थे वा हॊमहेतॊः परसूत्याम ॥ 34 ॥

  35. गुर्वर्थे वा बाल पुष्ट्याभिषङ्गाद; गावॊ दातुं देशकालॊ ऽविशिष्टः अन्तर्जाताः सुक्रय जञानलब्धाः; पराणक्रीता निर्जिताश चौदकाश च ॥ 35 ॥

  36. [नचिकेतस] शरुत्वा वैवस्वतवचस तम अहं पुनर अब्रुवम अगॊमी गॊप्रदातॄणां कथं लॊकान निगच्छति ॥ 36 ॥

  37. ततॊ यमॊ ऽबरवीद धीमान गॊप्रदाने परां गतिम गॊप्रदानानुकल्पं तु गाम ऋते सन्ति गॊप्रदाः ॥ 37 ॥

  38. अलाभे यॊ गवां दद्याद घृतधेनुं यतव्रतः तस्यैता घृतवाहिन्यः कषरन्ते वत्सला इव ॥ 38 ॥

  39. घृतालाभे च यॊ दद्यात तिलधेनुं यतव्रतः स दुर्गात तारितॊ धेन्वा कषीरनद्यां परमॊदते ॥ 39 ॥

  40. तिलालाभे च यॊ दद्याज जलधेनुं यतव्रतः स कामप्रवहां शीतां नदीम एताम उपाश्नुते ॥ 40 ॥

  41. एवमादीनि मे तत्र धर्मराजॊ नयदर्शयत दृष्ट्वा च परमं हर्षम अवापम अहम अच्युत ॥ 41 ॥

  42. निवेदये चापि परियं भवत्सु; करतुर महान अल्पधनप्रचारः पराप्तॊ मया तात स मत्प्रसूतः; परपत्स्यते वेद विधिप्रवृत्तः ॥ 42 ॥

  43. शापॊ हय अयं भवतॊ ऽनुग्रहाय; पराप्तॊ मया यत्र दृष्टॊ यमॊ मे दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश चरिष्ये ॥ 43 ॥

  44. इदं च माम अब्रवीद धर्मराजः; पुनः पुनः संप्रहृष्टॊ दविजर्षे दानेन तात परयतॊ ऽभूः सदैव; विशेषतॊ गॊप्रदानं च कुर्याः ॥ 44 ॥

  45. शुद्धॊ हय अर्थॊ नावमन्यः सवधर्मात; पात्रे देयं देशकालॊपपन्ने तस्माद गावस ते नित्यम एव परदेया; मा भूच च ते संशयः कश चिद अत्र ॥ 45 ॥

  46. एताः पुरा अददन नित्यम एव; शान्तात्मानॊ दानपथे निविष्टाः तपांस्य उग्राण्य अप्रतिशङ्कमानास; ते वै दानं परददुश चापि शक्त्या ॥ 46 ॥

  47. काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः शरद्धिनः पुण्यशीलाः दत्त्वा तप्त्वा लॊकम अमुं परपन्ना; देदीप्यन्ते पुण्यशीलाश च नाके ॥ 47 ॥

  48. एतद दानं नयायलब्धं दविजेभ्यः; पात्रे दत्तं परापणीयं परीक्ष्य काम्याष्टम्यां वर्तिताव्यं दशाहं; रसैर गवां शकृता परस्नवैर वा ॥ 48 ॥

  49. वेद वरती सयाद वृषभ परदाता; वेदावाप्तिर गॊयुगस्य परदाने तीर्थावाप्तिर गॊप्रयुक्त परदाने; पापॊत्सर्गः कपिलायाः परदाने ॥ 49 ॥

  50. गाम अप्य एकां कपिलां संप्रदाय; नयायॊपेतां कल्मषाद विप्रमुच्येत गवां रसात परमं नास्ति किं चिद; गवां दानं सुमहत तद वदन्ति ॥ 50 ॥

  51. गावॊ लॊकान धारयन्ति कषरन्त्यॊ; गावश चान्नं संजनयन्ति लॊके यस तज जानन न गवां हार्दम एति; स वै गन्ता निरयं पापचेताः ॥ 51 ॥

  52. यत ते दातुं गॊसहस्रं शतं वा; शतार्धं वा दशवा साधु वत्साः अप्य एकां वा साधवे बराह्मणाय; सास्यामुष्मिन पुण्यतीर्था नदी वै ॥ 52 ॥

  53. पराप्त्या पुष्ट्या लॊकसंरक्षणेन; गावस तुल्याः सूर्यपादैः पृथिव्याम शब्दश चैकः संततिश चॊपभॊगस; तस्माद गॊदः सूर्य इवाभिभाति ॥ 53 ॥

  54. गुरुं शिष्यॊ वरयेद गॊप्रदाने; स वै वक्ता नियतं सवर्गदाता विधिज्ञानां सुमहान एष धर्मॊ; विधिं हय आद्यं विधयः संश्रयन्ति ॥ 54 ॥

  55. एतद दानं नयायलब्धं दविजेभ्यः; पात्रे दत्त्वा परापयेथाः परीक्ष्य तवय्य आशंसन्त्य अमरा मानवाश च; वयं चापि परसृते पुण्यशीलाः ॥ 55 ॥

  56. इत्य उक्तॊ ऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य अनुज्ञातस तेन वैवस्वतेन; परत्यागमं भगवत पादमूलम ॥ 56 ॥

Reach this point to mark the section finished.

Continue to अध्याय 71

Previous: अध्याय 69