धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 69

  1. [भ] अत्रैव कीर्त्यते सद्भिर बराह्मण सवाभिमर्शने नृगेण सुमहत कृच्छ्रं यद अवाप्तं कुरूद्वह ॥ 1 ॥

  2. निविशन्त्यां पुरा पार्थ दवारवत्याम इति शरुतिः अदेश्यत महाकूपस तृणवीरुत समावृतः ॥ 2 ॥

  3. परयत्नं तत्र कुर्वाणास तस्मात कूपाज जलार्थिनः शरमेण महता युक्तास तस्मिंस तॊये सुसंवृते ॥ 3 ॥

  4. ददृशुस ते महाकायं कृकलासम अवस्थितम तस्य चॊद्धरणे यत्नम अकुर्वंस ते सहस्रशः ॥ 4 ॥

  5. परग्रहैश चर्म पट्टैश च तं बद्ध्वा पर्वतॊपमम नाशक्नुवन समुद्धर्तुं ततॊ जग्मुर जनार्दनम ॥ 5 ॥

  6. खम आवृत्यॊद पानस्य कृकलासः सथितॊ महान तस्य नास्ति समुद्धर्तेत्य अथ कृष्णे नयवेदयन ॥ 6 ॥

  7. स वासुदेवेन समुद्धृतश च; पृष्टश च कामान निजगाद राजा नृगस तदात्मानम अथॊ नयवेदयत; पुरातनं यज्ञसहस्रयाजिनम ॥ 7 ॥

  8. तथा बरुवाणं तु तम आह माहवः; शुभं तवया कर्मकृतं न पापकम कथं भवान दुर्गतिम ईदृशं गतॊ; नरेन्द्र तद बरूहि किम एतद ईदृशम ॥ 8 ॥

  9. शतं सहस्राणि शतं गवां पुनः; पुनः शतान्य अष्ट शतायुतानि तवया पुरा दत्तम इतीह शुश्रुम; नृप दविजेभ्यः कव नु तद्गतं तव ॥ 9 ॥

  10. नृगस ततॊ ऽबरवीत कृष्णं बराह्मणस्याग्निहॊत्रिणः परॊषितस्य परिभ्रष्टा गौर एका मम गॊधने ॥ 10 ॥

  11. गवां सहस्रे संख्याता तदा सा पशुपैर मम सा बराह्मणाय मे दत्ता परेत्यार्थम अभिकाङ्क्षता ॥ 11 ॥

  12. अपश्यत परिमार्गंश च तां यां परगृहे दविजः ममेयम इति चॊवाच बराह्मणॊ यस्य साभवत ॥ 12 ॥

  13. ताव उभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ भवान दाता भवान हर्तेत्य अथ तौ मां तदॊचतुः ॥ 13 ॥

  14. शतेन शतसंख्येन गवां विनिमयेन वै याचे परतिग्रहीतारं स तु माम अब्रवीद इदम ॥ 14 ॥

  15. देशकालॊपसंपन्ना दॊग्ध्री कषान्ताविवत्सला सवादु कषीरप्रदा धन्या मम नित्यं निवेशने ॥ 15 ॥

  16. कृशं च भरते या गौर मम पुत्रम अपस्तनम न सा शक्या मया हातुम इत्य उक्त्वा स जगाम ह ॥ 16 ॥

  17. ततस तम अपरं विप्रं याचे विनिमयेन वै गवां शतसहस्रं वै तत कृते गृह्यताम इति ॥ 17 ॥

  18. [बर] न राज्ञां परतिगृह्णामि शक्तॊ ऽहं सवस्य मार्गणे सैव गौर दीयतां शीघ्रं ममेति मधुसूदन ॥ 18 ॥

  19. रुक्मम अश्वांश च ददतॊ रजतं सयन्दनांस तथा न जग्राह ययौ चापि तदा स बराह्मणर्षभः ॥ 19 ॥

  20. एतस्मिन्न एव काले तु चॊदितः कालधर्मणा पितृलॊकम अहं पराप्य धर्मराजम उपागमम ॥ 20 ॥

  21. यमस तु पूजयित्वा मां ततॊ वचनम अब्रवीत नान्तः संख्यायते राजंस तव पुण्यस्य कर्मणः ॥ 21 ॥

  22. अस्ति चैव कृतं पापम अज्ञानात तद अपि तवया चरस्व पापं पश्चाद वा पूर्वं वा तवं यथेच्छसि ॥ 22 ॥

  23. रक्षितास्मीति चॊक्तं ते परतिज्ञा चानृता तव बराह्मण सवस्य चादानं तरिविधस ते वयतिक्रमः ॥ 23 ॥

  24. पूर्वं कृच्छ्रं चरिष्ये ऽहं पश्चाच छुभम इति परभॊ धर्मराजं बरुवन्न एवं पतितॊ ऽसमि महीतले ॥ 24 ॥

  25. अश्रौषं परच्युतश चाहं यमस्यॊच्चैः परभाषतः वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ 25 ॥

  26. पूर्णे वर्षसहस्रान्ते कषीणे कर्मणि दुष्कृते पराप्स्यसे शाश्वताँल लॊकाञ जितान सवेनैव कर्मणा ॥ 26 ॥

  27. कूपे ऽऽतमानम अधःशीर्षम अपश्यं पतितं च ह तिर्यग्यॊनिम अनुप्राप्तं न तु माम अजहात समृतिः ॥ 27 ॥

  28. तवया तु तारितॊ ऽसम्य अद्य किम अन्यत्र तपॊबलात अनुजानीहि मां कृष्ण गच्छेयं दिवम अद्य वै ॥ 28 ॥

  29. अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम विमानं दिव्यम आस्थाय ययौ दिवम अरिंदम ॥ 29 ॥

  30. ततस तस्मिन दिवं पराप्ते नृगे भरतसत्तम वासुदेव इमं शलॊकं जगाद कुरुनन्दन ॥ 30 ॥

  31. बराह्मण सवं न हर्तव्यं पुरुषेण विजानता बराह्मण सवं हृतं हन्ति नृगं बराह्मण गौर इव ॥ 31 ॥

  32. सतां समागमः सद्भिर नाफलः पार्थ विद्यते विमुक्तं नरकात पश्य नृगं साधु समागमात ॥ 32 ॥

  33. परदानं फलवत तत्र दरॊहस तत्र तथाफलः अपचारं गवां तस्माद वर्जयेत युधिष्ठिर ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 70

Previous: अध्याय 68