[य] कर्मणां मे समस्तानां शुभानां भरतर्षभ फलानि महतां शरेष्ठ परब्रूहि परिपृच्छतः ॥ 1 ॥
[भ] रहस्यं यद ऋषीणां तु तच छृणुष्व युधिष्ठिर या गतिः पराप्यते येन परेत्य भावे चिरेप्सिता ॥ 2 ॥
येन येन शरीरेण यद यत कर्म करॊति यः तेन तेन शरीरेण तत तत फलम उपाश्नुते ॥ 3 ॥
यस्यां यस्याम अवस्थायां यत करॊति शुभाशुभम तस्यां तस्याम अवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ 4 ॥
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैर इह ते हय अस्य साक्षिणॊ नित्यं षष्ठ आत्मा तथैव च ॥ 5 ॥
चक्षुर दद्यान मनॊ दद्याद वाचं दद्याच च सूनृताम अनुव्रजेद उपासीत स यज्ञः पञ्च दक्षिणः ॥ 6 ॥
यॊ दद्याद अपरिक्लिष्टम अन्नम अध्वनि वर्तते शरान्तायादृष्ट पूर्वाय तस्य पुण्यफलं महत ॥ 7 ॥
सथण्डिले शयमानानां गृहाणि शयनानि च चीरवल्कल संवीते वासांस्य आभरणानि च ॥ 8 ॥
वाहनासन यानानि यॊगात्मनि तपॊधने अग्नीन उपशयानस्य राजपौरुषम उच्यते ॥ 9 ॥
रसानां परतिसंहारे सौभाग्यम अनुगच्छति आमिष परतिसंहारे पशून पुत्रांश च विन्दति ॥ 10 ॥
अवाक्शिरास तु यॊ लम्बेद उदवासं च यॊ वसेत सततं चैकशायी यः स लभेतेप्सितां गतिम ॥ 11 ॥
पाद्यम आसनम एवाथ दीपम अन्नं परतिश्रयम दद्याद अतिथिपूजार्थं स यज्ञः पञ्च दक्षिणः ॥ 12 ॥
वीरासनं वीरशय्यां वीर सथानम उपासतः अक्षयास तस्य वै लॊकाः सर्वकामगमास तथा ॥ 13 ॥
धनं लभेत दानेन मौनेनाज्ञां विशां पते उपभॊगांश च तपसा बरह्मचर्येण जीवितम ॥ 14 ॥
रूपम ऐश्वर्यम आरॊग्यम अहिंसा फलम अश्नुते फलमूलाशिनां राज्यं सवर्गः पर्णाशिनां तथा ॥ 15 ॥
परायॊपवेशनाद राज्यं सर्वत्र सुखम उच्यते सवर्गं सत्येन लभते दीक्षया कुलम उत्तमम ॥ 16 ॥
गवाढ्यः शाकदीक्षायां सवर्गगामी तृणाशनः सत्रियस तरिषवणं सनात्वा वायुं पीत्वा करतुं लभेत ॥ 17 ॥
सलिलाशी भवेद यश च सदाग्निः संस्कृतॊ दविजः मरुं साधयतॊ राज्यं नाकपृष्ठम अनाशके ॥ 18 ॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव कृत्वा दवादश वर्षाणि वीर सथानाद विशिष्यते ॥ 19 ॥
अधीत्य सर्ववेदान वै सद्यॊ दुःखात परमुच्यते मानसं हि चरन धर्मं सवर्गलॊकम अवाप्नुयात ॥ 20 ॥
या दुस्त्यजा दुर्मतिभिर यानजीर्यति जीर्यतः यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम ॥ 21 ॥
यथा धेनु सहस्रेषु वत्सॊ विन्दति मातरम एवं पूर्वकृतं कर्म कर्तारम अनुगच्छति ॥ 22 ॥
अचॊद्यमानानि यथा पुष्पाणि च फलानि च सवकालं नातिवर्तन्ते तथा कर्म पुरा कृतम ॥ 23 ॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः चक्षुः शरॊत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ 24 ॥
येन परीणाति पितरं तेन परीतः परजापतिः परीणाति मातरं येन पृथिवी तेन पूजिता येन परीणात्य उपाध्यायं तेन सयाद बरह्म पूजितम ॥ 25 ॥
सर्वे तस्यादृता धर्मा यस्यैते तरय आदृताः अनादृतास तु यस्यैते सर्वास तस्याफलाः करियाः ॥ 26 ॥
[व] भीष्मस्य तद वचः शरुत्वा विस्मिताः कुरुपुंगवाः आसन परहृष्टमनसः परीतिमन्तॊ ऽभवंस तदा ॥ 27 ॥
यन मन्त्रे भवति वृथा परयुज्यमाने; यत सॊमे भवति वृथाभिषूयमाणे यच चाग्नौ भवति वृथाभिहूयमाने; तत सर्वं भवति वृथाभिधीयमाने ॥ 28 ॥
इत्य एतद ऋषिणा परॊक्तम उक्तवान अस्मि यद विभॊ शुभाशुभफलप्राप्तौ किम अतः शरॊतुम इच्छसि ॥ 29 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8