धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 6

  1. [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद दैवे पुरुषकारे च किं सविच छरेष्ठतरं भवेत ॥ 1 ॥

  2. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम वसिष्ठस्य च संवादं बरह्मणश च युधिष्ठिर ॥ 2 ॥

  3. दैवमानुषयॊः किं सवित कर्मणॊः शरेष्ठम इत्य उत पुरा वसिष्ठॊ भगवान पितामहम अपृच्छत ॥ 3 ॥

  4. ततः पद्मॊद्भवॊ राजन देवदेवः पितामहः उवाच मधुरं वाक्यम अर्थवद धेतु भूषितम ॥ 4 ॥

  5. नाबीजं जायते किं चिन न बीजेन विना फलम बीजाद बीजं परभवति बीजाद एव फलं समृतम ॥ 5 ॥

  6. यादृशं वपते बीजं कषेत्रम आसाद्य कर्षकः सुकृते दुष्कृते वापि तादृशं लभते फलम ॥ 6 ॥

  7. यथा बीजं विना कषेत्रम उप्तं भवति निष्फलम तथा पुरुषकारेण विना दैवं न सिध्यति ॥ 7 ॥

  8. कषेत्रं पुरुषकारस तु दैवं बीजम उदाहृतम कषृत्र बीजसमायॊगात ततः सस्यसमृध्यते ॥ 8 ॥

  9. कर्मणः फलनिर्वृत्तिं सवयम अश्नाति कारकः परत्यक्षं दृश्यते लॊके कृतस्याप्य अकृतस्य च ॥ 9 ॥

  10. शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा कृतं सर्वत्र लभते नाकृतं भुज्यते कव चित ॥ 10 ॥

  11. कृती सर्वत्र लभते परतिष्ठां भाग्यविक्षतः अकृती लभते भरष्टः कषते कषारावसेचनम ॥ 11 ॥

  12. तपसा रूपसौभाग्यं रत्नानि विविधानि च पराप्यते कर्मणा सर्वं न दैवाद अकृतात्मना ॥ 12 ॥

  13. तथा सवर्गश च भॊगश च निष्ठा या च मनीषिता सर्वं पुरुषकारेण कृतेनेहॊपपद्यते ॥ 13 ॥

  14. जयॊतींषि तरिदशा नागा यक्षाश चन्द्रार्कमारुताः सर्वे पुरुषकारेण मानुष्याद देवतां गताः ॥ 14 ॥

  15. अर्थॊ वा मित्रवर्गॊ वा ऐश्वर्यं वा कुलान्वितम शरीश चापि दुर्लभा भॊक्तुं तथैवाकृत कर्मभिः ॥ 15 ॥

  16. शौचेन लभते विप्रः कषत्रियॊ विक्रमेण च वैश्यः पुरुषकारेण शूद्रः शुश्रूषया शरियम ॥ 16 ॥

  17. नादातारं भजन्त्य अर्था न कलीबं नापि निष्क्रियम नाकर्म शीलं नाशूरं तथा नैवातपस्विनम ॥ 17 ॥

  18. येन लॊकास तरयः सृष्टा दैत्याः सर्वाश च देवताः स एष भगवान विष्णुः समुद्रे तप्यते तपः ॥ 18 ॥

  19. सवं चेत कर्मफलं न सयात सर्वम एवाफलं भवेत लॊकॊ दैवं समालम्ब्य उदासीनॊ भवेन न तु ॥ 19 ॥

  20. अकृत्वा मानुषं कर्म यॊ दैवम अनुवर्तते वृथा शराम्यति संप्राप्य पतिं कलीबम इवाङ्गना ॥ 20 ॥

  21. न तथा मानुषे लॊके भयम अस्ति शुभाशुभे यथा तरिदशलॊके हि भयम अल्पेन जायते ॥ 21 ॥

  22. कृतः पुरुषकारस तु दैवम एवानुवर्तते न दैवम अकृते किं चित कस्य चिद दातुम अर्हति ॥ 22 ॥

  23. यदा सथानान्य अनित्यानि दृश्यन्ते दैवतेष्व अपि कथं कर्म विना दैवं सथास्यते सथापयिष्यति ॥ 23 ॥

  24. न दैवतानि लॊके ऽसमिन वयापारं यान्ति कस्य चित वयासङ्गं जनयन्त्य उग्रम आत्माभिभवशङ्कया ॥ 24 ॥

  25. ऋषीणां देवतानां च सदा भवति विग्रहः कस्य वाचा हय अदैवं सयाद यतॊ दैवं परवर्तते ॥ 25 ॥

  26. कथं चास्य समुत्पत्तिर यथा दैवं परवर्तते एवं तरिदशलॊके ऽपि पराप्यन्ते बहवश छलाः ॥ 26 ॥

  27. आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः आत्मैव चात्मनः साक्षी कृतस्याप्य अकृतस्य च ॥ 27 ॥

  28. कृतं च विकृतं किं चित कृते कर्मणि सिध्यति सुकृते दुष्कृतं कर्म न यथार्थं परपद्यते ॥ 28 ॥

  29. देवानां शरणं पुण्यं सर्वं पुण्यैर अवाप्यते पुण्यशीलं नरं पराप्य किं दैवं परकरिष्यति ॥ 29 ॥

  30. पुरा ययातिर विभ्रष्टश चयावितः पतितः कषितौ पुनर आरॊपितः सवर्गं दौहित्रैः पुण्यकर्मभिः ॥ 30 ॥

  31. पुरूरवाश च राजर्षिर दविजैर अभिहितः पुरा ऐल इत्य अभिविख्यातः सवर्गं पराप्तॊ महीपतिः ॥ 31 ॥

  32. अश्वमेधादिभिर यज्ञैः सत्कृतः कॊसलाधिपः महर्षिशापात सौदासः पुरुषादत्वम आगतः ॥ 32 ॥

  33. अश्वत्थामा च रामश च मुनिपुत्रौ धनुर्धरौ न गच्छतः सवर्गलॊकं सुकृतेनेह कर्मणा ॥ 33 ॥

  34. वसुर यज्ञशतैर इष्ट्वा दवितीय इव वासवः मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ 34 ॥

  35. बलिर वैरॊचनिर बद्धॊधर्मपाशेन दैवतैः विष्णॊः पुरुषकारेण पातालशयनः कृतः ॥ 35 ॥

  36. शक्रस्यॊदस्य चरणं परस्थितॊ जनमेजयः दविज सत्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ 36 ॥

  37. अज्ञानाद बराह्मणं हत्वा सपृष्टॊ बालवधेन च वैशम्पायन विप्रर्षिः किं दैवेन निवारितः ॥ 37 ॥

  38. गॊप्रदानेन मिथ्या च बराह्मणेभ्यॊ महामखे पुरा नृगश च राजर्षिः कृकलासत्वम आगतः ॥ 38 ॥

  39. धुन्धुमारश च राजर्षिः सत्रेष्व एव जरां गतः परीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥ 39 ॥

  40. पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर महाबलैः पुनः परत्याहृतं चैव न दैवाद भुजसंश्रयात ॥ 40 ॥

  41. तपॊ नियमसंयुक्ता मुनयः संशितव्रताः किं ते दैवबलाच छापम उत्सृजन्ते न कर्मणा ॥ 41 ॥

  42. पापम उत्सृजते लॊके सर्वं पराप्य सुदुर्लभम लॊभमॊहसमापन्नं न दैवं तरायते नरम ॥ 42 ॥

  43. यथाग्निः पवनॊद्धूतः सूक्ष्मॊ ऽपि भवते महान तथा कर्म समायुक्तं दैवं साधु विवर्धते ॥ 43 ॥

  44. यथा तैलक्षयाद दीपः परम्लानिम उपगच्छति तथा कर्म कषयाद दैवं परम्लानिम उपगच्छति ॥ 44 ॥

  45. विपुलम अपि धनौघं पराप्य भॊगान सत्रियॊ वा; पुरुष इह न शक्तः कर्म हीनॊ ऽपि भॊक्तुम सुनिहितम अपि चार्थं दैवतै रक्ष्यमाणं; वययगुणम अपि साधुं कर्मणा संश्रयन्ते ॥ 45 ॥

  46. भवति मनुजलॊकाद देवलॊकॊ विशिष्टॊ; बहुतर सुसमृद्ध्या मानुषाणां गृहाणि पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलॊकेन दैवम ॥ 46 ॥

  47. वयपनयति विमार्गं नास्ति दैवे परभुत्वं; गुरुम इव कृतम अग्र्यं कर्म संयाति दैवम अनुपहतम अदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस तत्र तत्र ॥ 47 ॥

  48. एतत ते सर्वम आख्यातं मया वै मुनिसत्तम फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥ 48 ॥

  49. अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा विधिना कर्मणा चैव सवर्गमार्गम अवाप्नुयात ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5