[य] भूय एव कुरुश्रेष्ठ दानानां विधिम उत्तमम कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥ 1 ॥
पृथिवीं कषत्रियॊ दद्याद बराह्मणस तां सवकर्मणा विधिवत परतिगृह्णीयान न तव अन्यॊ दातुम अर्हति ॥ 2 ॥
सर्ववर्णैस तु यच छक्यं परदातुं फलकाङ्क्षिभिः वेदे वा यत समाम्नातं तन मे वयाख्यातुम अर्हसि ॥ 3 ॥
[भ] तुल्यनामानि देयानि तरीणि तुल्यफलानि च सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥ 4 ॥
यॊ बरूयाच चापि शिष्याय धर्म्यां बराह्मीं सरस्वतीम पृथिवी गॊप्रदानाभ्यां स तुल्यं फलम अश्नुते ॥ 5 ॥
तथैव गाः परशंसन्ति न च देयं ततः परम संनिकृष्टफलास ता हि लघ्व अर्थाश च युधिष्ठिर मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥ 6 ॥
वृद्धिम आकाङ्क्षता नित्यं गावः कार्याः परदक्षिणाः मङ्गलायतनं देव्यस तस्मात पूज्याः सदैव हि ॥ 7 ॥
परचॊदनं देवकृतं गवां कर्मसु वर्तताम पूर्वम एवाक्षरं नान्यद अभिधेयं कथं चन ॥ 8 ॥
परचारे वा निपाने वा बुधॊ नॊद्वेजयेत गाः तृषिता हय अभिवीक्षन्त्यॊ नरं हन्युः स बान्धवम ॥ 9 ॥
पितृसद्मानि सततं देवतायतनानि च पूयन्ते शकृता यासां पूतं किम अधिकं ततः ॥ 10 ॥
गरास मुष्टिं परगवे दद्यात संवत्सरं तु यः अकृत्वा सवयम आहारं वरतं तत सार्वकामिकम ॥ 11 ॥
स हि पुत्रान यशॊऽरथं च शरियं चाप्य अधिगच्छति नाशयत्य अशुभं चैव दुःस्वप्नं च वयपॊहति ॥ 12 ॥
[य] देयाः किं लक्षणा गावः काश चापि परिवर्जयेत कीदेशाय परदातव्या न देयाः कीदृशाय च ॥ 13 ॥
[बः] असद्वृत्ताय पापाय लुब्धायानृत वादिने हव्यकव्य वयपेताय न देया गौः कथं चन ॥ 14 ॥
भिक्षवे बहुपुत्राय शरॊत्रियायाहिताग्नये दत्त्वा दश गवां दाता लॊकान आप्नॊत्य अनुत्तमान ॥ 15 ॥
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत सर्वस्यैवांश भाग दाता तन्निमित्तं परवृत्तयः ॥ 16 ॥
यश चैनम उत्पादयति यश चैनं तरायते भयात यश चास्य कुरुते वृत्तिं सर्वे ते पितरस तरयः ॥ 17 ॥
कल्मषं गुरुशुश्रूषा हन्ति मानॊ महद यशः अपुत्रतां तरयः पुत्रा अवृत्तिं दश धेनवः ॥ 18 ॥
वेदान्तनिष्ठस्य बहुश्रुतस्य; परज्ञान तृप्तस्य जितैन्द्रियस्य शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं परियवादिनश च ॥ 19 ॥
यः कषुद्भयाद वै न विकर्म कुर्यान; मृदुर दान्तश चातिथेयश च नित्यम वृत्तिं विप्रायातिसृजेत तस्मै; यस तुल्यशीलश च सपुत्रदारः ॥ 20 ॥
शुभे पात्रे ये गुणा गॊप्रदाने; तावान दॊषॊ बराह्मण सवापहारे सर्वावस्थं बराह्मण सवापहारॊ; दाराश चैषां दूरतॊ वर्जनीयाः ॥ 21 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 68
Reach this point to mark the section finished.
Continue to अध्याय 69