[य] तिलानां कीदृशं दानम अथ दीपस्य चैव ह अन्नानां वाससां चैव भूय एव बरवीहि मे ॥ 1 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बराह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥ 2 ॥
मध्यदेशे महान गरामॊ बराह्मणानां बभूव ह गङ्गायमुनयॊर मध्ये यामुनस्य गिरेर अधः ॥ 3 ॥
पर्णशालेति विख्यातॊ रमणीयॊ नराधिप विद्वांसस तत्र भूयिष्ठा बराह्मणाश चावसंस तदा ॥ 4 ॥
अथ पराह यमः कं चित पुरुषं कृष्णवाससम रक्ताक्षम ऊर्ध्वरॊमाणं काकजङ्घाक्षि नासिकम ॥ 5 ॥
गच्छ तवं बराह्मण गरामं ततॊ गत्वा तम आनय अगस्त्यं गॊत्रतश चापि नामतश चापि शर्मिणम ॥ 6 ॥
शमे निविष्टं विद्वांसम अध्यापकम अनादृतम मा चान्यम आनयेथास तवं स गॊत्रं तस्य पार्श्वतः ॥ 7 ॥
स हि तादृग गुणस तेन तुल्यॊ ऽधययन जन्मना अपत्येषु तथा वृत्ते समस्तेनैव धीमता तम आनय यथॊद्दिष्टं पूजा कार्या हि तस्य मे ॥ 8 ॥
स गत्वा परतिकूलं तच चकार यम शासनम तम आक्रम्यानयाम आस परतिषिद्धॊ यमेन यः ॥ 9 ॥
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान परॊवाच नीयताम एष सॊ ऽनय आनीयताम इति ॥ 10 ॥
एवम उक्ते तु वचने धर्मराजेन स दविजः उवाच धर्मराजानं निर्विण्णॊ ऽधययनेन वै यॊ मे कालॊ भवेच छेषस तं वसेयम इहाच्युत ॥ 11 ॥
[यम] नाहं कालस्य विहितं पराप्नॊमीह कथं चन यॊ हि धर्मं चरति वै तं तु जानामि केवलम ॥ 12 ॥
गच्छ विप्र तवम अद्यैव आलयं सवं महाद्युते बरूहि वा तवं यथा सवैरं करवाणि किम इत्य उत ॥ 13 ॥
[बर] यत तत्र कृत्वा सुमहत पुण्यं सयात तद बरवीहि मे सर्वस्य हि परमाणं तवं तरैलॊक्यस्यापि सत्तम ॥ 14 ॥
[य] शृणु तत्त्वेन विप्रर्षे परदानविधिम उत्तमम तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम ॥ 15 ॥
तिलाश च संप्रदातव्या यथाशक्ति दविजर्षभ नित्यदानात सर्वकामांस तिला निर्वर्तयन्त्य उत ॥ 16 ॥
तिलाञ शराद्धे परशंसन्ति दानम एतद धयनुत्तमम तान परयच्छस्व विप्रेभ्यॊ विधिदृष्टेन कर्मणा ॥ 17 ॥
तिला भक्षयितव्याश च सदा तव आलभनं च तैः कार्यं सततम इच्छद्भिः शरेयः सर्वात्मना गृहे ॥ 18 ॥
तथापः सर्वदा देयाः पेयाश चैव न संशयः पुष्करिण्यस तडागानि कूपांश चैवात्र खानयेत ॥ 19 ॥
एतत सुदुर्लभतरम इह लॊके दविजॊत्तम आपॊ नित्यं परदेयास ते पुण्यं हय एतद अनुत्तमम ॥ 20 ॥
परपाश च कार्याः पानार्थं नित्यं ते दविजसत्तम भुक्ते ऽपय अथ परदेयं ते पानीयं वै विशेषतः ॥ 21 ॥
इत्य उक्ते स तदा तेन यमदूतेन वै गृहान नीतश चकार च तथा सर्वं तद यम शासनम ॥ 22 ॥
नीत्वा तं यमदूतॊ ऽपि गृहीत्वा शर्मिणं तदा ययौ स धर्मराजाय नयवेदयत चापि तम ॥ 23 ॥
तं धर्मराजॊ धर्मज्ञं पूजयित्वा परतापवान कृत्वा च संविदं तेन विससर्ज यथागतम ॥ 24 ॥
तस्यापि च यमः सर्वम उपदेशं चकार ह परत्येत्य च स तत सर्वं चकारॊक्तं यमेन तत ॥ 25 ॥
तथा परशंसते दीपान यमः पितृहितेप्सया तस्माद दीपप्रदॊ नित्यं संतारयति वै पितॄन ॥ 26 ॥
दातव्याः सततं दीपास तस्माद भरतसत्तम देवानां च पितॄणां च चक्षुष्य आस्ते मताः परभॊ ॥ 27 ॥
रत्नदानं च सुमहत पुण्यम उक्तं जनाधिप तानि विक्रीय यजते बराह्मणॊ हय अभयंकरः ॥ 28 ॥
यद वै ददाति विप्रेभ्यॊ बराह्मणः परतिगृह्य वै उभयॊः सयात तद अक्षय्यं दातुर आदातुर एव च ॥ 29 ॥
यॊ ददाति सथितः सथित्यां तादृशाय परतिग्रहम उभयॊर अक्षयं धर्मं तं मनुः पराह धर्मवित ॥ 30 ॥
वाससां तु परदानेन सवदारनिरतॊ नरः सुवस्त्रश च सुवेषश च भवतीत्य अनुशुश्रुम ॥ 31 ॥
गावः सुवर्णं च तथा तिलाश चैवानुवर्णिताः बहुशः पुरुषव्याघ्र वेद परामाण्य दर्शनात ॥ 32 ॥
विवाहांश चैव कुर्वीत पुत्रान उत्पादयेत च पुत्रलाभॊ हि कौरव्य सर्वलाभाद विशिष्यते ॥ 33 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 67
Reach this point to mark the section finished.
Continue to अध्याय 68