[य] इदं देयम इदं देयम इतीयं शरुतिचॊदना बहु देयाश च राजानः किं सविद देयम अनुत्तमम ॥ 1 ॥
[भ] अति दानानि सर्वाणि पृथिवी दानम उच्यते अचला हय अक्षया भूमिर दॊग्ध्री कामान अनुत्तमान ॥ 2 ॥
दॊग्ध्री वासांसि रत्नानि पशून वरीहि यवांस तथा भूमिदः सर्वभूतेषु शाश्वतीर एधते समाः ॥ 3 ॥
यावद भूमेर आयुर इह तावद भूमिद एधते न भूमिदानाद अस्तीह परं किं चिद युधिष्ठिर ॥ 4 ॥
अप्य अल्पं परददुः पूर्वे पृथिव्या इति नः शरुतम भूमिम एते ददुः सर्वे ये भूमिं भुञ्जते जनाः ॥ 5 ॥
सवकर्मैवॊपजीवन्ति नरा इह परत्र च भूमिर भूतिर महादेवी दातारं कुरुते परियम ॥ 6 ॥
य एतां दक्षिणां दद्याद अक्षयां पृथिवीपतिः पुनर नरत्वं संप्राप्य भवेत स पृथिवीपतिः ॥ 7 ॥
यथा दानं तथा भॊग इति धर्मेषु निश्चयः संग्रामे वा तनुं जह्याद दद्याद वा पृथिवीम इमाम ॥ 8 ॥
इत्य एतां कषत्रबन्धूनां वदन्ति परम आशिषम पुनाति दत्ता पृथिवी दातारम इति शुश्रुम ॥ 9 ॥
अपि पापसमाचारं बरह्मघ्नम अपि वानृतम सैव पापं पावयति सैव पापात परमॊचयेत ॥ 10 ॥
अपि पापकृतां राज्ञां परतिगृह्णन्ति साधवः पृथिवीं नान्यद इच्छन्ति पावनं जननी यथा ॥ 11 ॥
नामास्याः परिय दत्तेति गुह्यं देव्याः सनातनम दानं वाप्य अथ वा जञानं नाम्नॊ ऽसयाः परमं परियम तस्पात पराप्यैव पृथिवीं दद्याद विप्राय पार्थिवः ॥ 12 ॥
नाभूमि पतिना भूमिर अधिष्ठेया कथं चन न वा पात्रेण वा गूहेद अन्तर्धानेन वा चरेत ये चान्ये भूमिम इच्छेयुः कुर्युर एवम असंशयम ॥ 13 ॥
यः साधॊर भूमिम आदत्ते न भूमिं विन्दते तु सः भूमिं तु दत्त्वा साधुभ्यॊ विन्दते भूमिम एव हि परेत्येह च स धर्मात्मा संप्राप्नॊति महद यशः ॥ 14 ॥
यस्य विप्रानुशासन्ति साधॊर भूमिं सदैव हि न तस्य शत्रवॊ राजन परशासन्ति वसुंधराम ॥ 15 ॥
यत किं चित पुरुषः पापं कुरुते वृत्ति कर्शितः अपि गॊचर्म मात्रेण भूमिदानेन पूयते ॥ 16 ॥
ये ऽपि संकीर्ण कर्माणॊ राजानॊ रौद्रकर्मिणः तेभ्यः पवित्रम आख्येयं भूमिदानम अनुत्तमम ॥ 17 ॥
अल्पान्तरम इदं शश्वत पुराणा मेनिरे जनाः यॊ यजेद अश्वमेधेन दद्याद वा साधवे महीम ॥ 18 ॥
अपि चेत सुकृतं कृत्वा शङ्केरन्न अपि पण्डिताः अशक्यम एकम एवैतद भीमि दानम अनुत्तमम ॥ 19 ॥
सुवर्णं रजतं वस्त्रं मणिमुक्ता वसूनि च सर्वम एतन महाप्राज्ञ ददाति वसुधां ददत ॥ 20 ॥
तपॊयज्ञः शरुतं शीलम अलॊभः सत्यसंधता गुरु दैवतपूजा च नातिवर्तन्ति भूमिदम ॥ 21 ॥
भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः बरह्मलॊकगताः सिद्धा नातिक्रामन्ति भूमिदम ॥ 22 ॥
यथा जनित्री कषीरेण सवपुत्रं भरते सदा अनुगृह्णाति दातारं तथा सर्वरसैर मही ॥ 23 ॥
मृत्यॊर वै किंकरॊ दण्डस तापॊ वह्नेः सुदारुणः घॊराश च वारुणाः पाशा नॊपसर्पन्ति भूमिदम ॥ 24 ॥
पितॄंश च पितृलॊकस्थान देवलॊके च देवताः संतर्पयति शान्तात्मा यॊ ददाति वसुंधराम ॥ 25 ॥
कृशाय मिर्यमाणाय वृत्ति मलानाय सीदते भूमिं वृत्ति करीं दत्त्वा सत्री भवति मानवः ॥ 26 ॥
यथा धावति गौर वत्सं कषीरम अभ्युत्सृजन्त्य उत एवम एव महाभाग भूमिर भवति भूमिदम ॥ 27 ॥
हलकृष्टां महीं दत्त्वा स बीजां सफलाम अपि उदीर्णं वापि शरणं तथा भवति कामदः ॥ 28 ॥
बराह्मणं वृत्तसंपन्नम आहिताग्निं शुचिव्रतम नरः परतिग्राह्य महीं न याति यमसादनम यथा चन्द्रमसॊ वृद्धिर अहन्य अहनि जायते ॥ 29 ॥
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥ 30 ॥
अत्र गाथा भूमिगीताः कीर्तयन्ति पुरा विदः याः शरुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ 31 ॥
माम एवादत्त मां दत्तमां दत्त्वा माम अवाप्स्यथ अस्मिँल लॊके परे चैव ततश चाजनने पुनः ॥ 32 ॥
य इमां वयाहृतिं वेद बराह्मणॊ बरह्म संश्रितः शराद्धस्य हूयमानस्य बरह्मभूयं स गच्छति ॥ 33 ॥
कृत्यानाम अभिशस्तानां दुरिष्ट शमनं महत परायश्चित्तम अहं कृत्वा पुनात्य उभयतॊ दश ॥ 34 ॥
पुनाति य इदं वेद वेद चाहं तथैव च परकृतिः सर्वभूतानां भूमिर वै शाश्वती मता ॥ 35 ॥
अभिषिच्यैव नृपतिं शरावयेद इमम आगमम यथा शरुत्वा महीं दद्यान नादद्यात साधुतश च ताम ॥ 36 ॥
सॊ ऽयं कृत्स्नॊ बराह्मणार्थॊ राजार्थश चाप्य असंशयम राजा हि धर्मकुशलः परथमं भूतिलक्षणम ॥ 37 ॥
अथ येषाम अधर्मज्ञॊ राजा भवति नास्तिकः न ते सुखं परबुध्यन्ते न सुखं परस्वपन्ति च ॥ 38 ॥
सदा भवन्ति चॊद्विग्नास तस्य दुश्चरितैर नराः यॊगक्षेमा हि बहवॊ राष्ट्रं नास्याविशन्ति तत ॥ 39 ॥
अथ येषां पुनः पराज्ञॊ राजा भवति धार्मिकः सुखं ते परतिबुध्यन्ते सुसुखं परस्वपन्ति च ॥ 40 ॥
तस्य राज्ञः शुभैर आर्यैः कर्मभिर निर्वृताः परजाः यॊगक्षेमेण वृष्ट्या च विवर्धन्ते सवकर्मभिः ॥ 41 ॥
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत स दाता स च विक्रान्तॊ यॊ ददाति वसुंधराम ॥ 42 ॥
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ददन्ति वसुधां सफीतां ये वेदविदुषि दविजे ॥ 43 ॥
यथा बीजानि रॊहन्ति परकीर्णानि महीतले तथा कामाः पररॊहन्ति भूमिदानसमार्जिताः ॥ 44 ॥
आदित्यॊ वरुणॊ विष्णुर बरह्मा सॊमॊ हुताशनः शूलपाणिश च भगवान परतिनन्दन्ति भूमिदम ॥ 45 ॥
भूमौ जायन्ति पुरुषा भूमौ निष्ठां वरजन्ति च चतुर्विधॊ हि लॊकॊ ऽयं यॊ ऽयं भूमिगुणात्मकः ॥ 46 ॥
एषा माता पिता चैव जगतः पृथिवीपते नानया सदृशं भूतं किं चिद अस्ति जनाधिप ॥ 47 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर ॥ 48 ॥
इष्ट्वा करतुशतेनाथ महता दक्षिणावता मघवा वाग विदां शरेष्ठं पप्रच्छेदं बृहस्पतिम ॥ 49 ॥
भगवन केन दानेन सवर्गतः सुखम एधते यद अक्षयं महार्घं च तद बरूहि वदतां वर ॥ 50 ॥
इत्य उक्तः स सुरेन्द्रेण ततॊ देवपुरॊहितः बृहस्पतिर महातेजाः परत्युवाच शतक्रतुम ॥ 51 ॥
सुवर्णदानं गॊदानं भूमिदानं च वृत्रहन ददद एतान महाप्राज्ञः सर्वपापैः परमुच्यते ॥ 52 ॥
न भूमिदानाद देवेन्द्र परं किं चिद इति परभॊ विशिष्टम इति मन्यामि यथा पराहुर मनीषिणः ॥ 53 ॥
ये शूरा निहता युद्धे सवर्याता दानगृद्धिनः सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम ॥ 54 ॥
भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः बरह्मलॊकगताः शूरा नातिक्रामन्ति भूमिदम ॥ 55 ॥
पञ्च पूर्वादि पुरुषाः षट च ये वसुधां गताः एकादश ददद भूमिं परित्रातीह मानवः ॥ 56 ॥
रत्नॊपकीर्णां वसुधां यॊ ददाति पुरंदर स मुक्तः सर्वकलुषैः सवर्गलॊके महीयते ॥ 57 ॥
महीं सफीतां ददद राजा सर्वकामगुणान्विताम राजाधिराजॊ भवति तद धि दानम अनुत्तमम ॥ 58 ॥
सर्वकामसमायुक्तां काश्यपीं यः परयच्छति सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥ 59 ॥
सर्वकामदुघां धेनुं सर्वकामपुरॊगमाम ददाति यः सहस्राक्ष सस्वर्गं याति मानवः ॥ 60 ॥
मधु सर्पिः परवाहिन्यः पयॊ दधि वहास तथा सरितस तर्पयन्तीह सुरेन्द्र वसुधा परदम ॥ 61 ॥
भूमिप्रदानान नृपतिर मुच्यते राजकिल्बिषात न हि भूमिप्रदानेन दानम अन्यद विशिष्यते ॥ 62 ॥
ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम तं जनाः कथयन्तीह यावद धरति गौर इयम ॥ 63 ॥
पुण्याम ऋद्धरसां भूमिं यॊ ददाति पुरंदर न तस्य लॊकाः कषीयन्ते भूमिदानगुणार्जिताः ॥ 64 ॥
सर्वथा पार्थिवेनेह सततं भूतिम इच्छता भूर देया विधिवच छक्र पात्रे सुखम अभीप्सता ॥ 65 ॥
अपि कृत्वा नरः पापं भूमिं दत्त्वा दविजातये समुत्सृजति तत पापं जीर्णां तवचम इवॊरगः ॥ 66 ॥
सागरान सरितः शैलान काननानि च सर्वशः सर्वम एतन नरः शक्र ददाति वसुधां ददत ॥ 67 ॥
तडागान्य उदपानानि सरॊतांसिच सरांसि च सनेहान सर्वरसांश चैव ददाति वसुधां ददत ॥ 68 ॥
ओषधीः कषीरसंपन्ना नगान पुष्पफलान्वितान काननॊपल शैलांश च ददाति वसुधां ददत ॥ 69 ॥
अग्निष्टॊमप्रभृतिभिर इष्ट्वा च सवाप्तदक्षिणैः न तत फलम अवाप्नॊति भूमिदानाद यद अश्नुते ॥ 70 ॥
दाता दशानुगृह्णाति दश हन्ति तथा कषिपन पूर्वदत्तां हरन भूमिं नरकायॊपगच्छति ॥ 71 ॥
न ददाति परतिश्रुत्य दत्त्वा वा हरते तु यः स बद्धॊवारुणैः पाशैस तप्यते मृत्युशासनात ॥ 72 ॥
आहिताग्निं सदा यज्ञं कृश भृत्यं परियातिथिम ये भरन्ति दविजश्रेष्ठं नॊपसर्पन्ति ते यमम ॥ 73 ॥
बराह्मणेष्व ऋण भूतं सयात पार्थिवस्य पुरंदर इतरेषां तु वर्णानां तारयेत कृश दुर्बलान ॥ 74 ॥
नाच्छिन्द्यात सर्शितां भूमिं परेण तरिदशादिप बराह्मणाय सुरश्रेष्ठ कृश भृत्याय कश चन ॥ 75 ॥
अथाश्रु पतितं तेषां दीनानाम अवसीदताम बराह्मणानां हृते कषेत्रे हन्यात तरिपुरुषं कुलम ॥ 76 ॥
भूमिपालं चयुतं राष्ट्राद यस तु संस्थापयेत पुनः तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ 77 ॥
इक्षुभिः संततां भूमिं यवगॊधूमसंकुलाम गॊऽशववाहन संपूर्णां बाहुवीर्यसमार्जिताम ॥ 78 ॥
निधिगर्भां ददद भूमिं सर्वरत्नपरिच्छदाम अक्षयाँल लभते लॊकान भूमिसत्रं हि तस्य तत ॥ 79 ॥
विधूय कलुषं सर्वं विरजाः संमतः सताम लॊके महीयते सद्भिर यॊ ददाति वसुंधराम ॥ 80 ॥
यथाप्सु पतितः शक्र तैलबिन्दुर विसर्पति तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ॥ 81 ॥
ये रणाग्रे महीपालाः शूराः समितिशॊभनाः वध्यन्ते ऽभिमुखाः शक्र बरह्मलॊकं वरजन्ति ते ॥ 82 ॥
नृत्यगीतपरा नार्यॊ दिव्यमाल्यविभूषिताः उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि ॥ 83 ॥
मॊदते च सुखं सवर्गे देवगन्धर्वपूजितः यॊ ददाति महीं सम्यग विधिनेह दविजातये ॥ 84 ॥
शतम अप्सरसश चैव दिव्यमाल्यविभूषिताः उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम ॥ 85 ॥
शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः भूमिप्रदानात पुष्पाणि हिरण्यनिचयास तथा ॥ 86 ॥
आज्ञा सदा परतिहता जयशब्दॊ भवत्य अथ भूमिदानस्य पुष्पाणि फलं सवर्गः पुरंदर ॥ 87 ॥
हिरण्यपुष्पाश चौषध्यः कुश काञ्चनशाड्वलाः अमृतप्रसवां भूमिं पराप्नॊति पुरुषॊ ददत ॥ 88 ॥
नास्ति भूमिसमं दानं नास्ति मातृसमॊ गुरुः नास्ति सत्यसमॊ धर्मॊ नास्ति दानसमॊ निधिः ॥ 89 ॥
एतद आङ्गिरसाच छरुत्वा वासवॊ वसुधाम इमाम वसु रत्नसमाकीर्णां ददाव आङ्गिरसे तदा ॥ 90 ॥
य इमं शरावयेच छराद्धे भूमिदानस्य संस्तवम न तस्य रक्षसां भागॊ नासुराणां भवत्य उत ॥ 91 ॥
अक्षयं च भवेद दत्तं पितृभ्यस तन न संशयः तस्माच छराद्धेष्व इदं विप्र भुञ्जतः शरावयेद दविजान ॥ 92 ॥
इत्य एत सर्वदानानां शरेष्ठम उक्तं तवानघ मया भरतशार्दूल किं भूयः शरॊतुम इच्छसि ॥ 93 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 61
Reach this point to mark the section finished.
Continue to अध्याय 62