[य] कानि दानानि लॊके ऽसमिन दातुकामॊ महीपतिः गुणाधिकेभ्यॊ विप्रेभ्यॊ दद्याद भरतसत्तम ॥ 1 ॥
केन तुष्यन्ति ते सद्यस तुष्टाः किं परदिशन्त्य उत शंस मे तन महाबाहॊ फलं पुण्यकृतं महत ॥ 2 ॥
दत्तं किं फलवद राजन्न इह लॊके परत्र च भवतः शरॊतुम इच्छामि तन मे विस्तरतॊ वद ॥ 3 ॥
[भ] इमम अर्थं पुरा पृष्टॊ नारदॊ देव दर्शनः यद उक्तवान असौ तन मे गदतः शृणु भारत ॥ 4 ॥
[न] अन्नम एव परशंसन्ति देवाः सर्षिगणाः पुरा लॊकतन्त्रं हि यज्ञाश च सर्वम अन्ने परतिष्ठितम ॥ 5 ॥
अन्नेन सदृशं दानं न भूतं न भविष्यति तस्माद अन्नं विशेषेण दातुम इच्छन्ति मानवाः ॥ 6 ॥
अन्नम ऊर्जः करं लॊके पराणाश चान्ने परतिष्ठिताः अन्नेन धार्यते सर्वं विश्वं जगद इदं परभॊ ॥ 7 ॥
अन्नाद गृहस्था लॊके ऽसमिन भिक्षवस तत एव च अन्नात परभवति पराणः परत्यक्षं नात्र संशयः ॥ 8 ॥
कुटुम्बं पीडयित्वापि बराह्मणाय महात्मने दातव्यं भिक्षवे चान्नम आत्मनॊ भूतिम इच्छता ॥ 9 ॥
बराह्मणायाभिरूपाय यॊ दद्याद अन्नम अर्थिने निदधाति निधिं शरेष्ठं पाललौकिकम आत्मनः ॥ 10 ॥
शरान्तम अध्वनि वर्तन्तं वृद्धम अर्हम उपस्थितम अर्चयेद भूतिम अन्विच्छन गृहस्थॊ गृहम आगतम ॥ 11 ॥
करॊधम उत्पतितं हित्वा सुशीलॊ वीतमत्सरः अन्नदः पराप्नुते राजन दिवि चेह च यत सुखम ॥ 12 ॥
नावमन्येद अभिगतं न परणुद्यात कथं चन अपि शवपाके शुनि वा न दानं विप्रणश्यति ॥ 13 ॥
यॊ दद्याद अपरिक्लिष्टम अन्नम अध्वनि वर्तते शरान्तायादृष्ट पूर्वाय स महद धर्मम आप्नुयात ॥ 14 ॥
पितॄन देवान ऋषीन विप्रान अतिथींश च जनाधिप यॊ नरः परीणयत्य अन्नैस तस्य पुण्यफलं महत ॥ 15 ॥
कृत्वापि पापकं कर्म यॊ दद्याद अन्नम अर्थिने बराह्मणाय विशेषेण न स पापेन युज्यते ॥ 16 ॥
बराह्मणेष्व अक्षयं दानम अन्नं शूद्रे महाफलम अन्नदानं च शूद्रे च बराह्मणे च विशिष्यते ॥ 17 ॥
न पृच्छेद गॊत्र चरणं सवाध्यायं देशम एव वा भिक्षितॊ बराह्मणेनेह जन्म वान्नं परयाचितः ॥ 18 ॥
अन्नदस्यान्न वृक्षाश च सर्वकामफलान्विताः भवन्तीहाथ वामुत्र नृपते नात्र संशयः ॥ 19 ॥
आशंसन्ते हि पितरः सुवृष्टिम इव कर्षकाः अस्माकम अपि पुत्रॊ वा पौत्रॊ वान्नं परदास्यति ॥ 20 ॥
बराह्मणॊ हि महद भूतं सवयं देहीति याचते अकामॊ वा स कामॊ वा दत्त्वा पुण्यम अवाप्नुयात ॥ 21 ॥
बराह्मणः सर्वभूतानाम अतिथिः परसृताग्र भुज विप्रा यम अभिगच्छन्ति भिक्षमाणा गृहं सदा ॥ 22 ॥
सत्कृताश च निवर्तन्ते तद अतीव परवर्धते महाभॊगे कुले जन्म परेत्य पराप्नॊति भारत ॥ 23 ॥
दत्वा तव अन्नं नरॊ लॊके तथा सथानम अनुत्तमम मृष्टमृष्टान्न दायी तु सवर्गे वसति सत्कृतः ॥ 24 ॥
अन्नं पराणा नराणां हि सर्वम अन्ने परतिष्ठितम अन्नदः पशुमान पुत्री धनवान भॊगवान अपि ॥ 25 ॥
पराणवांश चापि भवति रूपवांश च तथा नृप अन्नदः पराणदॊ लॊके सर्वदः परॊच्यते तु सः ॥ 26 ॥
अन्नं हि दत्त्वातिथये बराह्मणाय यथाविधि परदाता सुखम आप्नॊति देवैश चाप्य अभिपूज्यते ॥ 27 ॥
बराह्मणॊ हि महद भूतं कषेत्रं चरति पादवत उप्यते तत्र यद बीजं तद धि पुण्यफलं महत ॥ 28 ॥
परत्यक्षं परीतिजननं भॊक्तृदात्रॊर भवत्य उत सर्वाण्य अन्यानि दानानि परॊक्षफलवन्त्य उत ॥ 29 ॥
अन्नाद धि परसवं विद्धि रतिम अन्नाद धि भारत धर्मार्थाव अन्नतॊ विद्धि रॊगनाशं तथान्नतः ॥ 30 ॥
अन्नं हय अमृतम इत्य आह पुराकल्पे परजापतिः अन्नं भुवं दिवं खं च सर्वम अन्ने परतिष्ठितम ॥ 31 ॥
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः बलं बलवतॊ ऽपीह परणश्यत्य अन्नहानितः ॥ 32 ॥
आवाहाश च विवाहाश च यज्ञाश चान्नम ऋते तथा न वर्तन्ते नरश्रेष्ठ बरह्म चात्र परलीयते ॥ 33 ॥
अन्नतः सर्वम एतद धि यत किं चित सथाणुजङ्गमम तरिषु लॊकेषु धर्मार्थम अन्नं देयम अतॊ बुधैः ॥ 34 ॥
अन्नदस्य मनुष्यस्य बलम ओजॊ यशः सुखम कीर्तिश च वर्धते वश्वत तरिषु लॊकेषु पार्थिव ॥ 35 ॥
मेघेष्व अम्भः संनिधत्ते पराणानां पवनः शिवः तच च मेघगतं वारि शक्रॊ वर्षति भारत ॥ 36 ॥
आदत्ते च रसं भौमम आदित्यः सवगभस्तिभिः वायुर आदित्यतस तांश च रसान देवः परजापतिः ॥ 37 ॥
तद यदा मेघतॊ वारि पतितं भवति कषितौ तदा वसुमती देवी सनिग्धा भवति भारत ॥ 38 ॥
ततः सस्यानि रॊहन्ति येन वर्तयते जगत मांसमेदॊ ऽसथि शुक्राणां परादुर्भावस ततः पुनः ॥ 39 ॥
संभवन्ति ततः शुक्रात पराणिनः पृथिवीपते अग्नीषॊमौ हि तच छुक्रं परजनः पुष्यतश च ह ॥ 40 ॥
एवम अन्नं च सूर्यश च पवनः शुक्रम एव च एक एव समृतॊ राशिर यतॊ भूतानि जज्ञिरे ॥ 41 ॥
पराणान ददाति भूतानां तेजश च भरतर्षभ गृहम अभ्यागतायाशु यॊ दद्याद अन्नम अर्थिने ॥ 42 ॥
[भ] नारदेनैवम उक्तॊ ऽहम अदाम अन्नं सदा नृप अनसूयुस तवम अप्य अन्नं तस्माद देहि गतज्वरः ॥ 43 ॥
दत्त्वान्नं विधिवद राजन विप्रेभ्यस तवम अपि परभॊ यथावद अनुरूपेभ्यस ततः सवर्गम अवाप्स्यसि ॥ 44 ॥
अन्नदानां हि ये लॊकास तांस तवं शृणु नराधिप भवनानि परकाशन्ते दिवि तेषां महात्मनाम नाना संस्थान रूपाणि नाना सतम्भान्वितानि च ॥ 45 ॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च तरुणादित्यवर्णानि सथावराणि चराणि च ॥ 46 ॥
अनेकशतभौमानि सान्तर्जल वनानि च वैडूर्यार्क परकाशानि रौप्य रुक्ममयानि च ॥ 47 ॥
सर्वकामफलाश चापि वृक्षा भवनसंस्थिताः वाप्यॊ वीथ्यः सभाः कूपा दीर्घिकाश चैव सर्वशः ॥ 48 ॥
घॊषवन्ति च यानानि युक्तान्य अथ सहस्रशः भक्ष्यभॊज्य मयाः शैला वासांस्य आभरणानि च ॥ 49 ॥
कषीरं सरवन्त्यः सरितस तथा चैवान्न पर्वताः परासादाः पाण्डुराभ्राभाः शय्याश च कनकॊज्ज्वलाः तान अन्नदाः परपद्यन्ते तस्माद अन्नप्रदॊ भव ॥ 50 ॥
एते लॊकाः पुण्यकृताम अन्नदानां महात्मनाम तस्माद अन्नं विशेषेण दातव्यं मानवैर भुवि ॥ 51 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 62
Reach this point to mark the section finished.
Continue to अध्याय 63