धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 5

  1. [य] आनृशंसस्य धर्मस्य गुणान भक्त जनस्य च शरॊतुम इच्छामि कार्त्स्न्येन तन मे बरूहि पितामह ॥ 1 ॥

  2. [भ] विषये काशिराजस्य गरामान निष्क्रम्य लुब्धकः स विषं काण्डम आदाय मृगयाम आस वै मृगम ॥ 2 ॥

  3. तत्र चामिष लुब्धेन लुब्धकेन महावने अविदूरे मृगं दृष्ट्वा बाणः परतिसमाहितः ॥ 3 ॥

  4. तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा महान वनतरुर विद्धॊ मृगं तत्र जिघांसता ॥ 4 ॥

  5. स तीक्ष्णविषदिग्धेन शरेणाति बलात्कृतः उत्सृज्य फलपत्राणि पादपः शॊषम आगतः ॥ 5 ॥

  6. तस्मिन वृक्षे तथा भूते कॊटरेषु चिरॊषितः न जहाति शुकॊ वासं तस्य भक्त्या वनस्पतेः ॥ 6 ॥

  7. निष्प्रचारॊ निराहारॊ गलानः शिथिल वाग अपि कृतज्ञः सह वृक्षेण धर्मात्मा स वयशुष्यत ॥ 7 ॥

  8. तम उदारं महासत्त्वम अतिमानुष चेष्टितम समदुःखसुखं जञात्वा विस्मितः पाकशासनः ॥ 8 ॥

  9. ततश चिन्ताम उपगतः शक्रः कथम अयं दविजः तिर्यग्यॊनाव असंभाव्यम आनृशंस्यं समास्थितः ॥ 9 ॥

  10. अथ वा नात्र चित्रं हीत्य अभवद वासवस्य तु पराणिनाम इह सर्वेषां सर्वं सर्वत्र दृश्यते ॥ 10 ॥

  11. ततॊ बराह्मण वेषेण मानुषं रूपम आस्थितः अवतीर्य महीं शक्रस तं पक्षिणम उवाच ह ॥ 11 ॥

  12. शुकभॊः पक्षिणां शरेष्ठ दाक्षेयी सुप्रजास तवया पृच्छे तवा शुष्कम एतं वै कस्मान न तयजसि दरुमम ॥ 12 ॥

  13. अथ पृष्टः शुकः पराह मूर्ध्ना समभिवाद्य तम सवागतं देवराजाय विज्ञातस तपसा मया ॥ 13 ॥

  14. ततॊ दशशताक्षेण साधु साध्व इति भाषितम अहॊ विज्ञानम इत्य एवं तपसा पूजितस ततः ॥ 14 ॥

  15. तम एवं शुभकर्माणं शुकं परमधार्मिकम विजानन्न अपि ताम्प्राप्तिं पप्रच्छ बलसूदनः ॥ 15 ॥

  16. निष्पत्रम अफलं शुष्कम अशरण्यं पतत्रिणाम किमर्थं सेवसे वृक्षं यदा महद इदं वनम ॥ 16 ॥

  17. अन्ये ऽपि बहवॊ वृक्षाः पत्रसंछन्न कॊटराः शुभाः पर्याप्तसंचारा विद्यन्ते ऽसमिन महावने ॥ 17 ॥

  18. गतायुषम असामर्थ्यं कषीणसारं हतश्रियम विमृश्य परज्ञया धीरजहीमं हय अस्थिरं दरुमम ॥ 18 ॥

  19. तद उपश्रुत्य धर्मात्मा शुकः शुक्रेण भाषितम सुदीर्घम अभिनिःश्वस्य दीनॊ वाक्यम उवाच ह ॥ 19 ॥

  20. अनतिक्रमणीयानि दैवतानि शचीपते यत्राभवस तत्र भवस तन निबॊध सुराधिप ॥ 20 ॥

  21. अस्मिन्न अहं दरुमे जातः साधुभिश च गुणैर युतः बालभावे च संगुप्तः शत्रिभिश च न धर्षितः ॥ 21 ॥

  22. किम अनुक्रॊश वैफल्यम उत्पादयसि मे ऽनघ आनृशंस्ये ऽनुरक्तस्य भक्तस्यानुगतस्य च ॥ 22 ॥

  23. अनुक्रॊशॊ हि साधूनां सुमहद धर्मलक्षणम अनुक्रॊशश च साधूनां सदा परीतिं परयच्छति ॥ 23 ॥

  24. तवम एव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान अतस तवं देवदेवानाम आधिपत्ये परतिष्ठितः ॥ 24 ॥

  25. नार्हसि तवं सहस्राक्ष तयाजयित्वेह भक्तितः समर्थम उपजीव्येमं तयजेयं कथम अद्य वै ॥ 25 ॥

  26. तस्य वाक्येन सौम्येन हर्षितः पाकशासनः शुकं परॊवाच धर्मज्ञम आनृशंस्येन तॊषितः ॥ 26 ॥

  27. वरं वृणीष्वेति तदा स च वव्रे वरं शुकः आनृशंस्य परॊ नित्यं तस्य वृक्षस्य संभवम ॥ 27 ॥

  28. विदित्वा च दृढां शक्रस तां शुके शीलसंपदम परीतः कषिप्रम अथॊ वृक्षम अमृतेनावसिक्तवान ॥ 28 ॥

  29. ततः फलानि पत्राणि शाखाश चापि मनॊरमाः शुकस्य दृढभक्तित्वाच छरीमत्त्वं चापस दरुमः ॥ 29 ॥

  30. शुकश च कर्मणा तेन आनृशंस्य कृतेन ह आयुषॊ ऽनते महाराज पराप शक्र सलॊकताम ॥ 30 ॥

  31. एवम एव मनुष्येन्द्र भक्तिमन्तं समाश्रितः सर्वार्थसिद्धिं लभते शुकं पराप्य यथा दरुमः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 6

Previous: अध्याय 4