[य] यौ तु सयातां चरणेनॊपपन्नौ; यौ विद्यया सदृशौ जन्मना च ताभ्यां दानं कतरस्मै विशिष्टम; अयाचमानाय च याचते च ॥ 1 ॥
[भ] शरेयॊ वै याचतः पार्थ दत्तम आहुर अयाचते अर्हत तमॊ वै धृतिमान कृपणाद अधृतात्मनः ॥ 2 ॥
कषत्रियॊ रक्षणधृतिर बराह्मणॊ ऽनर्थना धृतिः बराह्मणॊ धृतिमान विद्वान देवान परीणाति तुष्टिमान ॥ 3 ॥
याच्ञाम आहुर अनीशस्य अभिहारं च भारत उद्वेजयति याचन हि सदा भूतानि दस्युवत ॥ 4 ॥
मरियते याचमानॊ वै तम अनु मरियते ददत ददत संजीवयत्य एनम आत्मानं च युधिष्ठिर ॥ 5 ॥
आनृशंस्यं परॊ धर्मॊ याचते यत परदीयते अयाचतः सीदमानान सर्वॊपायैर निमन्त्रय ॥ 6 ॥
यदि वै तादृशा राष्ट्रे वसेयुस ते दविजॊत्तमाः भस्मच्छन्नान इवाग्नींस तान बुध्येथास तवं परयत्नतः ॥ 7 ॥
तपसा दीप्यमानास ते दहेयुः पृथिवीम अपि पूज्या हि जञानविज्ञानतपॊ यॊगसमन्विताः ॥ 8 ॥
तेभ्यः पूजां परयुञ्जीथा बराह्मणेभ्यः परंतप ददद बहुविधान दायान उपच्छन्दान अयाचताम ॥ 9 ॥
यद अग्निहॊत्रे सुहुते सायंप्रातर भवेत फलम विद्या वेद वरतवति तद दानफलम उच्यते ॥ 10 ॥
विद्या वेद वरतस्नातान अव्यपाश्रय जीविनः गूढस्वाध्यायतपसॊ बराह्मणान संशितव्रतान ॥ 11 ॥
कृतैर आवसथैर हृद्यैः स परेष्यैः स परिच्छदैः निमन्त्रयेथाः कौन्तेय कामैश चान्यैर दविजॊत्तमान ॥ 12 ॥
अपि ते परतिगृह्णीयुः शरद्धा पूतं युधिष्ठिर कार्यम इत्य एव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 13 ॥
अपि ते बराह्मणा भुक्त्वा गताः सॊद्धरणान गृहान येषां दाराः परतीक्षन्ते पर्जन्यम इव कर्षकाः ॥ 14 ॥
अन्नानि परातःसवने नियता बरह्मचारिणः बराह्मणास तातभुञ्जानास तरेताग्नीन परीणयन्तु ते ॥ 15 ॥
माध्यंदिनं ते सवनं ददतस तात वर्तताम गा हिरण्यानि वासांसि तेनेन्द्रः परीयतां तव ॥ 16 ॥
तृतीयं सवनं तत ते वैश्वदेवं युधिष्ठिर यद देवेभ्यः पितृभ्यश च विप्रेभ्यश च परयच्छसि ॥ 17 ॥
अहिंसा सर्वभूतेभ्यः संविभागश च सर्वशः दमस तयागॊ धृतिः सत्यं भवत्व अवभृथाय ते ॥ 18 ॥
एष ते विततॊ यज्ञः शरद्धा पूतः स दक्षिणः विशिष्टः सर्वयज्ञेभ्यॊ नित्यं तात परवर्तताम ॥ 19 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60