[य] मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः हीनां पार्थिव संघातैः शरीमद्भिः पृथिवीम इमाम ॥ 1 ॥
पराप्य राज्यानि शतशॊ महीं जित्वापि भारत कॊटिशः पुरुषान हत्वा परितप्ये पितामह ॥ 2 ॥
का नु तासां वरस्त्रीणाम अवस्थाद्य भविष्यति या हीनाः पतिभिः पुत्रैर मातुलैर भरातृभिस तथा ॥ 3 ॥
वयं हि तान गुरुन हत्वा जञातींश च सुहृदॊ ऽपि च अवा कशीर्षाः पतिष्यामॊ नरके नात्र संशयः ॥ 4 ॥
शरीरं यॊक्तुम इच्छामि तपसॊग्रेण भारत उपदिष्टम इहेच्छामि तत्त्वतॊ ऽहं विशां पते ॥ 5 ॥
[व] युधिष्ठिरस्य तद वाक्यं शरुत्वा भीष्मॊ महामनाः परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरम अभाषत ॥ 6 ॥
रहस्यम अद्भुतं चैव शृणु वक्ष्यामियत तवयि या गतिः पराप्यते येन परेत्य भावेषु भारत ॥ 7 ॥
तपसा पराप्यते सवर्गस तपसा पराप्यते यशः आयुः परकर्षॊ भॊगाश च लभ्यन्ते तपसा विभॊ ॥ 8 ॥
जञानं विज्ञानम आरॊग्यं रूपं संपत तथैव च सौभाग्यं चैव तपसा पराप्यते भरतर्षभ ॥ 9 ॥
धनं पराप्नॊति तपसा मौनं जञानं परयच्छति उपभॊगांस तु दानेन बरह्मचर्येण जीवितम ॥ 10 ॥
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले फलमूलाशिनां राज्यं सवर्गं पर्णाशिनां भवेत ॥ 11 ॥
पयॊ भक्षॊ दिवं याति सनानेन दरविणाधिकः गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः ॥ 12 ॥
गवाढ्यः शाकदीक्षाभिः सवर्गम आहुस तृणाशनात सत्रियस तरिषवण सनानाद वायुं पीत्वा करतुं लभेत ॥ 13 ॥
नित्यस्नायी भवेद दक्षः संध्ये तु दवे जपन दविजः मरुं साधयतॊ राज्यं नाकपृष्ठम अनाशके ॥ 14 ॥
सथण्डिले शयमानानां गृहाणि शयनानि च चीरवल्कल वासॊभिर वासांस्य आभरणानि च ॥ 15 ॥
शय्यासनानि यानानि यॊगयुक्ते तपॊधने अग्निप्रवेशे नियतं बरह्मलॊकॊ विधीयते ॥ 16 ॥
रसानां परतिसंहारात सौभाग्यम इह विन्दति आमिष परतिसंहारात परजास्यायुष मती भवेत ॥ 17 ॥
उदवासं वसेद यस तु स नराधिपतिर भवेत सत्यवादी नरश्रेष्ठ दैवतैः सह मॊदते ॥ 18 ॥
कीर्तिर भवति दानेन तथारॊग्यम अहिंसया दविज शुश्रूषया राज्यं दविजत्वं वापु पुष्कलम ॥ 19 ॥
पानीयस्य परदानेन कीर्तिर भवति शाश्वती अन्नपानप्रदानेन तृप्यते कामभॊगतः ॥ 20 ॥
सान्त्वदः सर्वभूतानां सर्वशॊकैर विमुच्यते देव शुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥ 21 ॥
दीपालॊक परदानेन चक्षुष्मान भवते नरः परेक्षणीय परदानेन समृतिं मेधां च विन्दति ॥ 22 ॥
गन्धमाल्यनिवृत्त्या तु कीर्तिर भवति पुष्कला केशश्मश्रून धारयताम अग्र्या भवति संततिः ॥ 23 ॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव कृत्वा दवादश वर्षाणि वीर सथानाद विशिष्यते ॥ 24 ॥
दासीदासम अलंकारान कषेत्राणि च गृहाणि च बरह्म देयां सुतां दत्त्वा पराप्नॊति मनुजर्षभ ॥ 25 ॥
करतुभिश चॊपवासैश च तरिदिवं याति भारत लभते च चिरं सथानं बलिपुष्पप्रदॊ नरः ॥ 26 ॥
सुवर्णशृङ्गैस तु विभूषितानां; गवां सहस्रस्य नरः परदाता पराप्नॊति पुण्यं दिवि देवलॊकम; इत्य एवम आहुर मुनिदेव संघाः ॥ 27 ॥
परयच्छते यः कपिलां स चैलां; कांस्यॊपदॊहां कनकाग्र शृङ्गीम तैस तैर गुणैः कामदुघास्य भूत्वा; नरं परदातारम उपैति सा गौः ॥ 28 ॥
यावन्ति लॊमानि भवन्ति धेन्वास; तावत फलं पराप्नुते गॊप्रदाता पुत्रांश च पौत्रांश च कुलं च सर्वम; आ सप्तमं तारयते परत्र ॥ 29 ॥
स दक्षिणां काञ्चनचारु शृङ्गीं; कांस्यॊपदॊहां दरविणॊत्तरीयाम धेनुं तिलानां ददतॊ दविजाय; लॊका वसूनां सुलभा भवन्ति ॥ 30 ॥
सवकर्मभिर मानवं संनिबद्धं; तीव्रान्ध करे नरके पतन्तम महार्णवे नौर इव वायुयुक्ता; दानं गवां तारयते परत्र ॥ 31 ॥
यॊ बरह्म देयां तु ददाति कन्यां; भूमिप्रदानं च करॊति विप्रे ददाति चान्नं विधिवच च यश च; स लॊकम आप्नॊति पुरंदरस्य ॥ 32 ॥
नैवेशिकं सर्वगुणॊपपन्नं; ददाति वै यस तु नरॊ दविजाय सवाध्यायचारित्रगुणान्विताय; तस्यापि लॊकाः कुरुषूत्तरेषु ॥ 33 ॥
धुर्यप्रदानेन गवां तथाश्वैर; लॊकान अवाप्नॊति नरॊ वसूनाम सवर्गाय चाहुर हि हिरण्यदानं; ततॊ विशिष्टं कनकप्रदानम ॥ 34 ॥
छत्रप्रदानेन गृहं वरिष्ठं; यानं तथॊपानह संप्रदाने वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर नरः सयात ॥ 35 ॥
पुष्पॊपगं वाथ फलॊपगं वा; यः पादपं सपर्शयते दविजाय स सत्री समृद्धां बहुरत्नपूर्णं; लभत्य अयत्रॊपगतं गृहं वै ॥ 36 ॥
भक्षान्न पानीय रसप्रदाता; सर्वान अवाप्नॊति रसान परकामम परतिश्रयाच्छादन संप्रदाता; पराप्नॊति तान एव न संशयॊ ऽतर ॥ 37 ॥
सरग धूपगन्धान्य अनुलेपनानि; सनानानि माल्यानि च मानवॊ यः दद्याद दविजेभ्यः स भवेद अरॊगस; तथाभिरूपश च नरेन्द्र लॊके ॥ 38 ॥
बीजैर अशून्यं शयनैर उपेतं; दद्याद गृहं यः पुरुषॊ दविजाय पुण्याभिरामं बहुरत्नपूर्णं; लभत्य अधिष्ठान वरं स राजन ॥ 39 ॥
सुगन्धचित्रास्त्ररणॊपपन्नं; दद्यान नरॊ यः शयनं दविजाय रूपान्वितां पक्षवतीं मनॊज्ञां; भार्याम अयत्नॊपगतां लभेत सः ॥ 40 ॥
पितामहस्यानुचरॊ वीर शायी भवेन नरः नाधिकं विद्यते तस्माद इत्य आहुः परमर्षयः ॥ 41 ॥
[व] तस्य तद वचनं शरुत्वा परीतात्मा कुरुनन्दनः नाश्रमे ऽरॊचयद वासं वीरमार्गाभिकाङ्क्षया ॥ 42 ॥
ततॊ युधिष्ठिरः पराह पाण्डवान भरतर्षभ पितामहस्य यद वाक्यं तद वॊ रॊचत्व इति परभुः ॥ 43 ॥
ततस तु पाण्डवाः सर्वे दरौपदी च यशस्विनी युधिष्ठिरस्य तद वाक्यं बाढम इत्य अभ्यपूजयन ॥ 44 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 57
Reach this point to mark the section finished.
Continue to अध्याय 58