धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 56

  1. [च] अवश्यं कथनीयं मे तवैतन नरपुंगव यदर्थं तवाहम उच्छेत्तुं संप्राप्तॊ मनुजाधिप ॥ 1 ॥

  2. भृगूणां कषत्रिया याज्या नित्यम एव जनाधिप ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ 2 ॥

  3. कषत्रियाश च भृगून सर्वान वधिष्यन्ति नराधिप आ गर्भाद अनुकृन्तन्तॊ दैवदण्डनिपीडिताः ॥ 3 ॥

  4. तत उत्पत्स्यते ऽसमाकं कुले गॊत्र विवर्धनः और्वॊ नाम महातेजा जवलनार्कसमद्युतिः ॥ 4 ॥

  5. स तरैलॊक्यविनाशाय कॊपाग्निं जनयिष्यति महीं स पर्वत वनां यः करिष्यति भस्मसात ॥ 5 ॥

  6. कं चित कालं तु तं वह्निं स एव शमयिष्यति समुद्रे वडवा वक्त्रे परक्षिप्य मुनिसत्तमः ॥ 6 ॥

  7. पुत्रं तस्य महाभागम ऋचीकं भृगुनन्दनम साक्षात कृत्स्नॊ धनुर्वेदः समुपस्थास्यते ऽनघ ॥ 7 ॥

  8. कषत्रियाणाम अभावाय दैवयुक्तेन हेतुना स तु तं परतिगृह्यैव पुत्रे संक्रामयिष्यति ॥ 8 ॥

  9. जमदग्नौ महाभागे तपसा भावितात्मनि स चापि भृगुशार्दूलस तं वेदं धारयिष्यति ॥ 9 ॥

  10. कुलात तु तव धर्मात्मन कन्या सॊ ऽधिगमिष्यति उद्भावनार्थं भवतॊ वंशस्य नृपसत्तम ॥ 10 ॥

  11. गाधेर दुहितरं पराप्य पौत्रीं तव महातपाः बराह्मणं कषत्रधर्माणं रामम उत्पादयिष्यति ॥ 11 ॥

  12. कषत्रियं विप्र कर्माणं बृहस्पतिम इवौजसा विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम तपसा महता युक्तं परदास्यति महाद्युते ॥ 12 ॥

  13. सत्रियौ तु कारणं तत्र परिवर्ते भविष्यतः पितामह नियॊगाद वै नान्यथैतद भविष्यति ॥ 13 ॥

  14. तृतीये पुरुषे तुभ्यं बराह्मण तवम उपैष्यति भविता तवं च संबन्धी भृगूणां भावितात्मनाम ॥ 14 ॥

  15. [भ] कुशिकस तु मुनेर वाक्यं चयवनस्य महात्मनः शरुत्वा हृष्टॊ ऽभवद राजा वाक्यं चेदम उवाच ह एवम अस्त्व इति धर्मात्मा तदा भरतसत्तम ॥ 15 ॥

  16. चयवनस तु महातेजाः पुनर एव नराधिपम वरार्थं चॊदयाम आस तम उवाच स पार्थिवः ॥ 16 ॥

  17. बाढम एवं गरहीष्यामि कामं तवत्तॊ महामुने बरह्मभूतं कुलं मे ऽसतु धर्मे चास्य मनॊ भवेत ॥ 17 ॥

  18. एवम उक्तस तथेत्य एवं परत्युक्त्वा चयवनॊ मुनिः अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥ 18 ॥

  19. एतत ते कथितं सर्वम अशेषेण मया नृप भृगूणां कुशिकानां च परति संबन्ध कारणम ॥ 19 ॥

  20. यथॊक्तं मुनिना चापि तथा तद अभवन नृप जन्म रामस्य च मुनेर विश्वामित्रस्य चैव ह ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 57

Previous: अध्याय 55