[च] वरश च गृह्यतां मत्तॊ यश च ते संशयॊ हृदि तं च बरूहि नरश्रेष्ठ सर्वं संपादयामि ते ॥ 1 ॥
[कुषिक] यदि परीतॊ ऽसि भगवंस ततॊ मे वद भार्गव कारणं शरॊतुम इच्छामि मद्गृहे वासकारितम ॥ 2 ॥
शयनं चैकपार्श्वेन दिवसान एकविंशतिम अकिं चिद उक्त्वा गमनं बहिश च मुनिपुंगव ॥ 3 ॥
अन्तर्धानम अकस्माच च पुनर एव च दर्शनम पुनश च शयनं विप्र दिवसान एकविंशतिम ॥ 4 ॥
तैलाभ्यक्तस्य गमनं भॊजनं च गृहे मम समुपानीय विविधं यद दग्धं जातवेदसा निर्याणं च रथेनाशु सहसा यत्कृतं तवया ॥ 5 ॥
धनानां च विसर्गस्य वनस्यापि च दर्शनम परासादानां बहूनां च काञ्चनानां महामुने ॥ 6 ॥
मणिविद्रुम पादानां पर्यङ्कानां च दर्शनम पुनश चादर्शनं तस्य शरॊतुम इच्छामि कारणम ॥ 7 ॥
अतीव हय अत्र मुह्यामि चिन्तयानॊ दिवानिशम न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम एतद इच्छामि कार्त्स्न्येन सत्यं शरॊतुं तपॊधन ॥ 8 ॥
[च] शृणु सर्वम अशेषेण यद इदं येन हेतुना न हि शक्यम अनाख्यातुम एवं पृष्टेन पार्थिव ॥ 9 ॥
पितामहस्य वदतः पुरा देवसमागमे शरुतवान अस्मि यद राजंस तन मे निगदतः शृणु ॥ 10 ॥
बरह्मक्षत्रविरॊधेन भविता कुलसंकरः पौत्र सते भविता राजंस तेजॊ वीर्यसमन्वितः ॥ 11 ॥
ततः सवकुलरक्षार्थम अहं तवा समुपागमम चिकीर्षन कुशिकॊच्छेदं संदिधक्षुः कुलं तव ॥ 12 ॥
ततॊ ऽहम आगम्य पुरा तवाम अवॊचं महीपते नियमं कं चिद आरप्स्ये शुश्रूषा करियताम इति ॥ 13 ॥
न च ते दुष्कृतं किं चिद अहम आसादयं गृहे तेन जीवसि राजर्षे न भवेथास ततॊ ऽनयथा ॥ 14 ॥
एतां बुद्धिं समास्थाय दिवसान एकविंशतिम सुप्तॊ ऽसमि यदि मां कश चिद बॊधयेद इति पार्थिव ॥ 15 ॥
यदा तवया सभार्येण संस्पुतॊ न परबॊधितः अहं तदैव ते परीतॊ मनसा राजसत्तम ॥ 16 ॥
उत्थाय चास्मि निष्क्रान्तॊ यदि मां तवं महीपते पृच्छेः कव यास्यसीत्य एवं शपेयं तवाम इति परभॊ ॥ 17 ॥
अन्तर्हितश चास्मि पुनः पुनर एव च ते गृहे यॊगम आस्थाय संविष्टॊ दिवसान एकविंशतिम ॥ 18 ॥
कषुधितॊ माम असूयेथाः शरमाद वेति नराधिप एतां बुद्धिं समास्थाय कर्शितौ वां मया कषुधा ॥ 19 ॥
न च ते ऽभूत सुसूक्ष्मॊ ऽपि मन्युर मनसि पार्थिव सभार्यस्य नरश्रेष्ठ तेन ते परीतिमान अहम ॥ 20 ॥
भॊजनं च समानाय्य यत तद आदीपितं मया करुध्येथा यदि मात्सर्याद इति तन मर्षितं च ते ॥ 21 ॥
ततॊ ऽहं रथम आरुह्य तवाम अवॊचं नराधिप सभार्यॊ मां वहस्वेति तच च तवं कृतवांस तथा ॥ 22 ॥
अविशङ्कॊ नरपते परीतॊ ऽहं चापि तेन ते धनॊत्सर्गे ऽपि च कृते न तवां करॊधः परधर्षयत ॥ 23 ॥
ततः परीतेन ते राजन पुनर एतत कृतं तव सभार्यस्य वनं भूयस तद विद्धि मनुजाधिप ॥ 24 ॥
परीत्यर्थं तव चैतन मे सवर्गसंदर्शनं कृतम यत ते वने ऽसमिन नृपते दृष्टं दिव्यं निदर्शनम ॥ 25 ॥
सवर्गॊद्देशस तवया राजन स शरीरेण पार्थिव मुहूर्तम अनुभूतॊ ऽसौ सभार्येण नृपॊत्तम ॥ 26 ॥
निदर्शनार्थं तपसॊ धर्मस्य च नराधिप तत्र यासीत सपृहा राजंस तच चापि विदितं मम ॥ 27 ॥
बराह्मण्यं काङ्क्षसे हि तवं तपश च पृथिवीपते अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥ 28 ॥
एवम एतद यथात्थ तवं बराह्मण्यं तात दुर्लभम बराह्मण्ये सति चर्षित्वम ऋषित्वे च तपस्विता ॥ 29 ॥
भविष्यत्य एष ते कामः कुशिकात कौशिकॊ दविजः तृतीयं पुरुषं पराप्य बराह्मणत्वं गमिष्यति ॥ 30 ॥
वंशस ते पार्थिवश्रेष्ठ भृगूणाम एव तेजसा पौत्रस ते भविता विप्र तपस्वी पावकद्युतिः ॥ 31 ॥
यः स देवमनुष्याणां भयम उत्पादयिष्यति तरयाणां चैव लॊकानां सत्यम एतद बरवीमि ते ॥ 32 ॥
वरं गृहाण राजर्षे यस ते मनसि वर्तते तीर्थयात्रां गमिष्यामि पुरा कालॊ ऽतिवर्तते ॥ 33 ॥
[क] एष एव वरॊ मे ऽदय यत तवं परीतॊ महामुने भवत्व एतद यथात्थ तवं तपः पौत्रे ममानघ बराह्मण्यं मे कुलस्यास्तु भगवन्न एष मे वरः ॥ 34 ॥
पुनश चाख्यातुम इच्छामि भगवन विस्तरेण वै कथम एष्यति विप्रत्वं कुलं मे भृगुनन्दन कश चासौ भविता बन्धुर मम कश चापि संमतः ॥ 35 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56