[भ] ततः स राजा रात्र्यन्ते परतिबुद्धॊ महामनाः कृतपूर्वाह्णिकः परायात सभार्यस तद वनं परति ॥ 1 ॥
ततॊ ददर्श नृपतिः परासादं सर्वकाञ्चनम मणिस्तम्भसहस्राढ्यं गन्धर्वनगरॊपमम तत्र दिव्यान अभिप्रायान ददर्श कुशिकस तदा ॥ 2 ॥
पर्वतान रम्यसानूंश च नलिनीश च स पङ्कजाः चित्रशालाश च विविधास तॊरणानि च भारत शाद्वलॊपचितां भूमिं तथा काञ्चनकुट्टिमाम ॥ 3 ॥
सह कारान परफुल्लांश च केतकॊद्दालकान धवान अशॊकान मुचुकुन्दांश च फुल्लांश चैवाति मुक्तकान ॥ 4 ॥
चम्पकांस तिलकान भाव्यान पनसान वञ्जुलान अपि पुष्पितान कर्णिकारांश च तत्र तत्र ददर्श ह ॥ 5 ॥
शयामां वारणपुष्पीं च तथाष्टा पदिकां लताम तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ॥ 6 ॥
वृक्षान पद्मॊत्पलधरान सर्वर्तुकुसुमांस तथा विमानच छन्दकांश चापि परासादान पद्मसंनिभान ॥ 7 ॥
शीतलानि च तॊयानि कव चिद उष्णानि भारत आसनानि विचित्राणि शयनप्रवराणि च ॥ 8 ॥
पर्यङ्कान सर्वसौवर्णान परार्ध्यास्तरणास्तृतान भक्ष्यभॊज्यम अनन्तं च तत्र तत्रॊपकल्पितम ॥ 9 ॥
वाणी वादाञ शुकांश चापि शारिका भृङ्गराजकान कॊकिलाञ शतपत्रांश च कॊयष्टिमक कुक्कुटान ॥ 10 ॥
मयूरान कुक्कुटांश चापि पुत्रकाञ जीव जीवकान चकॊरान वानरान हंसान सारसांश चक्रसाह्वयान ॥ 11 ॥
समन्ततः परणदितान ददर्श सुमनॊहरान कव चिद अप्सरसां संघान गन्धर्वाणां च पार्थिव ॥ 12 ॥
कान्ताभिर अपरांस तत्र परिष्वक्तान ददर्श ह न ददर्श च तान भूयॊ ददर्श च पुनर नृपः ॥ 13 ॥
गीतध्वनिं सुमधुरं तथैवाध्ययन धवनिम हंसान सुमधुरांश चापि तत्र शुश्राव पार्थिवः ॥ 14 ॥
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत तदा सवप्नॊ ऽयं चित्तविभ्रंश उताहॊ सत्यम एव तु ॥ 15 ॥
अहॊ सह शरीरेण पराप्तॊ ऽसमि परमां गतिम उत्तरान वा कुरून पुण्यान अथ वाप्य अमरावतीम ॥ 16 ॥
किं तव इदं महद आश्चर्यं संपश्यामीत्य अचिन्तयत एवं संचिन्तयन्न एव ददर्श मुनिपुंगवम ॥ 17 ॥
तस्मिन विमाने सौवर्णे मणिस्तम्भसमाकुले महार्हे शयने दिव्ये शयानं भृगुनन्दनम ॥ 18 ॥
तम अभ्ययात परहर्षेण नरेन्द्रः सह भार्यया अन्तर्हितस ततॊ भूयश चयवनः शयनं च तत ॥ 19 ॥
ततॊ ऽनयस्मिन वनॊद्देशे पुनर एव ददर्श तम कौश्यां बृस्यां समासीनं जपमानं महाव्रतम एवं यॊगबलाद विप्रॊ मॊहयाम आस पार्थिवम ॥ 20 ॥
कषणेन तद वनं चैव ते चैवाप्सरसां गणाः गन्धर्वाः पादपाश चैव सर्वम अन्तरधीयत ॥ 21 ॥
निःशब्दम अभवच चापि गङ्गाकूलं पुनर नृप कुश वल्मीक भूयिष्ठं बभूव च यथा पुरा ॥ 22 ॥
ततः स राजा कुशिकः सभार्यस तेन कर्मणा विस्मयं परमं पराप्तस तद दृष्ट्वा महद अद्भुतम ॥ 23 ॥
ततः परॊवाच कुशिकॊ भार्यां हर्षसमन्वितः पश्य भद्रे यथा भावाश चित्रा दृष्टाः सुदुर्लभाः ॥ 24 ॥
परसादाद भृगुमुख्यस्य किम अन्यत्र तपॊबलात तपसा तद अवाप्यं हि यन न शक्यं मनॊरथैः ॥ 25 ॥
तरैलॊक्यराज्याद अपि हि तप एव विशिष्यते तपसा हि सुतप्तेन करीडत्य एष तपॊधनः ॥ 26 ॥
अहॊ परभावॊ बरह्मर्षेश चयवनस्य महात्मनः इच्छन्न एष तपॊ वीर्याद अन्याँल लॊकान सृजेद अपि ॥ 27 ॥
बराह्मणा एव जायेरन पुण्यवाग बुद्धिकर्मणः उत्सहेद इह कर्तुं हि कॊ ऽनयॊ वै चयवनाद ऋते ॥ 28 ॥
बराह्मण्यं दुर्लभं लॊके राज्यं हि सुलभं नरैः बराह्मण्यस्य परभावाद धि रथे युक्तौ सवधुर्यवत ॥ 29 ॥
इत्य एवं चिन्तयानः स विदितश चयवनस्य वै संप्रेक्ष्यॊवाच स नृपं कषिप्रम आगम्यताम इति ॥ 30 ॥
इत्य उक्तः सह भार्यस तम अभ्यगच्छन महामुनिम शिरसा वन्दनीयं तम अवन्दत स पार्थिवः ॥ 31 ॥
तस्याशिषः परयुज्याथ स मुनिस तं नराधिपम निषीदेत्य अब्रवीद धीमान सान्त्वयन पुरुषर्षभ ॥ 32 ॥
ततः परकृतिम आपन्नॊ भार्गवॊ नृपते नृपम उवाच शलक्ष्णया वाचा तर्पयन्न इव भारत ॥ 33 ॥
राजन सम्यग जितानीह पञ्च पञ्चसु यत तवया मनःषष्ठानीन्द्रियाणि कृच्छ्रान मुक्तॊ ऽसि तेन वै ॥ 34 ॥
सम्यग आराधितः पुत्र तवयाहं वदतां वर न हि ते वृजिनं किं चित सुसूक्ष्मम अपि विद्यते ॥ 35 ॥
अनुजानीहि मां राजन गमिष्यामि यथागतम परीतॊ ऽसमि तव राजेन्द्र वरश च परतिगृह्यताम ॥ 36 ॥
[कुषिक] अग्निमध्य गतेनेदं भगवन संनिधौ मया वर्तितं भृगुशार्दूल यन न दग्धॊ ऽसमि तद बहु ॥ 37 ॥
एष एव वरॊ मुख्यः पराप्तॊ मे भृगुनन्दन यत परीतॊ ऽसि समाचारात कुलं पूतं ममानघ ॥ 38 ॥
एष मे ऽनुग्रहॊ विप्र जीविते च परयॊजनम एतद राज्यफलं चैव तपश चैतत परं मम ॥ 39 ॥
यदि तु परीतिमान विप्र मयि तवं भृगुनन्दन अस्ति मे संशयः कश चित तन मे वयाख्यातुम अर्हसि ॥ 40 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 54
Reach this point to mark the section finished.
Continue to अध्याय 55