धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 52

  1. [य] संशयॊ मे महाप्राज्ञ सुमहान सागरॊपमः तन मे शृणु महाबाहॊ शरुत्वा चाख्यातुम अर्हसि ॥ 1 ॥

  2. कौतूहलं मे सुमहज जामदग्न्यं परति परभॊ रामं धर्मभृतां शरेष्ठं तन मे वयाख्यातुम अर्हसि ॥ 2 ॥

  3. कथम एष समुत्पन्नॊ रामः सत्यपराक्रमः कथं बरह्मर्षिवंशे च कषत्रधर्मा वयजायत ॥ 3 ॥

  4. तद अस्य संभवं राजन निखिलेनानुकीर्तय कौशिकाच च कथं वंशात कषत्राद वै बराह्मणॊ ऽभवत ॥ 4 ॥

  5. अहॊ परभावः सुमहान आसीद वै सुमहात्मनॊः रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ॥ 5 ॥

  6. कथं पुत्रान अतिक्रम्य तेषां नप्तृष्व अथाभवत एष दॊषः सुतान हित्वा तन मे वयाख्यातुम अर्हसि ॥ 6 ॥

  7. [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम चयवनस्य च संवादं कुशिकस्य च भारत ॥ 7 ॥

  8. एतं दॊषं पुरा दृष्ट्वा भार्गवश चयवनस तदा आगामिनं महाबुद्धिः सववंशे मुनिपुंगवः ॥ 8 ॥

  9. संचिन्त्य मनसा सर्वं गुणदॊषबलाबलम दग्धु कामः कुलं सर्वं कुशिकानां तपॊधनः ॥ 9 ॥

  10. चयवनस तम अनुप्राप्य कुशिकं वाक्यम अब्रवीत वस्तुम इच्छा समुत्पन्ना तवया सह ममानघ ॥ 10 ॥

  11. [क] भगवन सहधर्मॊ ऽयं पण्डितैर इह धार्यते परदानकाले कन्यानाम उच्यते च सदा बुधैः ॥ 11 ॥

  12. यत तु तावद अतिक्रान्तं धर्मद्वारं तपॊधन तत कार्यं परकरिष्यामि तदनुज्ञातुम अर्हसि ॥ 12 ॥

  13. [भ] अथासनम उपादाय चयवनस्य महामुनेः कुशिकॊ भार्यया सार्धम आजगाम यतॊ मुनिः ॥ 13 ॥

  14. परगृह्य राजा भृङ्गारं पाद्यम अस्मै नयवेदयत कारयाम आस सर्वाश च करियास तस्य महात्मनः ॥ 14 ॥

  15. ततः स राजा चयवनं मधुपर्कं यथाविधि परत्यग्राहयद अव्यग्रॊ महात्मा नियतव्रतः ॥ 15 ॥

  16. सत्कृत्य स तथा विप्रम इदं वचनम अब्रवीत भगवन परवन्तौ सवॊ बरूहि किं करवावहे ॥ 16 ॥

  17. यदि राज्यं यदि धनं यदि गाः संशितव्रत यज्ञदानानि च तथा बरूहि सर्वं ददामि ते ॥ 17 ॥

  18. इदं गृहम इदं राज्यम इदं धर्मासनं च ते राजा तवम असि शाध्य उर्वीं भृत्यॊ ऽहं परवांस तवयि ॥ 18 ॥

  19. एवम उक्ते ततॊ वाक्ये चयवनॊ भार्गवस तदा कुशिकं परत्युवाचेदं मुदा मरमया यतः ॥ 19 ॥

  20. न राज्यं कामये राजन न धनं न च यॊषितः न च गा न च ते देशान न यज्ञाञ शरूयताम इदम ॥ 20 ॥

  21. नियमं कं चिद आरप्स्ये युवयॊर यदि रॊचते परिचर्यॊ ऽसमि यत तेभ्यां युवाभ्याम अविशङ्कया ॥ 21 ॥

  22. एवम उक्ते तदा तेन दम्पती तौ जहर्षतुः परत्यब्रूतां च तम ऋषिम एवम अस्त्व इति भारत ॥ 22 ॥

  23. अथ तं कुशिकॊ हृष्टः परावेशयद अनुत्तमम गृहॊद्देशं ततस तत्र दर्शनीयम अदर्शयत ॥ 23 ॥

  24. इयं शय्या भगवतॊ यथाकामम इहॊष्यताम परयतिष्यावहे परीतिम आहर्तुं ते तपॊधन ॥ 24 ॥

  25. अथ सूर्यॊ ऽतिचक्राम तेषां संवदतां तथा अथर्षिश चॊदयाम आस पानम अन्नं तथैव च ॥ 25 ॥

  26. तम अपृच्छत ततॊ राजा कुशिकः परणतस तदा किम अन्नजातम इष्टं ते किम उपस्थापयाम्य अहम ॥ 26 ॥

  27. ततः स परया परीत्या परत्युवाच जनाधिपम औपपत्तिकम आहारं परयच्छस्वेति भारत ॥ 27 ॥

  28. तद वचः पूजयित्वा तु तथेत्य आह स पार्थिवः यथॊपपन्नं चाहारं तस्मै परादाज जनाधिपः ॥ 28 ॥

  29. ततः स भगवान भुक्त्वा दम्पती पराह धर्मवित सवप्तुम इच्छाम्य अहं निद्रा बाधते माम इति परभॊ ॥ 29 ॥

  30. ततः शय्या गृहं पराप्य भगवान ऋषिसत्तमः संविवेश नरेन्द्रस तु सपत्नीकः सथितॊ ऽभवत ॥ 30 ॥

  31. न परबॊध्यॊ ऽसमि संसुप्त इत्य उवाचाथ भार्गवः संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ॥ 31 ॥

  32. अविशङ्कश च कुशिकस तथेत्य आह स धर्मवित न परबॊधयतां तं च तौ तदा रजनी कषये ॥ 32 ॥

  33. यथादेशं महर्षेस तु शुश्रूषा परमौ तदा बभूवतुर महाराज परयताव अथ दम्पती ॥ 33 ॥

  34. ततः स भगवान विप्रः समादिश्य नराधिपम सुष्वापैकेन पार्श्वेन दिवसान एकविंशतिम ॥ 34 ॥

  35. स तु राजा निराहारः सभार्यः कुरुनन्दन पर्युपासत तं हृष्टश चयवनाराधने रतः ॥ 35 ॥

  36. भार्गवस तु समुत्तस्थौ सवयम एव तपॊधनः अकिं चिद उक्त्वा तु गृहान निश्चक्राम महातपाः ॥ 36 ॥

  37. तम अन्वगच्छतां तौ तु कषुधितौ शरमकर्शितौ भार्या पती मुनिश्रेष्ठौ न च ताव अवलॊकयत ॥ 37 ॥

  38. तयॊस तु परेक्षतॊर एव भार्गवाणां कुलॊद्वहः अन्तर्हितॊ ऽभूद राजेन्द्र ततॊ राजापतत कषितौ ॥ 38 ॥

  39. स मुहूर्तं समाश्वस्य सहदेव्या महाद्युतिः पुनर अन्वेषणे यत्नम अकरॊत परमं तदा ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51