[भ] नहुषस तु ततः शरुत्वा चयवनं तं तथागतम तवरितः परययौ तत्र सहामात्य पुरॊहितः ॥ 1 ॥
शौचं कृत्वा यथान्यायं पराञ्जलिः परयतॊ नृपः आत्मानम आचचक्षे च चयवनाय महात्मने ॥ 2 ॥
अर्चयाम आस तं चापि तस्य राज्ञः पुरॊहितः सत्यव्रतं महाभागं देवकल्पं विशां पते ॥ 3 ॥
[न] करवाणि परियं किं ते तन मे वयाख्यातुम अर्हसि सर्वं कर्तास्मि भगवन यद्य अपि सयात सुदुष्करम ॥ 4 ॥
[च] शरमेण महता युक्ताः कैवर्ता मत्स्यजीविनः मम मूल्यं परयच्छैभ्यॊ मत्स्यानां विक्रयैः सह ॥ 5 ॥
[न] सहस्रं दीयतां मूल्यं निषादेभ्यः पुरॊहित निष्क्रयार्थं भगवतॊ यथाह भृगुनन्दनः ॥ 6 ॥
[च] सहस्रं नाहम अर्हामि किं वा तवं मन्यसे नृप सदृशं दीयतां मूल्यं सवबुद्ध्या निश्चयं कुरु ॥ 7 ॥
[न] सहस्राणां शतं कषिप्रं निषादेभ्यः परदीयताम सयाद एतत तु भवेन मूल्यं किं वान्यन मन्यते भवान ॥ 8 ॥
[च] नाहं शतसहस्रेण निमेयः पार्थिवर्षभ दीयतां सदृशं मूल्यम अमात्यैः सह चिन्तय ॥ 9 ॥
[न] कॊटिः परदीयतां मूल्यं निषादेभ्यः पुरॊहित यद एतद अपि नौपम्यम अतॊ भूयः परदीयताम ॥ 10 ॥
[च] राजन नार्हाम्य अहं कॊटिं भूयॊ वापि महाद्युते सदृशं दीयतां मूल्यं बराह्मणैः सह चिन्तय ॥ 11 ॥
[न] अर्धराज्यं समग्रं वा निषादेभ्यः परदीयताम एतन मूल्यम अहं मन्ये किं वान्यन मन्यसे दविज ॥ 12 ॥
[च] अर्धराज्यं समग्रं वा नाहम अर्हामि पार्थिव सदृषं दीयतां मूल्यम ऋषिभिः सह चिन्त्यताम ॥ 13 ॥
[भ] महर्षेर वचनं शरुत्वा नहुषॊ दुःखकर्शितः स चिन्तयाम आस तदा सहामात्य पुरॊहितः ॥ 14 ॥
तत्र तव अन्यॊ वनचरः कश चिन मूलफलाशनः नहुषस्य समीपस्थॊ गवि जातॊ ऽभवन मुनिः ॥ 15 ॥
स समाभाष्य राजानम अब्रवीद दविजसत्तमः तॊषयिष्याम्य अहं विप्रं यथा तुष्टॊ भविष्यति ॥ 16 ॥
नाहं मिथ्या वचॊ बरूयां सवैरेष्व अपि कुतॊ ऽनयथा भवतॊ यद अहं बरूयां तत कार्यम अविशङ्कया ॥ 17 ॥
[न] बरवीतु भगवान मूल्यं महर्षेः सदृशं भृगॊः परित्रायस्व माम अस्माद विषयं च कुलं च मे ॥ 18 ॥
हन्याद धि भगवान करुद्धस तरैलॊक्यम अपि केवलम किं पुनर मां तपॊ हीनं बाहुवीर्यपरायणम ॥ 19 ॥
अगाधे ऽमभसि मग्नस्य सामात्यस्य सहर्त्विजः पलवॊ भव महर्षे तवं कुरु मूल्य विनिश्चयम ॥ 20 ॥
[भ] नहुषस्य वचः शरुत्वा गवि जातः परतापवान उवाच हर्षयन सर्वान अमात्यान पार्थिवं च तम ॥ 21 ॥
अनर्घेया महाराज दविजा वर्णमहत्तमाः गावश च पृथिवीपाल गौर मूल्यं परिकल्प्यताम ॥ 22 ॥
नहुषस तु ततः शरुत्वा महर्षेर वचनं नृप हर्षेण महता युक्तः सहामात्य पुरॊहितः ॥ 23 ॥
अभिगम्य भृगॊः पुत्रं चयवनं संशितव्रतम इदं परॊवाच नृपते वाचा संतर्पयन्न इव ॥ 24 ॥
उत्तिष्ठॊत्तिष्ठ विप्रर्षे गवा करीतॊ ऽसि भार्गव एतन मूल्यम अहं मन्ये तव धर्मभृतां वर ॥ 25 ॥
[च] उत्तिष्ठाम्य एष राजेन्द्र सम्यक करीतॊ ऽसमि ते ऽनघ गॊभिस तुल्यं न पश्यामि धनं किं चिद इहाच्युत ॥ 26 ॥
कीर्तनं शरवणं दानं दर्शनं चापि पार्थिव गवां परशस्यते वीर सर्वपापहरं शिवम ॥ 27 ॥
गावॊ लक्ष्म्याः सदा मूलं गॊषु पाप्मा न विद्यते अन्नम एव सदा गावॊ देवानां परमं हविः ॥ 28 ॥
सवाहाकारवषट्कारौ गॊषु नित्यं परतिष्ठितौ गावॊ यज्ञप्रणेत्र्यॊ वै तथा यज्ञस्य ता मुखम ॥ 29 ॥
अमृतं हय अक्षयं दिव्यं कषरन्ति च वहन्ति च अमृतायतनं चैताः सर्वलॊकनमस्कृताः ॥ 30 ॥
तेजसा वपुषा चैव गावॊ वह्नि समा भुवि गावॊ हि सुमहत तेजः पराणिनां च सुखप्रदाः ॥ 31 ॥
निविष्टं गॊकुलं यत्र शवासं मुञ्चति निर्भयम विराजयति तं देशं पाप्मानं चापकर्षति ॥ 32 ॥
गावः सवर्गस्य सॊपानं गावः सवर्गे ऽपि पूजिताः गावः कामदुघा देव्यॊ नान्यत किं चित परं समृतम ॥ 33 ॥
इत्य एतद गॊषु मे परॊक्तं माहात्म्यं पार्थिवर्षभ गुणैक देशवचनं शक्यं पारायणं न तु ॥ 34 ॥
[निसादाह] दर्शनं कथनं चैव सहास्माभिः कृतं मुने सतां सप्त पदं मित्रं परसादं नः कुरु परभॊ ॥ 35 ॥
हवींषि सर्वाणि यथा हय उपभुङ्क्ते हुताशनः एवं तवम अपि धर्मात्मन पुरुषाग्निः परतापवान ॥ 36 ॥
परसादयामहे विद्वन भवन्तं परणता वयम अनुग्रहार्थम अस्माकम इयं गौः परतिगृह्यताम ॥ 37 ॥
[च] कृपणस्य च यच चक्षुर मुनेर आशीविषस्य च नरं स मूलं दहति कक्षम अग्निर इव जवलन ॥ 38 ॥
परतिगृह्णामि वॊ धेनुं कैवर्ता मुक्तकिल्बिषाः दिवं गच्छत वै कषिप्रं मत्स्यैर जालॊद्धृतैः सह ॥ 39 ॥
[भ] ततस तस्य परसादात ते महर्षेर भावितात्मनः निषादास तेन वाक्येन सह मत्स्यैर दिवं ययुः ॥ 40 ॥
ततः स राजा नहुषॊ विस्मितः परेष्क्य धीरवान आरॊहमाणांस तरिदिवं मत्स्यांश च भरतर्षभ ॥ 41 ॥
ततस तौ गविजश चैव चयवनश च भृगूद्वहः वराभ्याम अनुरूपाभ्यां छन्दयाम आसतुर नृपम ॥ 42 ॥
ततॊ राजा महावीर्यॊ नहुषः पृथिवीपतिः परम इत्य अब्रवीत परीतस तदा भरतसत्तम ॥ 43 ॥
ततॊ जग्राह धर्मे स सथितिम इन्द्र निभॊ नृपः तथेति चॊदितः परीतस ताव ऋषी परत्यपूजयत ॥ 44 ॥
समाप्तदीक्षश चयवनस ततॊ ऽगच्छत सवम आश्रमम गविजश च महातेजाः सवम आश्रमपदं ययौ ॥ 45 ॥
निषादाश च दिवं जग्मुस ते च मत्स्या जनाधिप नहुषॊ ऽपि वरं लब्ध्वा परविवेश पुरं सवकम ॥ 46 ॥
एतत ते कथितं तात यन मां तवं परिपृच्छसि दर्शने यादृशः सनेहः संवासे च युधिष्ठिर ॥ 47 ॥
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम ॥ 48 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 51
Reach this point to mark the section finished.
Continue to अध्याय 52