धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 50

  1. [य] दर्शने कीदृशः सनेहः संवासे च पितामह महाभाग्यं गवां चैव तन मे बरूहि पितामह ॥ 1 ॥

  2. [भ] हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते नहुषस्य च संवादं महर्षेश चयवनस्य च ॥ 2 ॥

  3. पुरा महर्षिश चयवनॊ भार्गवॊ भरतर्षभ उदवाक कृतारम्भॊ बभूव सुमहाव्रतः ॥ 3 ॥

  4. निहत्य मानं करॊधं च परहर्षं शॊकम एव च वर्षाणि दवादश मुनिर जलवासे धृतव्रतः ॥ 4 ॥

  5. आदधत सर्वभूतेषु विस्रम्भं परमं शुभम जले चरेषु सत्त्वेषु शीर रश्मिर इव परभुः ॥ 5 ॥

  6. सथाणुभूतः शुचिर भूत्वा दैवतेभ्यः परणम्य च गङ्गायमुनयॊर मध्ये जलं संप्रविवेश ह ॥ 6 ॥

  7. गङ्गायमुनयॊर वेगं सुभीमं भीमनिःस्वनम परतिजग्राह शिरसा वातवेगसमं जवे ॥ 7 ॥

  8. गङ्गा च यमुना चैव सरितश चानुगास तयॊः परदक्षिणम ऋषिं चक्रुर न चैनं पर्यपीडयन ॥ 8 ॥

  9. अन्तर्जले स सुष्वाप कष्ठ भूतॊ महामुनिः ततश चॊर्ध्वस्थितॊ धीमान अभवद भरतर्षभ ॥ 9 ॥

  10. जलौकसां स सत्त्वानां बभूव परियदर्शनः उपाजिघ्रन्त च तदा मत्स्यास तं हृष्टमानसाः तत्र तस्यासतः कालः समतीतॊ ऽभवन महान ॥ 10 ॥

  11. ततः कदा चित समये कस्मिंश चिन मत्स्यजीविनः तं देशं समुपाजग्मुर जालहस्ता महाद्युते ॥ 11 ॥

  12. निषादा बहवस तत्र मत्स्यॊद्धरण निश्चिताः वयायता बलिनः शूराः सलिलेष्व अनिवर्तिनः अभ्याययुश च तं देशं निश्चिता जालकर्मणि ॥ 12 ॥

  13. जालं च यॊजयाम आसुर विशेषेण जनाधिप मत्स्यॊदकं समासाद्य तदा भरतसत्तम ॥ 13 ॥

  14. ततस ते बहुभिर यॊगैः कर्वर्ता मत्स्यकाङ्क्षिणः मङ्गा यमुनयॊर वारिजालैर अभ्यकिरंस ततः ॥ 14 ॥

  15. जालं सुविततं तेषां नव सूत्रकृतं तथा विस्तारायाम संपन्नं यत तत्र सलिले कषमम ॥ 15 ॥

  16. ततस ते सुमहच चैव बलवच च सुवर्तितम परकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥ 16 ॥

  17. अभीतरूपाः संहृष्टास ते ऽनयॊन्यवशवर्तिनः बबन्धुस तत्र मत्स्यांश च तथान्याञ जलचारिणः ॥ 17 ॥

  18. तथा मत्स्यैः परिवृतं चयवनं भृगुनन्दनम आकर्षन्त महाराज जालेनाथ यदृच्छया ॥ 18 ॥

  19. नदी शैवलदिग्धाङ्गं हरि शमश्रुजटा धरम लग्नैः शङ्खगणैर गात्रैः कॊष्ठैर्श चित्रैर इवावृतम ॥ 19 ॥

  20. तं जालेनॊद्धृतं दृष्ट्वा ते तदा वेदपारगम सवे पराञ्जलयॊ दाशाः शिरॊभिः परापतन भुवि ॥ 20 ॥

  21. परिखेद परित्रासाज जालस्याकर्षणेन च मत्स्या बभूवुर वयापन्नाः सथलसंकर्षणेन च ॥ 21 ॥

  22. स मुनिस तत तदा दृष्ट्वा मत्स्यानां कदनं कृतम बभूव कृपयाविष्टॊ निःश्वसंश च पुनः पुनः ॥ 22 ॥

  23. [निसादाह] अज्ञानाद यत्कृतं पापं परसादं तत्र नः कुरु करवाम परियं किं ते तन नॊ बरूहि महामुने ॥ 23 ॥

  24. [भ] इत्य उक्तॊ मत्स्यमध्य सथश चयवनॊ वाक्यम अब्रवीत यॊ मे ऽदय परमः कामस तं शृणुध्वं समाहिताः ॥ 24 ॥

  25. पराणॊत्सर्गं विक्रयं वा मत्स्यैर यास्याम्य अहं सह संवासान नॊत्सहे तयक्तुं सलिलाध्युषितान इमान ॥ 25 ॥

  26. इत्य उक्तास ते निषादास तु सुभृशं भयकम्पिताः सर्वे विषण्णवदना नहुषाय नयवेदयन ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 51

Previous: अध्याय 49