धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 43

  1. [भ] तम आगतम अभिप्रेक्ष्य शिष्यं वाक्यम अथाब्रवीत देव शर्मा महातेजा यत तच छृणु नराधिप ॥ 1 ॥

  2. [द] किं ते विपुलदृष्टं वै तस्मिन्न अध्य महावने ते तवा जानन्ति निपुण आत्मा च रुचिर एव च ॥ 2 ॥

  3. [व] बरह्मर्षे मिथुनं किं तत के च ते पुरुषा विभॊ ये मां जानन्ति तत्त्वेन तांश च मे वक्तुम अर्हसि ॥ 3 ॥

  4. [द] यद वै तन मिथुनं बरह्मन्न अहॊरात्रं हि विद्धि तत चक्रवत परिवर्तेत तत ते जानाति दुष्कृतम ॥ 4 ॥

  5. ये च ते पुरुषा विप्र अक्षैर दीव्यन्ति हृष्टवत ऋतूंस तान अभिजानीहि ते ते जानन्ति दुष्कृतम ॥ 5 ॥

  6. न मां कश चिद विजानीत इति कृत्वा न विश्वसेत नरॊ रहसि पापात्मा पापकं कर्म वै दविज ॥ 6 ॥

  7. कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा पश्यन्ति ऋतवश चापि तथा दिननिशे ऽपय उत ॥ 7 ॥

  8. ते तवां हर्षस्मितं दृष्ट्वा गुरॊः कर्मानिवेदकम समारयन्तस तथा पराहुस ते यथा शरुतवान भवान ॥ 8 ॥

  9. अहॊरात्रं विजानाति ऋतवश चापि नित्यशः पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥ 9 ॥

  10. तत तवया मम यत कर्म वयभिचाराद भयात्मकम नाख्यातम इति जानन्तस ते तवाम आहुस तथा दविज ॥ 10 ॥

  11. ते चैव हि भवेयुस ते लॊकाः पापकृतॊ यथा कृत्वा नाचक्षते कर्म मम यच च तवया कृतम ॥ 11 ॥

  12. तथा शक्या च दुर्वृत्ता रक्षितुं परमदा दविज न च तवं कृतवान किं चिद आगः परीतॊ ऽसमि तेन ते ॥ 12 ॥

  13. यदि तव अहं तवा दुर्वृत्तम अद्राक्षं दविजसत्तम शपेयं तवाम अहं करॊधान न मे ऽतरास्ति विचारणा ॥ 13 ॥

  14. सज्जन्ति पुरुषे नार्यः पुंसां सॊ ऽरथश च पुष्कलः अन्यथा रक्षतः शापॊ ऽभविष्यत ते गतिश च सा ॥ 14 ॥

  15. रक्षिता सा तवया पुत्र मम चापि निवेदिता अहं ते परीतिमांस तात सवस्ति सवर्गं गमिष्यसि ॥ 15 ॥

  16. [भ] इत्य उक्त्वा विपुलं परीतॊ देव शर्मा महान ऋषिः मुमॊद सवर्गम आस्थाय सह भार्यः स शिष्यकः ॥ 16 ॥

  17. इदम आख्यातवांश चापि ममाख्यानं महामुनिः मार्कण्डेयः पुरा राजन गङ्गाकूले कथान्तरे ॥ 17 ॥

  18. तस्माद बरवीमि पार्थ तवा सत्रियः सर्वाः सदैव च उभयं दृश्यते तासुसततं साध्व असाधु च ॥ 18 ॥

  19. सत्रियः साध्व्यॊ महाभागाः संमता लॊकमातरः धारयन्ति महीं राजन्न इमां स वनकाननाम ॥ 19 ॥

  20. असाध्व्यश चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः विज्ञेया लक्षणैर दुष्टैः सवगात्रसहजैर नृप ॥ 20 ॥

  21. एवम एतासु रक्षा वै शक्या कर्तुं महात्मभिः अन्यथा राजशार्दूल न शक्या रक्षितुं सत्रियः ॥ 21 ॥

  22. एता हि मनुजव्याघ्रतीष्क्णास तीक्ष्णपराक्रमाः नासाम अस्ति परियॊ नाम मैथुने संगमे नृभिः ॥ 22 ॥

  23. एताः कृत्याश च कार्याश च कृताश च भरतर्षभ न चैकस्मिन्न रमन्त्य एताः पुरुषे पाण्डुनन्दन ॥ 23 ॥

  24. नासु सनेहॊ नृभिः कार्यस तथैवेर्ष्या जनेश्वर खेदम आस्थाय भुञ्जीत धर्मम आस्थाय चैव हि ॥ 24 ॥

  25. विहन्येतान्यथा कुर्वन नरः कौरवनन्दन सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥ 25 ॥

  26. तेनैकेन तु रक्षा वै विपुलेन कृता सत्रियाः नान्यः शक्तॊ नृलॊके ऽसमिन रक्षितुं नृप यॊषितः ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42