धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 42

  1. [भ] विपुलस तव अकरॊत तीव्रं तपः कृत्वा गुरॊर वचः तपॊ युक्तम अथात्मानम अमन्यत च वीर्यवान ॥ 1 ॥

  2. स तेन कर्मणा सपर्धन पृथिवीं पृथिवीपते चचार गतभीः परीतॊ लब्धकीर्तिर वरॊ नृषु ॥ 2 ॥

  3. उभौ लॊकौ जितौ चापि तथैवामन्यत परभुः कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ 3 ॥

  4. अथ काले वयतिक्रान्ते कस्मिंश चित कुरुनन्दन रुच्या भगिन्या दानं वै बभूव धनधान्यवत ॥ 4 ॥

  5. एतस्मिन एव काले तु दिव्या का चिद वराङ्गना बिभ्रती परमं रूपं जगामाथ विहायसा ॥ 5 ॥

  6. तस्याः शरीरात पुष्पाणि पतितानि महीतले तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ 6 ॥

  7. तान्य अगृह्णात ततॊ राजन रुचिर नलिनलॊचना तदा निमन्त्रकस तस्या अङ्गेभ्यः कषिप्रम आगमत ॥ 7 ॥

  8. तस्या हि भगिनी तात जयेष्ठा नाम्ना परभावती भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ 8 ॥

  9. पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी आमन्त्रिता ततॊ ऽगच्छद रुचिर अङ्गपतेर गृहान ॥ 9 ॥

  10. पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्र वराङ्गना भगिनीं चॊदयाम आस पुष्पार्थे चारुलॊचना ॥ 10 ॥

  11. सा भर्त्रे सर्वम आचष्ट रुचिः सुरुचिरानना भगिन्या भाषितं सर्वम ऋशिस तच चाभ्यनन्दत ॥ 11 ॥

  12. ततॊ विपुलम आनाय्य देव शर्मा महातपाः पुष्पार्थे चॊदयाम आस गच्छ गच्छेति भारत ॥ 12 ॥

  13. विपुलस तु गुरॊर वाक्यम अविचार्य महातपाः स तथेत्य अब्रवीद राजंस तं च देशं जगाम ह ॥ 13 ॥

  14. यस्मिन देशे तु तान्य आसन पतितानि नभस्तलात अम्लानान्य अपि तत्रासन कुसुमान्य अपराण्य अपि ॥ 14 ॥

  15. ततः स तानि जग्राह दिव्यानि रुचिराणिच पराप्तानि सवेन तपसा दिव्यगन्धानि भारत ॥ 15 ॥

  16. संप्राप्य तानि परीतात्मा गुरॊर वचनकारकः ततॊ जगाम तूर्णं च चम्पां चम्पकमालिनीम ॥ 16 ॥

  17. स वने विजने तात ददर्श मिथुनं नृणाम चक्रवत परिवर्तन्तं गृहीत्वा पाणिना करम ॥ 17 ॥

  18. तत्रैकस तूर्णम अगमत तत पदे परिवर्तयन एकस तु न तथा राजंश चक्रतुः कलहं ततः ॥ 18 ॥

  19. तवं शीघ्रं गच्छसीत्य एकॊ ऽबरवीन नेति तथापरः नेति नेति च तौ तात परस्परम अथॊचतुः ॥ 19 ॥

  20. तयॊर विस्पर्धतॊर एवं शपथॊ ऽयम अभूत तदा मनसॊद्दिश्य विपुलं ततॊ वाक्यम अथॊचतुः ॥ 20 ॥

  21. आवयॊर अनृतं पराह यस तस्याथ दविजस्य वै विपुलस्य परे लॊके या गतिः सा भवेद इति ॥ 21 ॥

  22. एतच छरुत्वा तु विपुलॊ विषण्णवदनॊ ऽभवत एवं तीव्रतपाश चाहं कष्टश चायं परिग्रहः ॥ 22 ॥

  23. मिथुनस्यास्य किं मे सयात कृतं पापं यतॊ गतिः अनिष्टा सर्वभूतानां कीर्तितानेन मे ऽदय वै ॥ 23 ॥

  24. एवं संचिन्तयन्न एव विपुलॊ राजसत्तम अवाङ्मुखॊ नयस्तशिरा दध्यौ दुष्कृतम आत्मनः ॥ 24 ॥

  25. ततः षड अन्यान पुरुषान अक्षैः काञ्चनराजतैः अपश्यद दीव्यमानान वै लॊभहर्षान्वितांस तथा ॥ 25 ॥

  26. कुर्वतः शपथं तं वै यः कृतॊ मिथुनेन वै विपुलं वै समुद्धिश्य ते ऽपि वाक्यम अथाब्रुवन ॥ 26 ॥

  27. यॊ लॊभम आस्थायास्माकं विषमं कर्तुम उत्सहेत विपुलस्य परे लॊके या गतिस ताम अवाप्नुयात ॥ 27 ॥

  28. एतच छरुत्वा तु विपुलॊ नापश्यद धर्मसंकरम जन्मप्रभृति कौरव्य कृतपूर्वम अथात्मनः ॥ 28 ॥

  29. स परदध्यौ तदा राजन्न अग्नाव अग्निर इवाहितः दह्यमानेन मनसा शापं शरुत्वा तथाविधम ॥ 29 ॥

  30. तस्य चिन्तयतस तात बह्व्यॊ दिननिशा ययुः इदम आसीन मनसि च रुच्या रक्षणकारितम ॥ 30 ॥

  31. लक्षणं लक्षणेनैव वदनं वदनेन च विधाय न मया चॊक्तं सत्यम एतद गुरॊस तदा ॥ 31 ॥

  32. एतद आत्मनि कौरव्य दुष्कृतं विपुलस तदा अमन्यत महाभाग तथा तच च न संशयः ॥ 32 ॥

  33. स चम्पां नगरीम एत्य पुष्पाणि गुरवे ददौ पूजयाम आस च गुरुं विधिवत स गुरुप्रियः ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 43

Previous: अध्याय 41