धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 44

  1. [य] यन मूलं सर्वधर्माणां परजनस्य गृहस्य च पितृदेवातिथीनां च तन मे बरूहि पितामह ॥ 1 ॥

  2. [भ] अयं हि सर्वधर्माणां धर्मश चिन्त्यतमॊ मतः कीदृशाय परदेया सयात कन्येति वसुधाधिप ॥ 2 ॥

  3. शीलवृत्ते समाज्ञाय विद्यां यॊनिं च कर्म च अद्भिर एव परदातव्या कन्या गुणवते वरे बराह्मणानां सताम एष धर्मॊ नित्यं युधिष्ठिर ॥ 3 ॥

  4. आवाह्यम आवहेद एवं यॊ दद्याद अनुकूलतः शिष्टानां कषत्रियाणां च धर्म एष सनातनः ॥ 4 ॥

  5. आत्माभिप्रेतम उत्सृज्य कन्याभिप्रेत एव यः अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर गान्धर्वम इति तं धर्मं पराहुर धर्मविदॊ जनाः ॥ 5 ॥

  6. धनेन बहुना करीत्वा संप्रलॊभ्य च बान्धवान असुराणां नृपैतं वै धर्मम आहुर मनीषिणः ॥ 6 ॥

  7. हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात परसह्य हरणं तात राक्षसं धर्मलक्षणम ॥ 7 ॥

  8. पञ्चानां तु तरयॊ धर्म्या दवाव अधर्म्यौ युधिष्ठिर पैशाच आसुरश चैव न कर्तव्यौ कथं चन ॥ 8 ॥

  9. बराह्मः कषात्रॊ ऽथ गान्धर्व एते धर्म्या नरर्षभ पृथग वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥ 9 ॥

  10. तिस्रॊ भार्या बराह्मणस्य दवे भार्ये कषत्रियस्य तु वैश्यः सवजातिं विन्देत तास्व अपत्यं समं भवेत ॥ 10 ॥

  11. बराह्मणी तु भवेज जयेष्ठा कषत्रिया कषत्रियस्य तु रत्यर्थम अपि शूद्रा सयान नेत्य आहुर अपरे जनाः ॥ 11 ॥

  12. अपत्यजन्म शूद्रायां न परशंसन्ति साधवः शूद्रायां जनयन विप्रः परायश्चित्ती विधीयते ॥ 12 ॥

  13. तरिंशद्वर्षॊ दशवर्षां भार्यां विन्देत नग्निकाम एकविंशतिवर्षॊ वा सप्त वर्षाम अवाप्नुयात ॥ 13 ॥

  14. यस्यास तु न भवेद भराता पिता वा भरतर्षभ नॊपयच्छेत तां जातु पुत्रिका धर्मिणी हि सा ॥ 14 ॥

  15. तरीणि वर्षाण्य उदीक्षेत कन्या ऋतुमती सती चतुर्थे तव अथ संप्राप्ते सवयं भार्तारम अर्जयेत ॥ 15 ॥

  16. परजनॊ हीयते तस्या परतिश च भरतर्षभ अतॊ ऽनयथा वर्तमाना भवेद वाच्या परजापतेः ॥ 16 ॥

  17. असपिण्डा च या मातुर असगॊत्रा च या पितुः इत्य एताम अनुगच्छेत तं धर्मं मनुर अब्रवीत ॥ 17 ॥

  18. [य] शुल्कम अन्येन दत्तं सयाद ददानीत्य आह चापरः बलाद अन्यः परभाषेत धनम अन्यः परदर्शयेत ॥ 18 ॥

  19. पाणिग्रहीता तव अन्यः सयात कस्य कन्यापितामह तत्त्वं जिज्ञासमानानां चक्षुर भवतु नॊ भवान ॥ 19 ॥

  20. [भ] यत किं चित कर्म मानुष्यं संस्थानाय परकृष्यते मन्त्रवन मन्त्रितं तस्य मृषावादस तु पातकः ॥ 20 ॥

  21. भार्या पत्यृत्विग आचार्याः शिष्यॊपाध्याय एव च मृषॊक्ते दण्डम अर्हन्ति नेत्य आहुर अपरे जनाः ॥ 21 ॥

  22. न हय अकामेन संवादं मनुर एवं परशंसति अयशस्यम अधर्म्यं च यन मृषा धर्मकॊपनम ॥ 22 ॥

  23. नैकान्त दॊष एकस्मिंस तद दानं नॊपलभ्यते धर्मतॊ यां परयच्छन्ति यां च करीणन्ति भारत ॥ 23 ॥

  24. बन्धुभिः समनुज्ञातॊ मन्त्रहॊमौ परयॊजयेत तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथं चन ॥ 24 ॥

  25. यस तव अत्र मन्त्रसमयॊ भार्या पत्यॊर मिथः कृतः तम एवाहुर गरीयांसं यश चासौ जञातिभिः कृतः ॥ 25 ॥

  26. देवदत्तां पतिर भार्यां वेत्ति धर्मस्य शासनात सा दैवीं मानुषीं वाचम अनृतां पर्युदस्यति ॥ 26 ॥

  27. [य] कन्यायां पराप्तशुल्कायां जयायांश चेद आव्रजेद वरः धर्मकामार्थ संपन्नॊ वाच्यम अत्रानृतं न वा ॥ 27 ॥

  28. तस्मिन्न उभयतॊ दॊषे कुर्वञ शरेयः समाचरेत अयं नः सर्वधर्माणां धर्मश चिन्त्यतमॊ मतः ॥ 28 ॥

  29. तत्त्वं जिज्ञासमानानां चक्षुर भवतु नॊ भवान तद एतत सर्वम आचक्ष्व न हि तृप्यामि कथ्यताम ॥ 29 ॥

  30. [बय] न वै निष्ठा करं शुल्कं जञात्वासीत तेन नाहृतम न हि शुल्क पराः सन्तः कन्यां ददति कर्हि चित ॥ 30 ॥

  31. अन्यैर गुणैर उपेतं तु शुल्कं याचन्ति बान्धवाः अलंकृत्वा वहस्वेति यॊ दद्याद अनुकूलतः ॥ 31 ॥

  32. तच च तां च ददात्य एव न शुल्कं विक्रयॊ न सः परतिगृह्य भवेद देयम एष धर्मः सनातनः ॥ 32 ॥

  33. दास्यामि भवते कन्याम इति पूर्वं न भाषितम ये चैवाहुर ये च नाहुर ये चावश्यं वदन्त्य उत ॥ 33 ॥

  34. तस्माद आ गरहणात पाणेर याचयन्ति परस्परम कन्या वरः पुरा दत्तॊ मरुद्भिर इति नः शरुतम ॥ 34 ॥

  35. नानिष्टाय परदातव्या कन्या इत्य ऋषिचॊदितम तन मूलं काममूलस्य परजनस्येति मे मतिः ॥ 35 ॥

  36. समीक्ष्य च बहून दॊषान संवासाद विद्विषाणयॊः यथा निष्ठा करं शुल्कं न जात्व आसीत तथा शृणु ॥ 36 ॥

  37. अहं विचित्रवीर्याय दवे कन्ये समुदावहम जित्वा च मागधान सर्वान काशीन अथ च कॊसलान गृहीतपाणिर एकासीत पराप्तशुल्कापराभवत ॥ 37 ॥

  38. पाणौ गृहीता तत्रैव विसृज्या इति मे पिता अब्रवीद इतरां कन्याम आवहत स तु कौरवः ॥ 38 ॥

  39. अप्य अन्याम अनुपप्रच्छ शङ्कमानः पुतुर वचः अतीव हय अस्य धर्मेप्सा पितुर मे ऽभयधिकाभवत ॥ 39 ॥

  40. ततॊ ऽहम अब्रुवं राजन्न आचारेप्सुर इदं वचः आचारं तत्त्वतॊ वेत्तुम इच्छामीति पुनः पुनः ॥ 40 ॥

  41. ततॊ मयैवम उक्ते तु वाक्ये धर्मभृतां वरः पिता मम महाराज बाह्लीकॊ वाक्यम अब्रवीत ॥ 41 ॥

  42. यदि वः शुल्कतॊ निष्ठा न पाणिग्रहणं तथा लाजान्तरम उपासीत पराप्तशुल्का पतिं वृतम ॥ 42 ॥

  43. न हि धर्मविदः पराहुः परमाणं वाक्यतः समृतम येषां वै शुल्कतॊ निष्ठा न पाणिग्रहणात तथा ॥ 43 ॥

  44. परसिद्धं भाषितं दाने तेषां परत्यसनं पुनः य मन्यन्ते करयं शुल्कं न ते धर्मविदॊ जनाः ॥ 44 ॥

  45. न चैतभ्य परदातव्या न वॊढव्या तथाविधा न हय एव भार्या करेतव्या न विक्रेया कथं चन ॥ 45 ॥

  46. ये च करीणन्ति दासीवद ये च विक्रीणते जनाः भवेत तेषां तथा निष्ठा लुब्धानां पापचेतसाम ॥ 46 ॥

  47. अस्मिन धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः कन्यायाः पराप्तशुल्कायाः शुल्कदः परशमं गतः ॥ 47 ॥

  48. पाणिग्रहीता चान्यः सयाद अत्र नॊ धर्मसंशयः तन नश छिन्धि महाप्राज्ञ तवं हि वै पराज्ञसंमतः तत्त्वं विज्ञासमानानां चक्षुर भवतु नॊ भवान ॥ 48 ॥

  49. तान एवं बरुवतः सर्वान सत्यवान वाक्यम अब्रवीत यत्रेष्टं तत्र देया सयान नात्र कार्या विचारणा कुर्वते जीवतॊ ऽपय एवं मृते नैवास्ति संशयः ॥ 49 ॥

  50. देवरं परविशेत कन्या तप्येद वापि महत तपः तम एवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥ 50 ॥

  51. लिखन्त्य एव तु केषां चिद अपरेषां शनैर अपि इति ये संवदन्त्य अत्र त एतं निश्चयं विदुः ॥ 51 ॥

  52. तत पाणिग्रहणात पूर्वम उत्तरं यत्र वर्तते सर्वमङ्गल मन्त्रं वै मृषावादस तु पातकः ॥ 52 ॥

  53. पाणिग्रहण मन्त्राणां निष्ठा सयात सप्तमे पदे पाणिग्राहस्य भार्या सयाद यस्य चाद्भिः परदीयते ॥ 53 ॥

  54. अनुकूलाम अनुवंशां भरात्रा दत्ताम उपाग्निकाम परिक्रम्य यथान्यायं भार्यां विन्देद दविजॊत्तमः ॥ 54 ॥

Reach this point to mark the section finished.

Continue to अध्याय 45

Previous: अध्याय 43