[भ] ततः कदा चिद देवेन्द्रॊ दिव्यरूपवपुर धरः इदम अन्तरम इत्य एवं ततॊ ऽभयागाद अथाश्रमम ॥ 1 ॥
रूपम अप्रतिमं कृत्वा लॊभनीयं जनाधिप दर्शनीयतमॊ भूत्वा परविवेश तम आश्रमम ॥ 2 ॥
स ददर्श तम आसीनं विपुलस्य कलेवरम निश्चेष्टं सतब्धनयनं यथा लेख्य गतं तथा ॥ 3 ॥
रुचिं च रुचिरापाङ्गीं पीनश्रॊणिपयॊधराम पद्मपत्र विशालाक्षीं संपूर्णेन्दु निभाननाम ॥ 4 ॥
सा तम आलॊक्य सहसा परत्युत्थातुम इयेष ह रूपेण विस्मिता कॊ ऽसीत्य अथ वक्तुम इहेच्छती ॥ 5 ॥
उत्थातु कामापि सती वयतिष्ठद विपुलेन सा निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम ॥ 6 ॥
ताम आबभाषे देवेन्द्र साम्ना परमवल्गुणा तवदर्थम आगतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥ 7 ॥
कलिश्यमानम अनङ्गेन तवत संकल्पॊद्भवेन वै तत्पर्याप्नुहि मां सुभ्रु पुरा कालॊ ऽतिवर्तते ॥ 8 ॥
तम एवं वादिनं शक्रं शुश्राव विपुलॊ मुनिः गुरु पत्न्याः शरीरस्थॊ ददर्श च सुराधिपम ॥ 9 ॥
न शशाक च सा राजन परत्युत्थातुम अनिन्दिता वक्तुं च नाशकद राजन विष्टब्धा विपुलेन सा ॥ 10 ॥
आकारं गुरु पत्न्यास तु विज्ञाय स भृगूद्वहः निजग्राह महातेजा यॊगेन बलवत परभॊ बबन्ध यॊगबन्धैश च तस्याः सर्वेन्द्रियाणि सः ॥ 11 ॥
तां निर्विकारां दृष्ट्वा तु पुनर एव शचीपतिः उवाच वरीडितॊ राजंस तां यॊगबलमॊहिताम ॥ 12 ॥
एह्य एहीति ततः सा तं परतिवक्तुम इयेष च स तां वाचं गुरॊः पत्न्या विपुलः पर्यवर्तयत ॥ 13 ॥
भॊः किम आगमने कृत्यम इति तस्याश च निःसृता वक्राच छशाङ्क परतिमाद वाणी संस्कारभूषिता ॥ 14 ॥
वरीडिता सा तु तद वाक्यम उक्त्वा परवशा तदा पुरंदरश च संत्रस्तॊ बभूव विमनास तदा ॥ 15 ॥
स तद वैकृतम आलक्ष्य देवराजॊ विशां पते अवैक्षत सहस्राक्षस तदा दिव्येन चक्षुषा ॥ 16 ॥
ददर्श च मुनिं तस्याः शरीरान्तर गॊचरम परतिबिम्बम इवादर्शे गुरु पत्न्याः शरीरगम ॥ 17 ॥
स तं घॊरेण तपसा युक्तं दृष्ट्वा पुरंदरः परावेपत सुसंप्त्रस्तः शापभीतस तदा विभॊ ॥ 18 ॥
विमुच्य गुरु पत्नीं तु विपुलः सुमहातपाः सवं कलेवरम आविश्य शक्रं भीतम अथाब्रवीत ॥ 19 ॥
अजितेन्द्रिय पापात्मन कामाक्मक पुरंदर नचिरं पूजयिष्यन्ति देवास तवां मानुषास तथा ॥ 20 ॥
किं नु तद विस्मृतं शक्र न तन मनसि ते सथितम गौतमेनासि यन मुक्तॊ भगाङ्क परिचिह्नितः ॥ 21 ॥
जाने तवां बालिशमतिम अकृतात्मानम अस्थिरम मयेयं रक्ष्यते मूढ गच्छ पापयथा गतम ॥ 22 ॥
नाहं तवाम अद्य मूढात्मन दहेयं हि सवतेजसा कृपायमाणस तु न ते दग्धुम इच्छामि वासव ॥ 23 ॥
स च घॊरतपा धीमान गुरुर मे पापचेतसम दृष्ट्वा तवां निर्दहेद अद्य करॊधदीप्तेन चक्षुषा ॥ 24 ॥
नैवं तु शक्र कर्तव्यं पुनर मान्याश च ते दविजाः मा गमः स सुतामात्यॊ ऽतययं बरह्मबलार्दितः ॥ 25 ॥
अमरॊ ऽसमीति यद बुद्धिम एताम आस्थाय वर्तसे मावमंस्था न तपसाम असाध्यं नाम किं चन ॥ 26 ॥
तच छरुत्वा वचनं शक्रॊ विपुलस्य महात्मनः अकिं चिद उक्त्वा वरीडितस तत्रैवान्तरधीयत ॥ 27 ॥
मुहूर्तयाते शक्रे तु देव शर्मा महातपाः कृत्वा यज्ञं यथाकामम आजगाम सवम आश्रमम ॥ 28 ॥
आगते ऽथ गुरौ राजन विपुलः परियकर्मकृत रक्षितां गुरवे भार्यां नयवेदयद अनिन्दिताम ॥ 29 ॥
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः विपुलः पर्युपातिष्ठद यथापूर्वम अशङ्कितः ॥ 30 ॥
विश्रान्ताय ततस तस्मै सहासीनाय भार्यया निवेदयाम आस तदा विपुलः शक्र कर्म तत ॥ 31 ॥
तच छरुत्वा स मुनिस तुष्टॊ विपुलस्य परतापवान बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ 32 ॥
विपुलस्य गुरौ वृत्तिं भक्तिम आत्मनि च परभुः धर्मे च सथिरतां दृष्ट्वा साधु साध्व इत्य उवाच ह ॥ 33 ॥
परतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम वरेणच छन्दयाम आस स तस्माद गुरुवत्सलः अनुज्ञातश च गुरुणा चचारानुत्तमं तपः ॥ 34 ॥
तथैव देव शर्मापि सभार्यः स महातपाः निर्भयॊ बलवृत्रघ्नाच चचार विजने वने ॥ 35 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 41
Reach this point to mark the section finished.
Continue to अध्याय 42