[य] इमे वै मानवा लॊके सत्रीषु सज्जन्त्य अभीक्ष्णशः मॊहेन परम आविष्टा दैवादिष्टेन पार्थिव सत्रियश च पुरुषेष्व एव परत्यक्षं लॊकसाक्षिकम ॥ 1 ॥
अत्र मे संशयस तीव्रॊ हृदि संपरिवर्तते कथम आसां नरा सङ्गं कुर्वते कुरुनन्दन सत्रियॊ वा तेषु रज्यन्ते विरज्यन्ते ऽथ वा पुनः ॥ 2 ॥
इति ताः पुरुषव्याघ्र कथं शक्याः सम रक्षितुम परमदाः पुरुषेणेह तन मे वयाख्यातुम अर्हसि ॥ 3 ॥
एता हि मय मायाभिर वञ्चयन्तीह मानवान न चासां मुच्यते कश चित पुरुषॊ हस्तम आगतः गावॊ नव तृणानीव गृह्णन्त्य एव नवान नवान ॥ 4 ॥
शम्बरस्य च या माया या माया नमुचेर अपि बलेः कुम्भीनसेश चैव सर्वास ता यॊषितॊ विदुः ॥ 5 ॥
हसन्तं परहसन्त्य एता रुदन्तं पररुदन्ति च अप्रियं परियवाक्यैश च गृह्णते कालयॊगतः ॥ 6 ॥
उशना वेद यच छास्त्रं यच च वेद बृहस्पतिः सत्री बुद्ध्या न विशिष्य्येते ताः सम रक्ष्याः कथं नरैः ॥ 7 ॥
अनृतं सत्यम इत्य आहुः सत्यं चापि तथानृतम इति यास ताः कथं वीर संरक्ष्याः पुरुषैर इह ॥ 8 ॥
सत्रीणां बुद्ध्युपनिष्कर्षाद अर्थशास्त्राणि शत्रुहन बृहस्पतिप्रभृतिभिर मन्ये सद्भिः कृतानि वै ॥ 9 ॥
संपूज्यमानः पुरुषैर विकुर्वन्ति मनॊ नृषु अपास्ताश च तथा राजन विकुर्वन्ति मनः सत्रियः ॥ 10 ॥
कस ताः शक्तॊ रक्षितुं सयाद इति मे संशयॊ महान तन मे बरूहि महाबाहॊ कुरूणां वंशवर्धन ॥ 11 ॥
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथं चन कर्तुं वा कृतपूर्वा वा तन मे वयाख्यातुम अर्हसि ॥ 12 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 39
Reach this point to mark the section finished.
Continue to अध्याय 40