[य] सत्रीणां सवभावम इच्छामि शरॊतुं भरतसत्तम सत्रियॊ हि मूलं दॊषाणां लघु चित्ताः पितामह ॥ 1 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादं पुंश्चल्या पञ्च चूडया ॥ 2 ॥
लॊकान अनुचरन धीमान देवर्षिर नारदः पुरा ददर्शाप्सरसं बराह्मीं पञ्च दूडाम अनिन्दिताम ॥ 3 ॥
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः संशयॊ हृदि मे कश चित तन मे बरूहि सुमध्यमे ॥ 4 ॥
एवम उक्ता तु सा विप्रं परत्युवाचाथ नारदम विषये सति वक्ष्यामि समर्थां मन्यसे च माम ॥ 5 ॥
[न] न तवाम अविषये भद्रे नियॊक्ष्यामि कथं चन सत्रीणां सवभावम इच्छामि तवत्तः शरॊतुं वरानने ॥ 6 ॥
[बः] एतच छरुत्वा वचस तस्य देवर्षेर अप्सरॊत्तमा परत्युवाच न शक्ष्यामि सत्री सती निन्दितुं सत्रियः ॥ 7 ॥
विदितास ते सत्रियॊ याश च यादृशाश च सवभावतः न माम अर्हसि देवर्षे नियॊक्तुं परश्न ईदृशे ॥ 8 ॥
ताम उवाच स देवर्षिः सत्यं वद सुमध्यमे मृषावादे भवेद दॊषः सत्ये दॊषॊ न विद्यते ॥ 9 ॥
इत्य उक्ता सा कृतमतिर अभवच चारुहासिनी सत्री दॊषाञ शाश्वतान सत्यान भाषितुं संप्रचक्रमे ॥ 10 ॥
[प] कुलीना रूपवत्यश च नाथवत्यश च यॊषितः मर्यादासु न तिष्ठन्ति स दॊषः सत्रीषु नारद ॥ 11 ॥
न सत्रीभ्यः किं चिद अन्यद वै पापीयस्तरम अस्ति वै सत्रियॊ हि मूलं दॊषाणां तथा तवम अपि वेत्थ ह ॥ 12 ॥
समाज्ञातान ऋद्धिमतः परतिरूपान वशे सथितान पतीन अन्तरम आसाद्य नालं नार्यः परतीक्षितुम ॥ 13 ॥
असद धर्मस तव अयं सत्रीणाम अस्माकं भवति परभॊ पापीयसॊ नरान यद वै लज्जां तयक्त्वा भजामहे ॥ 14 ॥
सत्रियं हि यः परार्थयते संनिकर्षं च गच्छति ईषच च कुरुते सेवां तम एवेच्छन्ति यॊषितः ॥ 15 ॥
अनर्थित्वान मनुष्याणां भयात परिजनस्य च मर्यादायाम अमर्यादाः सत्रियस तिष्ठन्ति भर्तृषु ॥ 16 ॥
नासां कश चिद अगम्यॊ ऽसति नासां वयसि संस्थितिः विरूपं रूपवन्तं वा पुमान इत्य एव भुञ्जते ॥ 17 ॥
न भयान नाप्य अनुक्रॊशान नार्थहेतॊः कथं चन न जञातिकुलसंबन्धात सत्रियस तिष्ठन्ति भर्तृषु ॥ 18 ॥
यौवने वर्तमानानां मृष्टाभरण वाससाम नारीणां सवैरवृत्तानां सपृहयन्ति कुलस्त्रियः ॥ 19 ॥
याश च शश्वद बहुमता रक्ष्यन्ते दयिताः सत्रियः अपि ताः संप्रसज्जन्ते कुब्जान्ध जड वामनैः ॥ 20 ॥
पङ्गुष्व अपि च देवर्षे ये चान्ये कुत्सिता नराः सत्रीणाम अगम्यॊ लॊके ऽसमिन नास्ति कश चिन महामुने ॥ 21 ॥
यदि पुंसां गतिर बरह्म कथं चिन नॊपपद्यते अप्य अन्यॊन्यं परवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ 22 ॥
अलाभात पुरुषाणं हि भयात परिजनस्य च वधबन्धभयाच चापि सवयं गुप्ता भवन्ति ताः ॥ 23 ॥
चल सवभावा दुःसेव्या दुर्ग्राह्या भावतस तथा पराज्ञस्य पुरुषस्येह यथा वाचस तथा सत्रियः ॥ 24 ॥
नाग्निस तृप्यति काष्टाहां नापगानां महॊदधिः नान्तकः सर्वभूतानां न पुंसां वामलॊचनाः ॥ 25 ॥
इदम अन्यच च देवर्षे रहस्यं सर्वयॊषिताम दृष्ट्वैव पुरुषं हृद्यं यॊनिः परक्लिद्यते सत्रियः ॥ 26 ॥
कामानाम अपि दातारं कर्तारं मानसान्त्वयॊः रक्षितारं न मृष्यन्ति भर्तारं परमं सत्रियः ॥ 27 ॥
न कामभॊगान बहुलान नालंकारार्थ संचयान तथैव बहु मन्यन्ते यथा रत्याम अनुग्रहम ॥ 28 ॥
अन्तकः शमनॊ मृत्युः पातालं वडवामुखम कषुर धारा विषं सर्पॊ वह्निर इत्य एकतः सत्रियः ॥ 29 ॥
यतश च भूतानि महान्ति पञ्च; यतश च लॊका विहिता विधात्रा यतः पुमांसः परमदाश च निर्मितस; तदैव दॊषाः परमदासु नारद ॥ 30 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 38
Reach this point to mark the section finished.
Continue to अध्याय 39