[य] अपूर्वं वा भवेत पार्थम अथ वापि चिरॊषितम दूराद अभ्यागतं वापि किं पात्रं सयात पितामह ॥ 1 ॥
[भ] करिया भवति केषां चिद उपांशु वरतम उत्तमम यॊ यॊ याचेत यत किं चित सर्वं दद्याम इत्य उत ॥ 2 ॥
अपीदयन भृत्यवर्गम इत्य एवम अनुशुश्रुम पीडयन भृत्यवर्गं हि आत्मानम अपकर्षति ॥ 3 ॥
अपूर्वं वापि यत पात्रं यच चापि सयाच चिरॊषितम दूराद अभ्यागतं चापि तत पात्रं च विदुर बुधाः ॥ 4 ॥
[य] अपीडया च भृत्यानां धर्मस्याहिंसया तथा पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत ॥ 5 ॥
[भ] ऋत्विक पुरॊहिताचार्याः शिष्याः संबन्धिबान्धवाः सर्वे पूज्याश च मान्याश च शरुतवृत्तॊपसंहिताः ॥ 6 ॥
अतॊ ऽनयथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम तस्मान नित्यं परीक्षेत पुरुषान परणिधाय वै ॥ 7 ॥
अक्रॊधः सत्यवचनम अहिंसा दम आर्जवम अद्रॊहॊ नातिमानश च हरीस तितिक्षा तपः शमः ॥ 8 ॥
यस्मिन एतानि दृश्यन्ते न चाकार्याणि भारत भावतॊ विनिविष्टानि तत पात्रं मानम अर्हति ॥ 9 ॥
तथा चिरॊषितं चापि संप्रत्यागतम एव च अपूर्वं चैव पूर्वं च तत पातं मानम अर्हति ॥ 10 ॥
अप्रामाण्यं च वेदानां शास्त्राणां चाति लङ्घनम सर्वत्र चानवस्थानम एतन नाशनम आत्मनः ॥ 11 ॥
भवेत पण्डितमानी यॊ बराह्मणॊ वेद निन्दकः आन्वीक्षिकीं तर्क विद्याम अनुरक्तॊ निरर्थिकाम ॥ 12 ॥
हेतुवादान बरुवन सत्सु विजेताहेतु वादिकः आक्रॊष्टा चाति वक्ता च बराह्मणानां सदैव हि ॥ 13 ॥
सर्वाभिशङ्की मूढश च बालः कटुक वाग अपि बॊद्धव्यस तादृशस तात नरश्वानं हि तं विदुः ॥ 14 ॥
यथा शवा भषितुं चैव हन्तुं चैवावसृज्यते एवं संभाषणार्थाय सर्वशास्त्रवधाय च अल्पश्रुताः कु तर्काश च दृष्टाः सपृष्टाः कु पण्डिताः ॥ 15 ॥
शरुतिस्मृतीतिहासादि पुराणारण्य वेदिनः अनुरुन्ध्याद बहुज्ञांश च सारज्ञांश चैव पण्डितान ॥ 16 ॥
लॊकयात्रा च दरष्टव्या धर्मश चात्महितानि च एवं नरॊ वर्तमानः शाश्वतीर एधते समाः ॥ 17 ॥
ऋणम उन्मुच्य देवानाम ऋषीणां च तथैव च पितॄणाम अथ विप्राणाम अतिथीनां च पञ्चमम ॥ 18 ॥
पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा एवं गृहस्थः कर्माणि कुर्वन धर्मान न हीयते ॥ 19 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 37
Reach this point to mark the section finished.
Continue to अध्याय 38