[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शक्र शम्बर संवादं तन निबॊध युधिष्ठिर ॥ 1 ॥
शक्रॊ हय अज्ञातरूपेण जटी भूत्वा रजॊ रुणः विरूपं रूपम आस्थाय परश्नं पप्रच्छ शम्बरम ॥ 2 ॥
केन शम्बर वृत्तेन सवजात्यान अधितिष्ठसि शरेष्ठं तवां केन मन्यन्ते तन मे परब्रूहि पृच्छतः ॥ 3 ॥
[ष] नासूयामि सदा विप्रान बरह्माणं च पितामहम शास्त्राणि वदतॊ विप्रान संमन्यामि यथासुखम ॥ 4 ॥
शरुत्वा च नावजानामि नापराध्यामि कर्हि चित अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम ॥ 5 ॥
ते विश्रब्धाः परभाषन्ते संयच्छन्ति च मां सदा परमत्तेष्व अप्रमत्तॊ ऽसमि सदा सुप्तेषु जागृमि ॥ 6 ॥
ते मा शास्त्रपथे युक्तं बरह्मण्यम अनसूयकम समासिञ्चन्ति शास्तारः कषौद्रं मध्व इव मक्षिकाः ॥ 7 ॥
यच च भाषन्ति ते तुष्टास तत तद्गृह्णामि मेधया समाधिम आत्मनॊ नित्यम अनुलॊमम अचिन्तयन ॥ 8 ॥
सॊ ऽहं वाग अग्रसृष्टानां रसानाम अवलेहकः सवजात्यान अधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ 9 ॥
एतत पृथिव्याम अमृतम एतच चक्षुर अनुत्तमम यद बराह्मणं मुखाच छास्त्रम इह शरुत्वा परवर्तते ॥ 10 ॥
एतत कारणम आज्ञाय दृष्ट्वा देवासुरं पुरा युद्धं पिता मे हृष्टात्मा विस्मितः परत्यपद्यत ॥ 11 ॥
दृष्ट्वा च बराह्मणानां तु महिमानं महात्मनाम पर्यपृच्छत कथम इमे सिद्धा इति निशाकरम ॥ 12 ॥
[सॊम] बराह्मणास तपसा सर्वे सिध्यन्ते वाग्बलाः सदा भुजवीर्या हि राजानॊ वाग अस्त्राश च दविजातयः ॥ 13 ॥
परवसन वाप्य अधीयीत बह्वीर दुर्वसतीर वसन निर्मन्युर अपि निर्मानॊ यतिः सयात समदर्शनः ॥ 14 ॥
अपि चेज जातिसंपन्नः सर्वान वेदान पितुर गृहे शलाघमान इवाधीयेद गराम्य इत्य एव तं विदुः ॥ 15 ॥
भूमिर एतौ निगिरति सर्पॊ बिलशयान इव राजानं चाप्य अयॊद्धारं बराह्मणं चाप्रवासिनम ॥ 16 ॥
अतिमानः शरियं हन्ति पुरुषस्याल्पमेधसः गर्भेण दुष्यते कन्या गृहवासेन च दविजः ॥ 17 ॥
इत्य एतन मे पिता शरुत्वा सॊमाद अद्भुतदर्शनात बराह्मणान पूजयाम आस तथैवाहं महाव्रतान ॥ 18 ॥
[भ] शरुत्वैतद वचनं शक्रॊ दानवेन्द्र मुखाच चयुतम दविजान संपूजयाम आस महेन्द्रत्वम अवाप च ॥ 19 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37