धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 33

  1. [य] किं राज्ञः सर्वकृत्यानां गरीयः सयात पितामह किं कुर्वन कर्म नृपतिर उभौ लॊकौ समश्नुते ॥ 1 ॥

  2. [भ] बराह्मणान एव सततं भृशं संप्रतिपूजयेत ॥ 1 ॥

  3. [भ] एतद राज्ञः कृत्यतमम अभिषिक्तस्य भारत बराह्मणानाम अनुष्ठानम अत्यन्तं सुखम इच्छता शरॊत्रियान बराह्मणान वृद्धान नित्यम एवाभिपूजयेत ॥ 2 ॥

  4. पौरजानपदांश चापि बराह्मणांश च बहुश्रुतान सान्त्वेन भॊगदानेन नमः कारैस तथार्चयेत ॥ 3 ॥

  5. एतत कृत्यतमं राज्ञॊ नित्यम एवेति लक्षयेत यथात्मानं यथा पुत्रांस तथैतान परिपालयेत ॥ 4 ॥

  6. ये चाप्य एषां पूज्यतमास तान दृढं परतिपूजयेत तेषु शान्तेषु तद राष्ट्रं सर्वम एव विराजते ॥ 5 ॥

  7. ते पूज्यास ते नमः कार्यास ते रक्ष्याः पितरॊ यथा तेष्व एव यात्रा लॊकस्य भूतानाम इव वासवे ॥ 6 ॥

  8. अभिचारैर उपायैश च दहेयुर अपि तेजसा निःशेषं कुपिताः कुर्युर उग्राः सत्यपराक्रमाः ॥ 7 ॥

  9. नान्तम एषां परपश्यामि न दिशश चाप्य अपावृताः कुपिताः समुदीक्षन्ते दावेष्व अग्निशिखा इव ॥ 8 ॥

  10. विद्यन तेषां साहसिका गुणास तेषाम अतीव हि कूपा इव तृणच छन्ना विशुद्धा दयौर इवापरे ॥ 9 ॥

  11. परसह्य कारिणः के चित कार्पास मृदवॊ ऽपरे सन्ति चैषाम अतिशठास तथान्ये ऽतितपस्विनः ॥ 10 ॥

  12. कृषिगॊरक्ष्यम अप्य अन्ये भैक्षम अन्ये ऽपय अनुष्ठिताः चॊराश चान्ये ऽनृताश चान्ये तथान्ये नटनर्तकाः ॥ 11 ॥

  13. सर्वकर्मसु दृश्यन्ते परशान्तेष्व इतरेषु च विविधाचार युक्ताश च बराह्मणा भरतर्षभ ॥ 12 ॥

  14. नाना कर्मसु युक्तानां बहु कर्मॊपजीविनाम धर्मज्ञानां सतां तेषां नित्यम एवानुकीर्तयेत ॥ 13 ॥

  15. पितॄणां देवतानां च मनुष्यॊरगरक्षसाम पुरॊहिता महाभागा बराह्मणा वै नराधिप ॥ 14 ॥

  16. नैते देवैर न पितृभिर न गन्धर्वैर न राक्षसैः नासुरैर न पिशाचैश च शक्या जेतुं दविजातयः ॥ 15 ॥

  17. अदैवं दैवतं कुर्युर दैवतं चाप्य अदैवतम यम इच्छेयुः स राजा सयाद यं दविष्युः स पराभवेत ॥ 16 ॥

  18. परिवादं च ये कुर्युर बराह्मणानाम अचेतसः निन्दा परशंसा कुशलाः कीर्त्यकीर्तिपरावराः परिकुल्प्यन्ति ते राजन सततं दविषतां दविजाः ॥ 17 ॥

  19. बराह्मणा यं परशंसन्ति पुरुषः स परवर्धते बराह्मणैर यः पराक्रुष्टः पराभूयात कषणाद धि सः ॥ 18 ॥

  20. शका यवनकाम्बॊजास तास ताः कषत्रिय जातयः वृषलत्वं परिगता बराह्मणानाम अदर्शनात ॥ 19 ॥

  21. दरमिॢाश च कलिङ्गाश च पुलिन्दाश चाप्य उशीनराः कौलाः सर्पा माहिषकास तास ताः कषत्रिय जातयः ॥ 20 ॥

  22. वृषलत्वं परिगता बराह्मणानाम अदर्शनात शरेयान पराजयस तेभ्यॊ न जयॊ जयतां वर ॥ 21 ॥

  23. यस तु सर्वम इदं हन्याद बराह्मणं च न तः समम बरह्म वध्या महान दॊष इत्य आहुः परमर्षयः ॥ 22 ॥

  24. परिवादॊ दविजातीनां न शरॊतव्यः कथं चन आसीताधॊ मुखस तूष्णीं समुत्थाय वरजेत वा ॥ 23 ॥

  25. न स जातॊ जनिष्यॊ वा पृथिव्याम इह कश चन यॊ बराह्मण विरॊधेन सुखं जीवितुम उत्सहेत ॥ 24 ॥

  26. दुर्ग्रहॊ मुष्टिना वायुर दुःस्पर्शः पाणिना शशी दुर्धरा पृथिवी मूर्ध्ना दुर्जया बराह्मणा भुवि ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32