[य] के पूज्याः के नमः कार्या मानवैर भरतर्षभ विस्तरेण तद आचक्ष्व न हि तृप्यामि कथ्यताम ॥ 1 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादं वासुदेवस्य चॊभयॊः ॥ 2 ॥
नारदं पराञ्जलिं दृष्ट्वा पूजयानं दविज रषभान केशवः परिपप्रच्छ भगवन कान नमस्यसि ॥ 3 ॥
बहुमानः परः केषु भवतॊ यान नमस्यसि शक्यं चेच छरॊतुम इच्छामि बरूह्य एतद धर्मवित्तम ॥ 4 ॥
[न] शृणु गॊविन्द यान एतान पूजयाम्य अरिमर्दन तवत्तॊ ऽनयः कः पुमाँल लॊके शरॊतुम एतद इहार्हति ॥ 5 ॥
वरुणं वायुम आदित्यं पर्यन्यं जातवेदसम सथाणुं सकन्दं तथा लक्ष्मीं विष्णुं बरह्माणम एव च ॥ 6 ॥
वाचस्पतिं चन्द्रमसम अपः पृथ्वीं सरस्वतीम सततं ये नमस्यन्ति तान नमस्याम्य अहं विभॊ ॥ 7 ॥
तपॊधनान वेद विदॊ नित्यं वेद परायणान महार्हान वृष्णिशार्दूल सदा संपूजयाम्य अहम ॥ 8 ॥
अभुक्त्वा देवकार्याणि कुर्वते ये ऽविकत्थनाः संतुष्टाश च कषमा युक्तास तान नमस्याम्य अहं विभॊ ॥ 9 ॥
सम्यग ददति ये चेष्टान कषान्ता दान्ता जितेन्द्रियाः सस्यं धनं कषितिं गाश च तान नमस्यामि यादव ॥ 10 ॥
ये ते तपसि वर्तन्ते वने मूलफलाशनाः असंचयाः करियावन्तस तान नमस्यामि यादव ॥ 11 ॥
ये भृत्यभरणे सक्ताः सततं चातिथि परियाः भुञ्जन्ते देव शेषाणि तान नमस्यामि यादव ॥ 12 ॥
ये वेदं पराप्य दुर्धर्षा वाग्मिनॊ बरह्मवादिनः याजनाध्यापने युक्ता नित्यं तान पूजयाम्य अहम ॥ 13 ॥
परसन्नहृदयाश चैव सर्वसत्त्वेषु नित्यशः आ पृष्ठतापात सवाध्याये युक्तास तान पूजयाम्य अहम ॥ 14 ॥
गुरु परसादे सवाध्याये यतन्ते ये सथिरव्रताः शुश्रूषवॊ ऽनसूयन्तस तान नमस्यामि यादव ॥ 15 ॥
सुव्रता मुनयॊ ये च बरह्मण्याः सत्यसंगराः वॊढारॊ हव्यकव्यानां तान नमस्यामि यादव ॥ 16 ॥
भैक्ष्य चर्यासु निरताः कृशा गुरु कुलाश्रयाः निःसुखा निर्धना ये च तान नमस्यामि यादव ॥ 17 ॥
निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयॊजनाः अहिंसा निरता ये च ये च सत्यव्रता नराः दान्ताः शम पराश चैव तान नमस्यामि केशव ॥ 18 ॥
देवतातिथिपूजायां परसक्ता गृहमेधिनः कपॊत वृत्तयॊ नित्यं तान नमस्यामि यादव ॥ 19 ॥
येषां तरिवर्गः कृत्येषु वर्तते नॊपहीयते शिष्टाचार परवृत्ताश च तान नमस्याम्य अहं सदा ॥ 20 ॥
बराह्मणास तरिषु लॊकेषु ये तरिवर्गम अनुष्ठिताः अलॊलुपाः पुण्यशीलास तान नमस्यामि केशव ॥ 21 ॥
अब्भक्षा वायुभक्षाश च सुधा भक्षाश च ये सदा वरतैश च विविधैर युक्तास तान नमस्यामि माधव ॥ 22 ॥
अयॊनीन अग्नियॊनींश च बरह्मयॊनींस तथैव च सर्वभूतात्मयॊनींश च तान नमस्याम्य अहं दविजान ॥ 23 ॥
नित्यम एतान नमस्यामि कृष्ण लॊककरान ऋषीन लॊकज्येष्ठाञ जञाननिष्ठांस तमॊ घनाँल लॊकभास्करान ॥ 24 ॥
तस्मात तवम अपि वार्ष्णेय दविजान पूजय नित्यदा पूजिताः पूजनार्हा हि सुखं दास्यन्ति ते ऽनघ ॥ 25 ॥
अल्स्मिल लॊके सदा हय एते परत्र च सुखप्रदाः त एते मान्यमाना वै परदास्यन्ति सुखं तव ॥ 26 ॥
ये सर्वातिथयॊ नित्यं गॊषु च बराह्मणेषु च नित्यं सत्ये च निरता दुर्गाण्य अतितरन्ति ते ॥ 27 ॥
नित्यं शम परा ये च तथा ये चानसूयकाः नित्यं सवाध्यायिनॊ ये च दुर्गाण्य अतितरन्ति ते ॥ 28 ॥
सर्वान देवान नमस्यन्ति ये चैकं देवम आश्रिताः शरद्दधानाश च दान्ताश च दुर्गाण्य अतितरन्ति ते ॥ 29 ॥
तथैव विप्र परवरान नमस्कृत्य यतव्रतान भवन्ति ये दानरता दुर्गाण्य अतितरन्ति ते ॥ 30 ॥
अग्नीन आधाय विधिवत परयता धारयन्ति ये पराप्ताः सॊमाहुतिं चैव दुर्गाण्य अतितरन्ति ते ॥ 31 ॥
मातापित्रॊर गुरुषु च सम्यग वर्तन्ति ये सदा यथा तवं वृष्णिशार्दूलेत्य उक्त्वैवं विरराम सः ॥ 32 ॥
तस्मात तवम अपि कौन्तेय पितृदेवद्विजातिथीन सम्यक पूजय येन तवं गतिम इष्टाम अवाप्स्यसि ॥ 33 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 32
Reach this point to mark the section finished.
Continue to अध्याय 33