एते हि सॊमराजान ईश्वराः सुखदुःखयॊः ॥ 1 ॥
एते भॊगैर अलंकारैर अन्यैश चैव किम इच्छकैः सदा पूज्या नमः कार्या रक्ष्याश च पितृवन नृपैः अतॊ राष्ट्रस्य शान्तिर हि भूतानाम इव वासवात ॥ 2 ॥
जायतां बरह्म वर्चस्वी राष्ट्रे वै बराह्मणः शुचिः महारथश च राजन्य एष्टव्यः शत्रुतापनः ॥ 3 ॥
बराह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम वासयेत गृहे राजन न तस्मात परम अस्ति वै ॥ 4 ॥
बराह्मणेभ्यॊ हविर दत्तं परतिगृह्णन्ति देवताः पितरः सर्वभूतानां नैतेभ्यॊ विद्यते परम ॥ 5 ॥
आदित्यश चन्द्रमा वायुर भूमिर आपॊ ऽमबरं दिशः सर्वे बराह्मणम आविश्य सदान्नम उपभुञ्जते ॥ 6 ॥
न तस्याश्नन्ति पितरॊ यस्य विप्रा न भुञ्जते देवाश चाप्य अस्य नाश्नन्ति पापस्य बराह्मण दविषः ॥ 7 ॥
बराह्मणेषु तु तुष्टेषु परीयन्ते पितरः सदा तथैव देवता राजन नात्र कार्या विचारणा ॥ 8 ॥
तथैव ते ऽपि परीयन्ते येषां भवति तद धविः न च परेत्य विनश्यन्ति गच्छन्ति परमां गतिम ॥ 9 ॥
येन येनैव हविषा बराह्मणांस तर्पयेन नरः तेन तेनैव परीयन्ते पितरॊ देवतास तथा ॥ 10 ॥
बराह्मणाद एव तद भूतं परभवन्ति यतः परजाः यतश चायं परभवति परेत्य यत्र च गच्छति ॥ 11 ॥
वेदैष मार्गं सवर्गस्य तथैव नरकस्य च आगतानागते चॊभे बराह्मणॊ दविपदां वरः बराह्मणॊ भरतश्रेष्ठ सवधर्मं वेद मेधया ॥ 12 ॥
ये चैनम अनुवर्तन्ते ते न यान्ति पराभवम न ते परेत्य विनश्यन्ति गच्छन्ति न पराभवम ॥ 13 ॥
ये बराह्मण मुखात पराप्तं परतिगृह्णन्ति वै वचः कृतात्मानॊ महात्मानस ते न यान्ति पराभवम ॥ 14 ॥
कषत्रियाणां परतपतां तेजसा च बलेन च बराह्मणेष्व एव शाम्यन्ति तेजांसि च बलानि च ॥ 15 ॥
भृगवॊ ऽजयंस तालजङ्घान नीपान अङ्गिरसॊ ऽजयन भरद्वाजॊ वैतहव्यान ऐलांश च भरतर्षभ ॥ 16 ॥
चित्रायुधांश चाप्य अजयन्न एते कृष्णाजिनध्वजाः परक्षिप्याथ च कुम्भान वै पारगामिनम आरभेत ॥ 17 ॥
यत किं चित कथ्यते लॊके शरूयते पश्यते ऽपि वा सर्वं तद बराह्मणेष्व एव गूढॊ ऽगनिर इव दारुषु ॥ 18 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम संवादं वासुदेवस्य पृथ्व्याश च भरतर्षभ ॥ 19 ॥
[वासुदेव] मातरं सर्वभूतानां पृच्छे तवा संशयं शुभे केन सवित कर्मणा पापं वयपॊहति नरॊ गृही ॥ 20 ॥
[पृथिवी] बराह्मणान एव सेवेत पवित्रं हय एतद उत्तमम बराह्मणान सेवमानस्य रजः सर्वं परणश्यति ॥ 21 ॥
अतॊ भूतिर अतः कीर्तिर अतॊ बुद्धिः परजायते अपरेषां परेषां च परेभ्यश चैव ये परे ॥ 22 ॥
बराह्मणा यं परशंसन्ति पुरुषः स परवर्धते अथ यॊ बराह्मणाक्रुष्टः पराभवति सॊ ऽचिरात ॥ 23 ॥
यथा महार्णवे कषिप्त आमलॊष्टॊ विनश्यति तथा दुश्चरितं कर्म पराभावाय कल्पते ॥ 24 ॥
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणॊदकम तथा भग सहस्रेण महेन्द्रं परिचिह्नितम ॥ 25 ॥
तेषाम एव परभावेन सहस्रनयनॊ हय असौ शतक्रतुः समभवत पश्य माधव यादृशम ॥ 26 ॥
इच्छन भूतिं च कीर्तिं च लॊकांश च मधुसूदन बराह्मणानुमते तिष्ठेत पुरुषः शुचिर आत्मवान ॥ 27 ॥
इत्य एतद वचनं शरुत्वा मेदिन्या मधुसूदनः साधु साध्व इत्य अथेत्य उक्त्वा मेदिनीं परत्यपूजयत ॥ 28 ॥
एतां शरुत्वॊपमां पार्थ परयतॊ बराह्मणर्षभान सततं पूजयेथास तवं ततः शरेयॊ ऽभिपत्स्यसे ॥ 29 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 34
Reach this point to mark the section finished.
Continue to अध्याय 35