धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 30

  1. [भ] एवम उक्तॊ मतङ्गस तु भृशं शॊकपरायणः अतिष्ठत गयां गत्वा सॊ ऽङगुष्ठेन शतं समाः ॥ 1 ॥

  2. सुदुष्करं वहन यॊगं कृशॊ धमनि संततः तवग अस्थि भूतॊ धर्मात्मा स पपातेति नः शरुतम ॥ 2 ॥

  3. तं पतन्तम अभिद्रुत्य परिजग्राह वासवः वराणाम ईश्वरॊ दाता सर्वभूतहिते रतः ॥ 3 ॥

  4. [षक्र] मतङ्ग बराह्मणत्वं ते संवृतं परिपन्थिभिः पूजयन सुखम आप्नॊति दुःखम आप्नॊत्य अपूजयन ॥ 4 ॥

  5. बराह्मणे सर्वभूतानां यॊगक्षेमः समाहितः बराह्मणेभ्यॊ ऽनुतृप्यन्ति पितरॊ देवतास तथा ॥ 5 ॥

  6. बराह्मणः सर्वभूतानां मतङ्ग पर उच्यते बराह्मणः कुरुते तद धि यथा यद यच च वाञ्छति ॥ 6 ॥

  7. बह्वीस तु संसरन यॊनीर जायमानः पुनः पुनः पर्याये तात कस्मिंश चिद बराह्मण्यम इह विन्दति ॥ 7 ॥

  8. [म] किं मां तुदसि दुःखार्तं मृतं मारयसे च माम तं तु शॊचामि यॊ लब्ध्वा बरह्मण्यं न बुभूषते ॥ 8 ॥

  9. बराह्मण्यं यदि दुष्प्रापं तरिभिर वर्णैः शतक्रतॊ सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ॥ 9 ॥

  10. यः पापेभ्यः पापतमस तेषाम अधम एव सः बराह्मण्यं यॊ ऽवजानीते धनं लब्ध्वेव दुर्लभम ॥ 10 ॥

  11. दुष्प्रापं खलु विप्रत्वं पराप्तं दुरनुपालनम दुरवापम अवाप्यैतन नानुतिष्ठन्ति मानवाः ॥ 11 ॥

  12. एकारामॊ हय अहं शक्र निर्द्वंद्वॊ निष्परिग्रहः अहिंसा दमदानस्थः कथं नार्हामि विप्रताम ॥ 12 ॥

  13. यथा कामविहारी सयां कामरूपी विहंगमः बरह्मक्षत्राविरॊधेन पूजां च पराप्नुयाम अहम यथा ममाक्षया कीर्तिर भवेच चापि पुरंदर ॥ 13 ॥

  14. [इन्द्र] छन्दॊ देव इति खयातः सत्रीणां पूज्यॊ भविष्यसि ॥ 14 ॥

  15. [बः] एवं तस्मै वरं दत्त्वा वासवॊ ऽनतरधीयत पराणांस तयक्त्वा मतङ्गॊ ऽपि पराप तत सथानम उत्तमम ॥ 15 ॥

  16. एवम एतत परं सथानं बराह्मण्यं नाम भारत तच च दुष्प्रापम इह वै महेन्द्र वचनं यथा ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 31

Previous: अध्याय 29