[भ] एवम उक्तॊ मतङ्गस तु संशितात्मा यतव्रतः अतिष्ठद एकपादेन वर्षाणां शतम अच्युत ॥ 1 ॥
तम उवाच ततः शक्रः पुनर एव महायशाः मतङ्ग परमं सथानं परार्थयन्न अतिदुर्लभम ॥ 2 ॥
मा कृथाः साहसं पुत्र नैष धर्मपथस तव अप्राप्यं परार्थयानॊ हि नचिराद विनशिष्यसि ॥ 3 ॥
मतङ्ग परमं सथानं वार्यमाणॊ मया सकृत चिकीर्षस्य एव तपसा सर्वथा न भविष्यसि ॥ 4 ॥
तिर्यग्यॊनिगतः सर्वॊ मानुष्यं यदि गच्छति स जायते पुल्कसॊ वा चण्डालॊ वा कदा चन ॥ 5 ॥
पुंश्चलः पापयॊनिर वा यः कश चिद इह लक्ष्यते स तस्याम एव सुचिरं मतङ्ग परिवर्तते ॥ 6 ॥
ततॊ दशगुणे काले लभते शूद्रताम अपि शूद्रयॊनाव अपि ततॊ बहुशः परिवर्तते ॥ 7 ॥
ततस तरिंशद गुणे काले लभते वैश्यताम अपि वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥ 8 ॥
ततः षष्टिगुणे काले राजन्यॊ नाम जायते राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥ 9 ॥
ततः षष्टिगुणे काले लभते बरह्म बन्धुताम बरह्म बन्धुश चिरं कालं तत्रैव परिवर्तते ॥ 10 ॥
ततस तु दविशते काले लभते काण्डपृष्ठताम काण्डपृष्ठश चिरं कालं तत्रैव परिवर्तते ॥ 11 ॥
ततस तु तरिशते काले लभते दविजताम अपि तां च पराप्य चिरं कालं तत्रैव परिवर्तते ॥ 12 ॥
ततश चतुःशते काले शरॊत्रियॊ नाम जायते शरॊत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥ 13 ॥
तदैव करॊधहर्षौ च कामद्वेषौ च पुत्रक अतिमानातिवादौ तम आविशन्ति दविजाधमम ॥ 14 ॥
तांश चेज जयति शत्रून स तदा पराप्नॊति सद गतिम अथ ते वै जयन्त्य एनं तालाग्राद इव पात्यते ॥ 15 ॥
मतङ्ग संप्रधार्यैतद यद अहं तवाम अचूदुदम वृणीष्व कामम अन्यं तवं बराह्मण्यं हि सुदुर्लभम ॥ 16 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30