[य] परज्ञा शरुताभ्यां वृत्तेन शीलेन च यथा भवान गुणैः समुदितः सर्वैर वयसा च समन्वितः तस्माद भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥ 1 ॥
कषत्रियॊ यदि वा वैश्यः शूद्रॊ वा राजसत्तम बराह्मण्यं पराप्नुयात केन तन मे वयाख्यातुम अर्हसि ॥ 2 ॥
तपसा वा सुमहता कर्मणा वा शरुतेन वा बराह्मण्यम अथ चेद इच्छेत तन मे बरूहि पितामह ॥ 3 ॥
[भ] बराह्मण्यं तात दुष्प्रापं वर्णैः कषत्रादिभिस तरिभिः परं हि सर्वभूतानां सथानम एतद युधिष्ठिर ॥ 4 ॥
बह्वीस तु संसरन यॊनीर जायमानः पुनः पुनः पर्याये तात कस्मिंश चिद बराह्मणॊ नाम जायते ॥ 5 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मतङ्गस्य च संवाद्म गर्दभ्याश च युधिष्ठिर ॥ 6 ॥
दविजातेः कस्य चित तात तुल्यवर्णः सुतः परभुः मतङ्गॊ नाम नाम्नाभूत सर्वैः समुदितॊ गुणैः ॥ 7 ॥
स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप परायाद गर्दभ युक्तेन रथेनेहाशु गामिना ॥ 8 ॥
स बालं गर्दभं राजन वहन्तं मातुर अन्तिके निरविध्यत परतॊदेन नासिकायां पुनः पुनः ॥ 9 ॥
तं तु तीव्रव्रणं देष्ट्वा गर्दभी पुत्रगृद्धिनी उवाच मा शुचः पुत्र चण्डालस तवाधितिष्ठति ॥ 10 ॥
बराह्मणे दारुणं नास्ति मैत्रॊ बराह्मण उच्यते आचार्यः सर्वभूतानां शाता किं परहरिष्यति ॥ 11 ॥
अयं तु पापप्रकृतिर बाले न कुरुते दयाम सवयॊनिं मानयत्य एष भावॊ भावं निगच्छति ॥ 12 ॥
एतच छरुत्वा मतङ्गस तु दारुणं रासभी वचः अवतीर्य रथात तूर्णं रासभीं परत्यभाषत ॥ 13 ॥
बरूहि रासभि कल्याणि माता मे येन दूषिता कथं मां वेत्सि चण्डालं कषिप्रं रासभि शंस मे ॥ 14 ॥
केन जातॊ ऽसमि चण्डालॊ बराह्मण्यं येन मे ऽनशत तत्त्वेनैतन महाप्राज्ञे बरूहि सर्वम अशेषतः ॥ 15 ॥
[गर्दभी] बराह्मण्यां वृषलेन तवं मत्तायां नापितेन ह जातस तवम असि चण्डालॊ बराह्मण्यं तेन ते ऽनशत ॥ 16 ॥
एवम उक्तॊ मतङ्गस तु परत्युपायाद गृहं परति तम आगतम अभिप्रेक्ष्य पिता वाक्यम अथाब्रवीत ॥ 17 ॥
मया तवं यज्ञसंसिद्धौ नियुक्तॊ गुरु कर्मणि कस्मात परतिनिवृत्तॊ ऽसि कच चिन न कुशलं तव ॥ 18 ॥
[म] अयॊनिर अग्र्ययॊनिर वा यः सयात स कुशली भवेत कुशलं तु कुतस तस्य यस्येयं जननी पितः ॥ 19 ॥
बराह्मण्यां वृषलाज जातं पितर वेदयतीह माम अमानुषी गर्दभीयं तस्मात तप्स्ये तपॊ महत ॥ 20 ॥
एवम उक्त्वा स पितरं परतस्थे कृतनिश्चयः ततॊ गत्वा महारण्यम अतप्यत महत तपः ॥ 21 ॥
ततः संतापयाम आस विबुधांस तपसान्वितः मतङ्गः सुसुखं परेप्सुः सथानं सुचरिताद अपि ॥ 22 ॥
तं तथा तपसा युक्तम उवाच हरिवाहनः मतङ्ग तप्यसे किं तवं भॊगान उत्सृज्य मानुषान ॥ 23 ॥
वरं ददानि ते हन्त वृणीष्व तवं यद इच्छति यच चाप्य अवाप्यम अन्यत ते सर्वं परब्रूहि माचिरम ॥ 24 ॥
[म] बराह्मण्यं कामयानॊ ऽहम इदम आरब्धवांस तपः गच्छेयं तद अवाप्येह वर एष वृतॊ मया ॥ 25 ॥
एतच छरुत्वा तु वचनं तम उवाच पुरंदरः बराह्मण्यं परार्थयानस तवम अप्राप्यम अकृतात्मभिः ॥ 26 ॥
शरेष्ठं यत सर्वभूतेषु तपॊ यन नातिवर्तते तदग्र्यं परार्थयानस तवम अचिराद विनशिष्यसि ॥ 27 ॥
देवतासुरमर्त्येषु यत पवित्रं परं समृतम चण्डाल यॊनौ जातेन न त पराप्यं कथं चन ॥ 28 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 28
Reach this point to mark the section finished.
Continue to अध्याय 29