[व] बृहस्पतिसमं बुद्ध्या कषमया बरह्मणः समम पराक्रमे शक्रसमम आदित्यसमतेजसम ॥ 1 ॥
गाङ्गेयम अर्जुनेनाजौ निहतं भूरि वर्चसम भरातृभिः सहितॊ ऽनयैश च पर्युपास्ते युधिष्ठिरः ॥ 2 ॥
शयानं वीरशयने कालाकाङ्क्षिणम अच्युतम आजग्मुर भरतश्रेष्ठं दरष्टुकामा महर्षयः ॥ 3 ॥
अत्रिर वसिष्ठॊ ऽथ भृगुः पुलस्त्यः पुलहः करतुः अङ्गिरा गौतमॊ ऽगस्त्यः सुमतिः सवायुर आत्मवान ॥ 4 ॥
विश्वामित्रः सथूलशिराः संवर्तः परमतिर दमः उशना बृहस्पतिर वयासश चयवनः काश्यपॊ धरुवः ॥ 5 ॥
दुर्वासा जमदग्निश च मार्कण्डेयॊ ऽथ गालवः भरद्वाजश च रैभ्यश च यवक्रीतस तरितस तथा ॥ 6 ॥
सथूलाक्षः शकलाक्षश च कण्वॊ मेधातिथिः कृशः नारदः पर्वतश चैव सुधन्वाथैकतॊ दवितः ॥ 7 ॥
नितम्भूर भुवनॊ धौम्यः शतानन्दॊ ऽकृतव्रणः जामदग्न्यस तथा रामः काम्यश चेत्य एवमादयः समागता महात्मानॊ भीष्मं दरष्टुं महर्षयः ॥ 8 ॥
तेषां महात्मनां पूजाम आगतानां युधिष्ठिरः भरातृभिः सहितश चक्रे यथावद अनुपूर्वशः ॥ 9 ॥
ते पूजिताः सुखासीनाः कथश चक्रुर महर्षयः भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनॊहराः ॥ 10 ॥
भीष्मस तेषां कथाः शरुत्वा ऋषीणां भावितात्मनाम मेने दिविस्थम आत्मानं तुष्ट्या परमया युतः ॥ 11 ॥
ततस ते भीष्मम आमन्त्र्य पाण्डवांश च महर्षयः अन्तर्धानं गताः सर्वे सर्वेषाम एव पश्यताम ॥ 12 ॥
तान ऋषीन सुमहाभागान अन्तर्धानगतान अपि पाण्डवास तुष्टुवुः सर्वे परणेमुश च मुहुर मुहुः ॥ 13 ॥
परसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः उपतस्थुर यथॊद्यन्तम आदित्यं मन्त्रकॊविदाः ॥ 14 ॥
परभावात तपसस तेषाम ऋषीणां वीक्ष्य पाण्डवाः परकाशन्तॊ दिशः सर्वा विस्मयं परमं ययुः ॥ 15 ॥
महाभाग्यं परं तेषाम ऋषीणाम अनुचिन्त्य ते पांडवाः सह भीष्मेण कथाश चक्रुस तदाश्रयाः ॥ 16 ॥
कथान्ते शिरसा पादौ सपृष्ट्वा भीष्मस्य पाण्डवः धर्म्यं धर्मसुतः परश्नं पर्यपृच्छद युधिष्ठिरः ॥ 17 ॥
के देशाः के जनपदा आश्रमाः के च पर्वताः परकृष्टाः पुण्यतः काश च जञेया नद्यः पितामह ॥ 18 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शिलॊञ्छ वृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ 19 ॥
इमां कश चित परिक्रम्य पृथिवीं शैलभूषिताम असकृद दविपदां शरेष्ठः शरेष्ठस्य गृहमेधिनः ॥ 20 ॥
शिल वृत्तेर गृहं पराप्तः स तेन विधिनार्चितः कृतकृत्य उपातिष्ठत सिद्धं तम अतिथिं तदा ॥ 21 ॥
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः चक्रतुर वेद संबद्धास तच छेष कृतलक्षणाः ॥ 22 ॥
शिल वृत्तिः कथान्ते तु सिद्धम आमन्त्र्य यत्नतः परश्नं पप्रच्छ मेधावी यन मां तवं परिपृच्छसि ॥ 23 ॥
[षिलवृत्ति] के देशाः के जनपदाः के ऽऽशरमाः के च पर्वताः परकृष्टाः पुण्यतः काश च जञेया नद्यस तद उच्यताम ॥ 24 ॥
[सिद्ध] ते देशास ते जनपदास ते ऽऽशरमास ते च पर्वताः येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ 25 ॥
तपसा बरह्मचर्येण यज्ञैस तयागेन वा पुनः गतिं तां न लभेज जन्तुर गङ्गां संसेव्य यां लभेत ॥ 26 ॥
सपृष्टानि येषां गाङ्गेयैस तॊयैर गात्राणि देहिनाम नयस्तानि न पुनस तेषां तयागः सवर्गाद विधीयते ॥ 27 ॥
सर्वाणि येषां गाङ्गेयैस तॊयैः कृत्यानि देहिनाम गां तयक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते ऽचलाः ॥ 28 ॥
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः पश्चाद गङ्गां निषेवन्ते ते ऽपि यान्त्य उत्तमां गतिम ॥ 29 ॥
सनातानां शुचिभिस तॊयैर गाङ्गेयैः परयतात्मनाम वयुष्टिर भवति या पुंसां न सा करतुशतैर अपि ॥ 30 ॥
यावद अस्थि मनुष्यस्य गङ्गातॊयेषु तिष्ठति तावद वर्षसहस्राणि सवर्गं पराप्य महीयते ॥ 31 ॥
अपहत्य तमस तीव्रं यथा भात्य उदये रविः तथापहत्य पाप्मानं भाति गङ्गा जलॊक्षितः ॥ 32 ॥
विसॊमा इव शर्वर्यॊ विपुष्पास तरवॊ यथा तद्वद देशा दिशश चैव हीना गङ्गा जलैः शुभैः ॥ 33 ॥
वर्णाश्रमा यथा सर्वे सवधर्मज्ञानवर्जिताः ऋतवश च यथा सॊमास तथा गङ्गां विना जगत ॥ 34 ॥
यथा हीनं नभॊ ऽरकेण भूः शैलैः खं च वायुना तथा देशा दिशश चैव गङ्गा हीना न संशयः ॥ 35 ॥
तरिषु लॊकेषु ये के चित पराणिनः सर्व एव ते तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गा जलैः शुभैः ॥ 36 ॥
यस तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम गवां निर्हार निर्मुक्ताद यावकात तद विशिष्यते ॥ 37 ॥
इन्द्र वरतसहस्रं तु चरेद यः कायशॊधनम पिबेद यश चापि गङ्गाम्भः समौ सयातां न वा समौ ॥ 38 ॥
तिष्ठेद युगसहस्रं तु पादेनैकेन यः पुमान मासम एकं तु गङ्गायां समौ सयातां न वा समौ ॥ 39 ॥
लम्बेतावाक शिरा यस तु युगानाम अयुतं पुमान तिष्ठेद यथेष्टं यश चापि गङ्गायां स विशिष्यते ॥ 40 ॥
अग्नौ पराप्तं परधूयेत यथा तूलं दविजॊत्तम तथा गङ्गावगाढस्य सर्वं पापं परधूयते ॥ 41 ॥
भूतानाम इह सर्वेषां दुःखॊपहत चेतसाम गतिम अन्वेषमाणानां न गङ्गा सदृशी गतिः ॥ 42 ॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात गङ्गाया दर्शनात तद्वत सर्वपापैः परमुच्यते ॥ 43 ॥
अप्रतिष्ठाश च ये के चिद अधर्मशरणाश च ये तेषां परतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ 44 ॥
परकृष्टैर अशुभैर गरस्तान अनेकैः पुरुषाधमान पतते नरके गङ्गा संश्रितान परेत्य तारयेत ॥ 45 ॥
ते संविभक्ता मुनिभिर नूनं देवैः स वासवैः ये ऽभिगच्छन्ति सततं गङ्गाम अभिगतां सुरैः ॥ 46 ॥
विनयाचार हीनाश च अशिवाश च नराधमाः ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥ 47 ॥
यथा सुराणाम अमृतं पितॄणां च यथा सवधा सुधा यथा च नागानां तथा गङ्गा जलं नृणाम ॥ 48 ॥
उपासते यथा बाला मातरं कषुधयार्दिताः शरेयः कामास तथा गङ्गाम उपासन्तीह देहिनः ॥ 49 ॥
सवायम्भुवं यथास्थानं सर्वेषां शरेष्ठम उच्यते सनातानां सरितां शरेष्ठा गङ्गा तद्वद इहॊच्यते ॥ 50 ॥
यथॊपजीविनां धेनुर देवादीनां धरा समृता तथॊपजीविनां गङ्गा सर्वप्राणभृताम इह ॥ 51 ॥
देवाः सॊमार्क संस्थानि यथा सत्रादिभिर मखैः अमृतान्य उपजीवन्ति तथा गङ्गा जलं नराः ॥ 52 ॥
जाह्नवी पुलिनॊत्थाभिः सिकताभिः समुक्षितः मन्यते पुरुषॊ ऽऽतमानं दिविष्ठम इव शॊभितम ॥ 53 ॥
जाह्नवीतीर संभूतां मृदं मूर्ध्ना विभर्ति यः बिभर्ति रूपं सॊ ऽरकस्य तमॊ नाशात सुनिर्मलम ॥ 54 ॥
गङ्गॊर्मिभिर अथॊ दिग्धः पुरुषं पवनॊ यदा सपृशते सॊ ऽपि पाप्मानं सद्य एवापमार्जति ॥ 55 ॥
वयसनैर अभितप्तस्य नरस्य विनशिष्यतः गङ्गा दर्शनजा परीतिर वयसनान्य अपकर्षति ॥ 56 ॥
हंसारावैः कॊक रवै रवैर अन्यैर्श च पक्षिणाम पस्पर्ध गङ्गा गन्धर्वान पुलिनैश च शिलॊच्चयान ॥ 57 ॥
हंसादिभिः सुबहुभिर विविधैः पक्षिभिर वृताम गङ्गां गॊकुलसंबाधां दृष्ट्वा सवर्गॊ ऽपि विस्मृतः ॥ 58 ॥
न सा परीतिर दिविष्ठस्य सर्वकामान उपाश्नतः अभवद या परा परीतिर गङ्गायाः पुलिने नृणाम ॥ 59 ॥
वान मनः कर्मजैर गरस्तः पापैर अपि पुमान इह वीक्ष्य गङ्गां भवेत पूतस तत्र मे नास्ति संशयः ॥ 60 ॥
सप्तावरान सप्त परान पितॄंस तेभ्यश च ये परे पुमांस तारयते गङ्गां वीक्ष्य सपृष्ट्वावगाह्य च ॥ 61 ॥
शरुताभिलषिता दृष्टा सपृष्टा पीतावगाहिता गङ्गा तारयते नॄणाम उभौ वंशौ विशेषतः ॥ 62 ॥
दर्शनात सपर्शनात पानात तथा गङ्गेति कीर्तनात पुनात्य अपुण्यान पुरुषाञ शतशॊ ऽथ सहस्रशः ॥ 63 ॥
य इच्छेत सफलं जन्म जीवितं शरुतम एव च स पितॄंस तर्पयेद गङ्गाम अभिगम्य सुरांस तथा ॥ 64 ॥
न सुतैर न च वित्तेन कर्मणा न च तत फलम पराप्नुयात पुरुषॊ ऽतयन्तं गङ्गां पराप्य यद आप्नुयात ॥ 65 ॥
जात्यन्धैर इह तुल्यास ते मृतैः पङ्गुभिर एव च समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम ॥ 66 ॥
भूतभव्य भविष्यज्ञैर महर्षिभिर उपस्थिताम देवैः सेन्द्रैश च कॊ गङ्गां नॊपसेवेत मानवः ॥ 67 ॥
वानप्रस्थैर गृहस्थैश च यतिभिर बरह्म चारिभिः विद्यावद्भिः शरितां गङ्गां पुमान कॊ नाम नाश्रयेत ॥ 68 ॥
उत्क्रामद्भिश च यः पराणैः परयतः शिष्टसंमतः चिन्तयेन मनसा गङ्गां स गतिं परमां लभेत ॥ 69 ॥
न भयेभ्यॊ भयं तस्य न पापेभ्यॊ न राजतः आ देहपतनाद गङ्गाम उपास्ते यः पुमान इह ॥ 70 ॥
गगनाद यां महापुण्यां पतन्तीं वै महेश्वरः दधार शिरसा देवीं ताम एव दिवि सेवते ॥ 71 ॥
अलंकृतास तरयॊ लॊकाः पथिभिर विमलैस तरिभिः यस तु तस्या जलं सेवेत कृतकृत्यः पुमान भवेत ॥ 72 ॥
दिवि जयॊतिर यथादित्यः पितॄणां चैव चन्द्रमाः देवेशश च यथा नॄणां गङ्गेह सरितां तथा ॥ 73 ॥
मात्रा पित्रा सुतैर दारैर वियुक्तस्य धनेन वा न भवेद धि तथा दुःखं यथा गङ्गा वियॊगजम ॥ 74 ॥
नारण्यैर नेष्ट विषयैर न सुतैर न धनागमैः तथा परसादॊ भवति गङ्गां वीक्ष्य यथा नृणाम ॥ 75 ॥
पूर्णम इन्दुं यथादृष्ट्वा नृणां दृष्टिः परसीदति गङ्गां तरिपथगां दृष्ट्वा तथा दृष्टिः परसीदति ॥ 76 ॥
तद्भावस तद्गतमनस तन्निष्ठस तत्परायणः गङ्गां यॊ ऽनुगतॊ भक्त्या स तस्याः परियतां वरजेत ॥ 77 ॥
भूःस्थैः खस्थैर दिविष्ठैश च भूतैर उच्चावचैर अपि गङ्गा विगाह्या सततम एत कार्यतमं सताम ॥ 78 ॥
तरिषु लॊकेषु पुण्यत्वाद गङ्गायाः परथितं यशः यत पुत्रान सगरस्यैषा भस्माख्यान अनयद दिवम ॥ 79 ॥
वाय्वीरिताभिः सुमहास्वनाभिर; दरुताभिर अत्यर्थ समुच्छ्रिताभिः गङ्गॊर्मिभिर भानुमतीभिर इद्धः; सहस्ररश्मि परतिमॊ विभाति ॥ 80 ॥
पयस्विनीं घृतिनीम अत्युदारां; समृद्धिनीं वेगिणीं दुर्विगाह्याम गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास ते विबुधैः समत्वम ॥ 81 ॥
अन्धाञ जडान दरव्यहीनांश च गङ्गा; यशस्विनी बृहती विश्वरूपा देवैः सेन्द्रैर मुनिभिर मानवैश च; निषेविता सर्वकामैर युनक्ति ॥ 82 ॥
ऊर्जावतीं मधुमतीं महापुण्यां तरिवर्त्मगाम तरिलॊकगॊप्त्रीं ये गङ्गां संश्रितास ते दिवं गताः ॥ 83 ॥
यॊ वत्स्यति दरक्ष्यति वापि मर्त्यस; तस्मै परयच्छन्ति सुखानि देवाः तद्भाविताः सपर्शने दर्शने यस; तस्मै देवा गतिम इष्टां दिशन्ति ॥ 84 ॥
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवाम ऋतां सुरसां सुप्रसन्नाम विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये तरिदिवं गतास ते ॥ 85 ॥
खयातिर यस्याः खं दिवं गां च नित्यं; पुरा दिशॊ विदिशश चावतस्थे तस्या जलं सेव्य सरिद वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ 86 ॥
इयं गङ्गेति नियतं परतिष्ठा; गुहस्य रुक्मस्य च गर्भयॊषा परातस तरिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतॊ विश्वतॊया ॥ 87 ॥
सुतावनीध्रस्य हरस्य भार्या; दिवॊ भुवश चापि कक्ष्यानुरूपा भव्या पृथिव्या भाविनी भाति राजन; गङ्गा लॊकानां पुण्यदा वै तरयाणाम ॥ 88 ॥
मधु परवाहा घृतरागॊद्धृताभिर; महॊर्मिभिः शॊभिता बराह्मणैश च दिवश चयुता शिरसात्ता भवेन; गङ्गावनीध्रास तरिदिवस्य माला ॥ 89 ॥
यॊनिर वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशॊदा विश्वावती चाकृतिर इष्टिर इद्धा; गङ्गॊक्षितानां भुवनस्य पन्थाः ॥ 90 ॥
कषान्त्या मह्या गॊपने धारणे च; दीप्त्या कृशानॊस तपनस्य चैव तुल्या गङ्गा संमता बराह्मणानां; गुहस्य बरह्मण्यतया च नित्यम ॥ 91 ॥
ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतॊयां मनसापि लॊके सर्वात्मना जाह्नवीं ये परपन्नास; ते बरह्मणः सदनं संप्रयाताः ॥ 92 ॥
लॊकान इमान नयति या जननीव पुत्रान; सर्वात्मना सर्वगुणॊपपन्ना सवस्थानम इष्टम इह बराह्मम अभीप्समानैर; गङ्गा सदैवात्म वशैर उपास्या ॥ 93 ॥
उस्रां जुष्टां मिषतीं विश्वतॊयाम; इरां वज्रीं रेवतीं भूधराणाम शिष्टाश्रयाम अमृतां बरह्म कान्तां; गङ्गां शरयेद आत्मवान सिद्धिकामः ॥ 94 ॥
परसाद्य देवान स विभून समस्तान; भगीरथस तपसॊग्रेण गङ्गाम गाम आनयत ताम अभिगम्य शश्वन; पुमान भयं नेह नामुत्र विद्यात ॥ 95 ॥
उदाहृतः सर्वथा ते गुणानां; मयैक देशः परसमीक्ष्य बुद्ध्या शक्तिर न मे का चिद इहास्ति वक्तुं; गुणान सर्वान परिमातुं तथैव ॥ 96 ॥
मेरॊः समुद्रस्य च सर्वरत्नैः; संख्यॊपलानाम उदकस्य वापि वक्तुं शक्यं नेह गङ्गा जलानां; गुणाख्यानं परिमातुं तथैव ॥ 97 ॥
तस्माद इमान परया शरद्धयॊक्तान; गुणान सर्वाञ जाह्नवीजांस तथैव भवेद वाचा मनसा कर्मणा च; भक्त्या युक्तः परया शरद्दधानः ॥ 98 ॥
लॊकान इमांस तरीन यशसा वितत्य; सिद्धिं पराप्य महतीं तां दुरापाम गङ्गा कृतान अचिरेणैव लॊकान; यथेष्टम इष्टान विचरिष्यसि तवम ॥ 99 ॥
तव मम च गुणैर महानुभावा; जुषतु मतिं सततं सवधर्मयुक्तैः अभिगत जनवत्सला हि गङ्गा; भजति युनक्ति सुखैश च भक्तिमन्तम ॥ 100 ॥
[भ] इति परममतिर गुणान अनेकाञ; शिल रतये तरिपथानुयॊग रूपान बहुविधम अनुशास्य तथ्य रूपान; गगनतलं दयुतिमान विवेश सिद्धः ॥ 101 ॥
शिलवृत्तिस तु सिद्धस्य वाक्यैः संबॊधितस तदा गङ्गाम उपास्य विधिवत सिद्धिं पराप्तः सुदुर्लभाम ॥ 102 ॥
तस्मात तवम अपि कौन्तेय भक्त्या परमया युतः गङ्गाम अभ्येहि सततं पराप्स्यसे सिद्धिम उत्तमाम ॥ 103 ॥
[व] शरुत्वेतिहासं भीष्मॊक्तं गङ्गायाः सतवसंयुतम युधिष्ठिरः परां परीतिम अगच्छद भरातृभिः सह ॥ 104 ॥
इतिहासम इमं पुण्यं शृणुयाद यः पठेत वा गङ्गायाः सतवसंयुक्तं स मुच्येत सर्वकिल्बिषैः ॥ 105 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 27
Reach this point to mark the section finished.
Continue to अध्याय 28