धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 26

  1. [य] तीर्थानां दर्शनं शरेयः सनानं च भरतर्षभ शरवणं च महाप्राज्ञ शरॊतुम इच्छामि तत्त्वतः ॥ 1 ॥

  2. पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ वक्तुम अर्हसि मे तानि शरॊतास्मि नियतः परभॊ ॥ 2 ॥

  3. [भ] इमम अङ्गिरसा परॊक्तं तीर्थवंशं महाद्युते शरॊतुम अर्हसि भद्रं ते पराप्स्यसे धर्मम उत्तमम ॥ 3 ॥

  4. तपॊवनगतं विप्रम अभिगम्य महामुनिम पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ॥ 4 ॥

  5. अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः तत सर्वं शरॊतुम इच्छामि तन मे शंस महामुने ॥ 5 ॥

  6. उपस्पृश्य फलं किं सयात तेषु तीर्थेषु वै मुने परेत्य भावे महाप्राज्ञ तद यथास्ति तथा वद ॥ 6 ॥

  7. [अ] सप्ताहं चन्द्र भागां वै वितस्ताम ऊर्मिमालिनीम विगाह्य वै निराहारॊ निर्ममॊ मुनिवद भवेत ॥ 7 ॥

  8. काश्मीर मण्डले नद्यॊ याः पतन्ति महानदम ता नदीः सिन्धुम आसाद्य शीलवान सवर्गम आप्नुयात ॥ 8 ॥

  9. पुष्करं च परभासं च नैमिषं सागरॊदकम देविकाम इन्द्र मार्गं च सवर्णबिन्दुं विगाह्य च विबॊध्यते विमानस्थः सॊ ऽपसरॊभिर अभिष्टुतः ॥ 9 ॥

  10. हिरण्यबिन्दुं विक्षॊभ्य परयतश चाभिवाद्य तम कुशे शयं च देवत्वं पूयते तस्य किल्बिषम ॥ 10 ॥

  11. इन्द्र तॊयां समासाद्य गन्धमादन संनिधौ करतॊयां कुरङ्गेषु तरिरात्रॊपॊषितॊ नरः अश्वमेधम अवाप्नॊति विगाह्य नियतः शुचिः ॥ 11 ॥

  12. गङ्गा दवरे कुशावर्ते बिल्वके नेमिपर्वते तथा कनखले सनात्वा धूतपाप्मा दिवं वरजेत ॥ 12 ॥

  13. अपां हरद उपस्पृश्य वाजपेयफलं लभेत बरह्म चारी जितक्रॊधः सत्यसंधस तव अहिंसकः ॥ 13 ॥

  14. यत्र भागीरथी गङ्गा भजते दिशम उत्तराम महेश्वरस्य निष्ठाने यॊ नरस तव अभिषिच्यते एकमासं निराहारः सवयं पश्यति देवताः ॥ 14 ॥

  15. सप्त गङ्गे तरिगङ्गे च इन्द्र मार्गे च तर्पयन सुधां वै लभते भॊक्तुं यॊ नरॊ जायते पुनः ॥ 15 ॥

  16. महाश्रम उपस्पृश्य यॊ ऽगनिहॊत्रपरः शुचिः एकमासं निराहारः सिद्धिं मासेन स वरजेत ॥ 16 ॥

  17. महाह्रद उपस्पृश्य भृगुतुङ्गे तव अलॊलुपः तरिरात्रॊपॊषितॊ भूत्वा मुच्यते बरह्महत्यया ॥ 17 ॥

  18. कन्या कूप उपस्पृश्य बलाकायां कृतॊदकः देवेषु कीर्तिं लभते यशसा च विराजते ॥ 18 ॥

  19. देशकाल उपस्पृश्य तथा सुन्दरिका हरदे अश्विभ्यां रूपवर्चस्यं परेत्य वै लभते नरः ॥ 19 ॥

  20. महागङ्गाम उपस्पृश्य कृत्तिकाङ्गारके तथा पक्षम एकं निराहारः सवर्गम आप्नॊति निर्मलः ॥ 20 ॥

  21. वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा निवासे ऽपसरसां दिव्ये कामचारी महीयते ॥ 21 ॥

  22. कालिकाश्रमम आसाद्य विपाशायां कृतॊदकः बरह्म चारी जितक्रॊधस तरिरात्रान मुच्यते भवात ॥ 22 ॥

  23. आश्रमे कृत्तिकानां तु सनात्वा यस तर्पयेत पितॄन तॊषयित्वा महादेवं निर्मलः सवर्गम आप्नुयात ॥ 23 ॥

  24. महापुर उपस्पृश्य तरिरात्रॊपॊषितॊ नरः तरसानां सथावराणां च दविपदानां भयं तयजेत ॥ 24 ॥

  25. देवदारु वने सनात्वा धूतपाप्मा कृतॊदकः देवलॊकम अवाप्नॊति सप्तरात्रॊषितः शुचिः ॥ 25 ॥

  26. कौशन्ते च कुश सतम्बे दरॊण शर्म पदे तथा आपः परपतने सनातः सेव्यते सॊ ऽपसरॊगणैः ॥ 26 ॥

  27. चित्रकूटे जनस्थाने तथा मन्दाकिनी जले विगाह्य वै निराहारॊ राजलक्ष्मीं निगच्छति ॥ 27 ॥

  28. शयामायास तव आश्रमं गत्वा उष्य चैवाभिषिच्य च तरींस तरिरात्रान स संधाय गन्धर्वनगरे वसेत ॥ 28 ॥

  29. रमण्यां च उपस्पृश्य तथा वै गन्धतारिके एकमासं निराहारस तव अन्तर्धानफलं लभेत ॥ 29 ॥

  30. कौशिकी दवारम आसाद्य वायुभक्षस तव अलॊलुपः एकविंशतिरात्रेण सवर्गम आरॊहते नरः ॥ 30 ॥

  31. मतङ्ग वाप्यां यः सनायाद एकरात्रेण सिध्यति विगाहति हय अनालम्बम अन्धकं वै सनातनम ॥ 31 ॥

  32. नैमिषे सवर्गतीर्थे च उपस्पृश्य जितेन्द्रियः फलं पुरुषमेधस्य लभेन मासं कृतॊदकः ॥ 32 ॥

  33. गङ्गा हरद उपस्पृश्य तथा चैवॊत्पला वने अश्वमेधम अवाप्नॊति तत्र मासं कृतॊदकः ॥ 33 ॥

  34. गङ्गायमुनयॊस तीर्थे तथा कालंजरे गिरौ षष्टिह्रद उपस्पृश्य दानं नान्यद विशिष्यते ॥ 34 ॥

  35. दश तीर्थसहस्राणि तिस्रः कॊट्यस तथापराः समागच्छन्ति माघ्यां तु परयागे भरतर्षभ ॥ 35 ॥

  36. माघमासं परयागे तु नियतः संशितव्रतः सनात्वा तु भरतश्रेष्ठ निर्मलः सवर्गम आप्नुयात ॥ 36 ॥

  37. मरुद्गण उपस्पृश्य पितॄणाम आश्रमे शुचिः वैवस्वतस्य तीर्थे च तीर्थभूतॊ भवेन नरः ॥ 37 ॥

  38. तथा बरह्मशिरॊ गत्वा भागीरथ्यां कृतॊदकः एकमासं निराहारः सॊमलॊकम अवाप्नुयात ॥ 38 ॥

  39. कपॊतके नरः सनात्वा अष्टावक्रे कृतॊदकः दवादशाहं निराहारॊ नरमेध फलं लभेत ॥ 39 ॥

  40. मुञ्ज पृष्ठं गयां चैव निरृतिं देव पर्वतम तृतीयां करौञ्चपादीं च बरह्महत्या विशुध्यति ॥ 40 ॥

  41. कलश्यां वाप्य उपस्पृश्य वेद्यां च बहुशॊ जलाम अग्नेः पुरे नरः सनात्वा विशालायां कृतॊदकः देव हरद उपस्पृश्य बरह्मभूतॊ विराजते ॥ 41 ॥

  42. पुरापवर्तनं नन्दां महानन्दां च सेव्य वै नन्दने सेव्यते दान्तस तव अप्सरॊभिर अहिंसकः ॥ 42 ॥

  43. उर्वशी कृत्तिका यॊगे गत्वा यः सुसमाहितः लौहित्ये विधिवत सनात्वा पुण्डरीकफलं लभेत ॥ 43 ॥

  44. रामह्रद उपस्पृश्य विशालायां कृतॊदकः दवादशाहं निराहारः कल्मषाद विप्रमुच्यते ॥ 44 ॥

  45. महाह्रद उपस्पृश्य शुद्धेन मनसा नरः एकमासं निराहारॊ जमदग्निगतिं लभेत ॥ 45 ॥

  46. विन्ध्ये संताप्य चात्मानं सत्यसंधस तव अहिंसकः षण मासं पदम आस्थाय मासेनैकेन शुध्यति ॥ 46 ॥

  47. नर्मदायाम उपस्पृश्य तथा सूर्पारकॊदके एकपक्षं निराहारॊ राजपुत्रॊ विधीयते ॥ 47 ॥

  48. जम्बू मार्गे तरिभिर मासैः संयतः सुसमाहितः अहॊरात्रेण चैकेन सिद्धिं समधिगच्छति ॥ 48 ॥

  49. कॊका मुखे विगाह्यापॊ गत्वा चण्डालिकाश्रमम शाकभक्षश चीरवासाः कुमारीर विन्दते दश ॥ 49 ॥

  50. वैवस्वतस्य सदनं न स गच्छेत कदा चन यस्य कन्या हरदे वासॊ देवलॊकं स गच्छति ॥ 50 ॥

  51. परभासे तव एकरात्रेण अमावास्यां समाहितः सिध्यते ऽतर महाबाहॊ यॊ नरॊ जायते पुनः ॥ 51 ॥

  52. उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे पिङ्गायाश चाश्रमे सनात्वा सर्वपापैः परमुच्यते ॥ 52 ॥

  53. कुल्यायां समुपस्पृश्य जप्त्वा चैवाघ मर्षणम अश्वमेधम अवाप्नॊति तरिरात्रॊपॊषितः शुचिः ॥ 53 ॥

  54. पिण्डारक उपस्पृश्य एक रात्रॊषितॊ नरः अग्निष्टॊमम अवाप्नॊति परभातां शर्वरीं शुचिः ॥ 54 ॥

  55. तथा बरह्मसरॊ गत्वा धर्मारण्यॊपशॊभितम पुण्डरीकम अवाप्नॊति परभातां शर्वरीं शुचिः ॥ 55 ॥

  56. मैनाके पर्वते सनात्वा तथा संध्याम उपास्य च कामं जित्वा च वै मासं सर्वमेध फलं लभेत ॥ 56 ॥

  57. विख्यातॊ हिमवान पुण्यः शंकरश्वशुरॊ गिरिः आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ 57 ॥

  58. शरीरम उत्सृजेत तत्र विधिपूर्वम अनाशके अध्रुवं जीवितं जञात्वा यॊ वै वेदान्तगॊ दविजः ॥ 58 ॥

  59. अभ्यर्च्य देवतास तत्र नमस्कृत्य मुनींस तथा ततः सिद्धॊ दिवं गच्छेद बरह्मलॊकं सनातनम ॥ 59 ॥

  60. कामं करॊधं च लॊभं च यॊ जित्वा तीर्थम आवसेत न तेन किं चिन न पराप्तं तीर्थाभिगमनाद भवेत ॥ 60 ॥

  61. यान्य अगम्यानि तीर्थानि दुर्गाणि विषमाणि च मनसा तानि गम्यानि सर्वतीर्थसमासतः ॥ 61 ॥

  62. इदं मेध्यम इदं धन्यम इदं सवर्ग्यम इदं सुखम इदं रहस्यं देवानाम आप्लाव्यानां च पावनम ॥ 62 ॥

  63. इदं दद्याद दविजातीनां साधूनाम आत्मजस्य वा सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य वा ॥ 63 ॥

  64. दत्तवान गौतमस्येदम अङ्गिरा वै महातपाः गुरुभिः समनुज्ञातः काश्यपेन च धीमता ॥ 64 ॥

  65. महर्षीणाम इदं जप्यं पावनानां तथॊत्तमम जपंश चाभ्युत्थितः शश्वन निर्मलः सवर्गम आप्नुयात ॥ 65 ॥

  66. इदं यश चापि शृणुयाद रहस्यं तव अङ्गिरॊ मतम उत्तमे च कुले जन्म लभेज जातिं च संस्मरेत ॥ 66 ॥

Reach this point to mark the section finished.

Continue to अध्याय 27

Previous: अध्याय 25