धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 23

  1. [य] किम आहुर भरतश्रेष्ठ पात्रं विप्राः सनातनम बराह्मणं लिङ्गिनं चैव बराह्मणं वाप्य अलिङ्गिनम ॥ 1 ॥

  2. [भ] सववृत्तिम अभिपन्नाय लिङ्गिने वेतराय वा देयम आहुर महाराज उभाव एतौ तपस्विनौ ॥ 2 ॥

  3. [य] शरद्धया परया पूतॊ यः परयच्छेद दविजातये हव्यं कव्यं तथा दानं कॊ दॊषः सयात पितामह ॥ 3 ॥

  4. [भ] शरद्धा पूतॊ नरस तात दुर्दान्तॊ ऽपि न संशयः पूतॊ भवति सर्वत्र किं पुनस तवं महीपते ॥ 4 ॥

  5. [य] न बराह्मणं परीक्षेत दैवेषु सततं नरः कव्य परदाने तु बुधाः परीक्ष्यं बराह्मणं विदुः ॥ 5 ॥

  6. [भ] न बराह्मणः साधयते हव्यं दैवात परसिध्यति देवप्रसादाद इज्यन्ते यजमाना न संशयः ॥ 6 ॥

  7. बराह्मणा भरतश्रेष्ठ सततं बरह्मवादिनः मार्कण्डेयः पुरा पराह इह लॊकेषु बुद्धिमान ॥ 7 ॥

  8. [य] अपूर्वॊ ऽपय अथ वा विद्वान संबन्धी वाथ यॊ भवेत तपस्वी यज्ञशीलॊ वा कथं पात्रं भवेत तु सः ॥ 8 ॥

  9. [भ] कुलीनः कर्म कृद वैद्यस तथा चाप्य आनृशंस्यवान हरीमान ऋजुः सत्यवादी पात्रं पूर्वे च ते तरयः ॥ 9 ॥

  10. तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम पृथिव्याः काश्यपस्याग्नेर मार्कण्डेयस्य चैव हि ॥ 10 ॥

  11. [पृथिवी] यथा महार्णवे कषिप्तः कषिप्रं लॊष्टॊ विनश्यति तथा दुश्चरितं सर्वं तरय्य आवृत्त्या विनश्यति ॥ 11 ॥

  12. [क] सर्वे च वेदाः सह षद्भिर अङ्गैः; सांख्यं पुराणं च कुले च जन्म नैतानि सर्वाणि गतिर भवन्ति; शीलव्यपेतस्य नरस्य राजन ॥ 12 ॥

  13. [अग्नि] अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम बरह्मन स तेनाचरते बरह्महत्यां; लॊकास तस्य हय अन्तवन्तॊ भवन्ति ॥ 13 ॥

  14. [म] अश्वमेध सहस्रं च सत्यं च तुलया धृतम नाभिजानामि यद्य अस्य सत्यस्यार्धम अवाप्नुयात ॥ 14 ॥

  15. [भ] इत्य उक्त्वा ते जग्मुर आशु चत्वारॊ ऽमिततेजसः पृथिवी काश्यपॊ ऽगनिश च परकृष्टायुश च भार्गवः ॥ 15 ॥

  16. [य] यद इदं बराह्मणा लॊके वरतिनॊ भुञ्जते हविः भुक्तं बराह्मण कामाय कथं तत सुकृतं भवेत ॥ 16 ॥

  17. [भ] आदिष्टिनॊ ये राजेन्द्र बराह्मणा वेदपारगाः भुञ्जते बरह्म कामाय वरतलुप्ता भवन्ति ते ॥ 17 ॥

  18. [य] अनेकान्तं बहु दवारं धर्मम आहुर मनीषिणः किं निश्चितं भवेत तत्र तन मे बरूहि पितामह ॥ 18 ॥

  19. [भ] अहिंसा सत्यम अक्रॊध आनृशंस्यं दमस तथा आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम ॥ 19 ॥

  20. ये तु धर्मं परशंसन्तश चरन्ति पृथिवीम इमाम अनाचरन्तस तद धर्मं संकरे निरताः परभॊ ॥ 20 ॥

  21. तेभ्यॊ रत्नं हिरण्यं वा गाम अश्वान वा ददाति यः दशवर्षाणि विष्ठां स भुङ्क्ते निरयम आश्रितः ॥ 21 ॥

  22. मेदानां पुल्कसानां च तथैवान्तावसायिनाम कृतं कर्माकृतं चापि रागमॊहेन जल्पताम ॥ 22 ॥

  23. वैश्वदेवं च ये मूढा विप्राय बरह्मचारिणे ददतीह न राजेन्द्र ते लॊकान भुञ्जते ऽशुभान ॥ 23 ॥

  24. [य] किं परं बरह्मचर्यस्य किं परं धर्मलक्षणम किं च शरेष्ठतमं शौचं तन मे बरूहि पितामह ॥ 24 ॥

  25. [भ] बरह्मचर्यं परं तात मधु मांसस्य वर्जनम मर्यादायां सथितॊ धर्मः शमः शौचस्य लक्षणम ॥ 25 ॥

  26. [य] कस्मान काले चरेद धर्मं कस्मिन काले ऽरथम आचरेत कसिं काले सुखी च सयात तन मे बरूहि पितामह ॥ 26 ॥

  27. [भ] काल्यम अर्थं निषेवेत ततॊ धर्मम अनन्तरम पश्चात कामं निषेवेत न च गच्छेत परसङ्गिताम ॥ 27 ॥

  28. बराह्मणांश चाभिमन्येत गुरूंश चाप्य अभिपूजयेत सर्वभूतानुलॊमश च मृदु शीलः परियंवदः ॥ 28 ॥

  29. अधिकारे यद अनृतं राजगामि च पैशुनम पुरॊश चालीक करणं समं तद बरह्महत्यया ॥ 29 ॥

  30. परहरेन न नरेन्द्रेषु न गां हन्यात तथैव च भरूण हत्या समं चैतद उभयं यॊ निषेवते ॥ 30 ॥

  31. नाग्निं परित्यजेज जातु न च वेदान परित्यजेत न च बराह्मणम आक्रॊशेत समं तद बरह्महत्यया ॥ 31 ॥

  32. [य] कीदृशाः साधवॊ विप्राः केभ्यॊ दत्तं महाफलम कीदृशानां च भॊक्तव्यं तन मे बरूहि पितामह ॥ 32 ॥

  33. [भ] अक्रॊधना धर्मपराः सत्यनित्या दमे रताः तादृशाः साधवॊ विप्रास तेभ्यॊ दत्तं महाफलम ॥ 33 ॥

  34. अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः सर्वभूतहिता मैत्रास तेभ्यॊ दत्तं महाफलम ॥ 34 ॥

  35. अलुब्धाः शुचयॊ वैद्या हरीमन्तः सत्यवादिनः सवकर्मनिरता ये च तेभ्यॊ दत्तं महाफलम ॥ 35 ॥

  36. साङ्गांश च चतुरॊ वेदान यॊ ऽधीयीत दविजर्शभः षद्भ्यॊ निवृत्तः कर्मभ्यस तं पात्रम ऋषयॊ विदुः ॥ 36 ॥

  37. ये तव एवंगुणजातीयास तेभ्यॊ दत्तं महाफलम सहस्रगुणम आप्नॊति गुणार्हाय परदायकः ॥ 37 ॥

  38. परज्ञा शरुताभ्यां वृत्तेन शीलेन च समन्वितः तारयेत कुलं कृत्स्नम एकॊ ऽपीह दविजर्षभः ॥ 38 ॥

  39. गाम अश्वं वित्तम अन्नं वा तद विधे परतिपादयेत दरव्याणि चान्यनि तथा परेत्य भावे न शॊचति ॥ 39 ॥

  40. तारयेत कुलं कृत्स्नम एकॊ ऽपीह दविजॊत्तमः किम अङ्गपुनर एकं वै तस्मात पात्रं समाचरेत ॥ 40 ॥

  41. निशम्य च गुणॊपेतं बराह्मणं साधु संमतम दूराद आनाययेत कृत्ये सर्वतश चाभिपूजयेत ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 24

Previous: अध्याय 22