[य] शराध काले च दैवे च धर्मे चापि पितामह इच्छामीह तवयाख्यातं विहितं यत सुरर्षिभिः ॥ 1 ॥
[भ] दैवं पूर्वाह्णिके कुर्याद अपराह्णे तु पैतृकम मङ्गलाचार संपन्नः कृतशौचः परयत्नवान ॥ 2 ॥
मनुष्याणां तु मध्याह्ने परदद्याद उपपत्तितः कालहीनं तु यद दानं तं भागं रक्षसां विदुः ॥ 3 ॥
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम रजस्वराभिर दृष्टं च तं भागं सक्षसां विदुः ॥ 4 ॥
अवघुष्टं च यद भुक्तम अव्रतेन च भारत परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ 5 ॥
केशकीतावपतितं कषुतं शवभिर अवेक्षितम रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥ 6 ॥
निर ओंकारेण यद भुक्तं स शस्त्रेण च भारत दुरात्मना च यद भुक्तं तं भागं रक्षसां विदुः ॥ 7 ॥
परॊच्छिष्टं च यद भुक्तं परिभुक्तं च यद भवेत दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥ 8 ॥
गर्हितं निन्दितं चैव परिविष्टं स मन्युना दैवं वाप्य अथ वा पैत्र्यं तं भागं रक्षसां विदुः ॥ 9 ॥
मन्त्रहीनं करिया हीनं यच छराधं परिविष्यते तरिभिर वर्णैर नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ 10 ॥
आज्याहुतिं विना चैव यत किं चित परिविष्यते दुराचारैश च यद भुक्तं तं भागं रक्षसां विदुः ॥ 11 ॥
ये भागा रक्षसां परॊक्तास त उक्ता भरतर्षभ अत ऊर्ध्वं विसर्गस्य परीक्षां बराह्मणे शृणु ॥ 12 ॥
यावन्तः पतिता विप्रा जडॊन्मत्तास तथैव च दैवे वाप्य अथ वा पित्र्ये राजन नार्हन्ति केतनम ॥ 13 ॥
शवित्री कुष्ठी च कलीबश च तथा यक्ष्म हतश च यः अपस्मारी च यश चान्धॊ राजन नार्हन्ति सत्कृतिम ॥ 14 ॥
चिकित्सका देवलका वृथा नियमधारिणः सॊमविक्रयिणश चैव शराद्धे नार्हन्ति केतनम ॥ 15 ॥
गायना नर्तकाश चैव पलवका वादकास तथा कथका यॊधकाश चैव राजन नार्हन्ति केतनम ॥ 16 ॥
हॊतारॊ वृषलानां च वृषलाध्यापकास तथा तथा वृषल शिष्याश च राजन नार्हन्ति केतनम ॥ 17 ॥
अनुयॊक्ता च यॊ विप्रॊ अनुयुक्तश च भारत नार्हतस ताव अपि शराधं बरह्म विक्रयिणौ हि तौ ॥ 18 ॥
अग्रणीर यः कृतः पूर्वं वर्णावर परिग्रहः बराह्मणः सर्वविद्यॊ ऽपि राजन नार्हन्ति केतनम ॥ 19 ॥
अनग्नयश च ये विप्रा मृतनिर्यातकाश च ये सतेनाश च पतिताश चैव राजन नार्हन्ति केतनम ॥ 20 ॥
अपरिज्ञात पूर्वाश च गणपूर्वांश च भारत पुत्रिका पूर्वपुत्राश च शराद्धे नार्हन्ति केतनम ॥ 21 ॥
ऋण कर्ता च यॊ राजन यश च वार्धुषिकॊ दविजः पराणिविक्रय वृत्तिश च राजन नार्हन्ति केतनम ॥ 22 ॥
सत्रीपूर्वाः काण्डपृष्ठाश च यावन्तॊ भरतर्षभ अजपा बराह्मणाश चैव शराद्धे नार्हन्ति केतनम ॥ 23 ॥
शराद्धे दैवे च निर्दिष्टा बराह्मणा भरतर्षभ दातुः परतिग्रहीतुश च शृणुष्वानुग्रहं पुनः ॥ 24 ॥
चीर्ण वरता गुणैर युक्ता भवेयुर ये ऽपि कर्षकाः सावित्रीज्ञाः करियावन्तस ते राजन केतन कषमाः ॥ 25 ॥
कषात्रधर्मिणम अप्य आजौ केतयेत कुलजं दविजम न तव एव वणिजं तात शराद्धेषु परिकल्पयेत ॥ 26 ॥
अग्निहॊत्री च यॊ विप्रॊ गरामवासी च यॊ भवेत अस्तेनश चातिथिज्ञश च स राजन केतन कषमः ॥ 27 ॥
सावित्रीं जपते यस तु तरिकालं भरतर्षभ खिक्षा वृत्तिः करियावांश च स राजन केतन कषमः ॥ 28 ॥
उदितास्तमितॊ यश च तथैवास्तमितॊदितः अहिंस्रश चाल्पदॊषश च स राजन केतन कषमः ॥ 29 ॥
अकल्ककॊ हय अतर्कश च बराह्मणॊ भरतर्षभ स संज्ञॊ भैक्ष्य वृत्तिश च स राजन केतन कषमः ॥ 30 ॥
अव्रती कितवः सतेनः पराणिविक्रय्य अथॊ वणिक पश्चाच च पीतवान सॊमं स राजन केतन कषमः ॥ 31 ॥
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः भवेत सर्वातिथिः पश्चात स राजन केतन कषमः ॥ 32 ॥
बरह्म विक्रय निर्दिष्टं सत्रिया यच चार्जितं धनम अदेयं पितृदेवेभ्यॊ यच च कलैब्याद उपार्जितम ॥ 33 ॥
करियमाणे ऽपवर्गे तु यॊ दविजॊ भरतर्षभ न वयाहरति यद युक्तं तस्याधर्मॊ गवानृतम ॥ 34 ॥
शराद्धस्य बराह्मणः कालः पराप्तं दधिघृतं तथा सॊमक्षयश च मांसं च यद आरण्यं युधिष्ठिर ॥ 35 ॥
शराद्धापवर्गे विप्रस्य सवधा वै सवदिता भवेत कषत्रियस्याप्य अथॊ बरूयात परीयन्तां पितरस तव इति ॥ 36 ॥
अपवर्गे तु वैश्यस्य शराद्धकर्मणि भारत अक्षय्यम अभिधातव्यं सवस्ति शूद्रस्य भारत ॥ 37 ॥
पुण्याहवाचनं दैवे बराह्मणस्य विधीयते एतद एव निर ओंकारं कषत्रियस्य विधीयते वैश्यस्य चैव वक्तव्यं परीयन्तां देवता इति ॥ 38 ॥
कर्मणाम आनुपूर्वीं च विधिपूर्वकृतं शृणु जातकर्मादिकान सर्वांस तरिषु वर्णेषु भारत बरह्मक्षत्रे हि मन्त्रॊक्ता वैश्यस्य च युधिष्ठिर ॥ 39 ॥
विप्रस्य रशना मौञ्जी मौर्वी राजन्य गामिनी बाल्वजीत्य एव वैश्यस्य धर्म एष युधिष्ठिर ॥ 40 ॥
दातुः परतिग्रहीतुश च धर्माधर्माव इमौ शृणु बराह्मणस्यानृते ऽधर्मः परॊक्तः पातक संज्ञितः चतुर्गुणः कषत्रियस्य वैश्यस्याष्ट गुणः समृतः ॥ 41 ॥
नान्यत्र बराह्मणॊ ऽशनीयात पूर्वं विप्रेण केतितः यवीयान पशुहिंसायां तुल्यधर्मॊ भवेत स हि ॥ 42 ॥
अथ राजन्यवैश्याभ्यां यद्य अश्नीयात तु केतितः यवीयान पशुहिंसायां भागार्धं समवाप्नुयात ॥ 43 ॥
दैवं वाप्य अथ वा पित्र्यं यॊ ऽशनीयाद बराह्मणादिषु अस्नातॊ बराह्मणॊ राजंस तस्याधर्मॊ गवानृतम ॥ 44 ॥
आशौचॊ बराह्मणॊ राजन्यॊ ऽशनीयाद बराह्मणादिषु जञानपूर्वम अथॊ लॊभात तस्याधर्मॊ गवानृतम ॥ 45 ॥
अन्नेनान्नं च यॊ लिप्सेत कर्मार्थं चैव भारत आमन्त्रयति राजेन्द्र तस्याधर्मॊ ऽनृतं समृतम ॥ 46 ॥
अवेद वरतचारित्रास तरिभिर वर्णैर युधिष्ठिर मन्त्रवत परिविष्यन्ते तेष्व अधर्मॊ गवानृतम ॥ 47 ॥
[य] पित्र्यं वाप्य अथ वा दैवं दीयते यत पितामह एतद इच्छाम्य अहं शरॊतुं दत्तं येषु महाफलम ॥ 48 ॥
[भ] येषां दाराः परतीक्षन्ते सुवृष्टिम इव कर्षकाः उच्छेष परिशेषं हि तान भॊजय युधिष्ठिर ॥ 49 ॥
चारित्रनियता राजन्ये कृशाः कृश वृत्तयः अर्थिनश चॊपगच्छन्ति तेषु दत्तं महाफलम ॥ 50 ॥
तद भक्तास तद्गृहा राजंस तद धनास तद अपाश्रयाः अर्थिनश च भवन्त्य अर्थे तेषु दत्तं महाफलम ॥ 51 ॥
तस्करेभ्यः परेभ्यॊ वा ये भयार्ता युधिष्ठिर अर्थिनॊ भॊक्तुम इच्छन्ति तेषु दत्तं महाफलम ॥ 52 ॥
अकल्ककस्य विप्रस्य भैक्षॊत्कर कृतात्मनः बटवॊ यस्य भिक्षन्ति तेभ्यॊ दत्तं महाफलम ॥ 53 ॥
हृतस्वा हृतदाराश च ये विप्रा देशसंप्लवे अर्थार्थम अभिगच्छन्ति तेभ्यॊ दत्तं महाफलम ॥ 54 ॥
वरतिनॊ नियमस्थाश च ये विप्राः शरुतसंम्मताः तत समाप्त्य अर्थम इच्छन्ति तेषु दत्तं महाफलम ॥ 55 ॥
अव्युत्क्रान्ताश च धर्मेषु पाषण्ड समयेषु च कृश पराणाः कृश धनास तेषु दत्तं महाफलम ॥ 56 ॥
कृतसर्वस्वहरणा निर्दॊषाः परभविष्णुभिः सपृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम ॥ 57 ॥
तपस्विनस तपॊ निष्ठास तेषां भैक्ष चराश च ये अर्थिनः किं चिद इच्छन्ति तेषु दत्तं महाफलम ॥ 58 ॥
महाफलविधिर दाने शरुतस ते भरतर्षभ निरयं येन गच्छन्ति सवर्गं चैव हि तच छृणु ॥ 59 ॥
गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर ये ऽनृतं कथयन्ति सम ते वै निरयगामिनः ॥ 60 ॥
परदाराभिहर्तारः परदाराभिमर्शिनः परदारप्रयॊक्तारस ते वै निरयगामिनः ॥ 61 ॥
ये परस्वापहर्तारः परस्वानां च नाशकाः सूचकाश च परेषां ये ते वै निरयगामिनः ॥ 62 ॥
परपाणां च सभानां च संक्रमाणां च भारत अगाराणां च भेत्तारॊ नरा निरयगामिनः ॥ 63 ॥
अनाथां परमदं बालां वृद्धां भीतां तपस्विनाम वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ 64 ॥
वृत्तिच छेदं गृहच छेदं दारच छेदं च भारत मित्रच छेदं तथाशायास ते वै निरयगामिनः ॥ 65 ॥
सूचकाः संधिभेत्तारः परवृत्त्य उपजीवकाः अकृतज्ञाश च मित्राणां ते वै निरयगामिनः ॥ 66 ॥
पाषण्डा दूषकाश चैव समयानां च दूषकाः ये परत्यवसिताश चैव ते वै निरयगामिनः ॥ 67 ॥
कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम भेदैर ये वयपकर्षन्ति ते वै निरयगामिनः ॥ 68 ॥
पर्यश्नन्ति च ये दारान अग्निभृत्यातिथींस तथा उत्सन्नपितृदेवेज्यास ते वै निरयगामिनः ॥ 69 ॥
वेद विक्रयिणश चैव वेदानां चैव दूषकाः वेदानां लेखकाश चैव ते वै निरयगामिनः ॥ 70 ॥
चातुराश्रम्य बाह्याश च शरुतिबाह्याश च ये नराः विकर्मभिश च जीवन्ति ते वै निरयगामिनः ॥ 71 ॥
केशविक्रयिका राजन विषविक्रयिकाश च ये कषीरविक्रयिकाश चैव ते वै निरयगामिनः ॥ 72 ॥
बराह्मणानां गवां चैव कन्यानां च युधिष्ठिर ये ऽनतरं यान्ति कार्येषु ते वै निरयगामिनः ॥ 73 ॥
शस्त्रविक्रयकाश चैव कर्तारश च युधिष्ठिर शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ 74 ॥
शल्यैर वा शङ्कुभिर वापि शवभ्रैर वा भरतर्षभ ये मार्गम अनुरुन्धन्ति ते वै निरयगामिनः ॥ 75 ॥
उपाध्यायांश च भृत्यां च भक्तांश च भरतर्षभ ये तयजन्त्य असमर्थांस तांस ते वै निरयगामिनः ॥ 76 ॥
अप्राप्तदमकाश चैव नासानां वेधकास तथा बन्धकाश च पशूनां ये ते वै निरयगामिनः ॥ 77 ॥
अगॊप्तारश छल दरव्या बलिषड भागतत्पराः समर्थाश चाप्य अदातारस ते वै निरयगामिनः ॥ 78 ॥
कषान्तान दान्तांस तथा पराज्ञान दीर्घकालं सहॊषितान तयजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ 79 ॥
बालानाम अथ वृद्धानां दासानां चैव ये नराः अदत्त्वा भक्षयन्त्य अग्रे ते वै निरयगामिनः ॥ 80 ॥
एते पूर्वर्षिभिर दृष्टाः परॊक्ता निरयगामिनः भागिनः सवर्गलॊकस्य वक्ष्यामि भरतर्षभ ॥ 81 ॥
सर्वेष्व एव तु कार्येषु दैवपूर्वेषु भारत हन्ति पुत्रान पशून कृत्स्नान बराह्मणातिक्रमः कृतः ॥ 82 ॥
दानेन तपसा चैव सत्येन च युधिष्ठिर ये धर्मम अनुवर्तन्ते ते नराः सवर्गगामिनः ॥ 83 ॥
शुश्रूषाभिस तपॊभिश च शरुतम आदाय भारत ये परतिग्रह निःस्नेहास ते नराः सवर्गगामिनः ॥ 84 ॥
भयात पापात तथाबाधाद दारिद्र्याद वयाधिधर्षणात यत्कृते परतिमुच्यन्ते ते नराः सवर्गगामिनः ॥ 85 ॥
कषमावन्तश च धीराश च धर्मकार्येषु चॊत्थिताः मङ्गलाचार युक्ताश च ते नराः सवर्गगामिनः ॥ 86 ॥
निवृत्ता मधु मांसेभ्यः परदारेभ्य एव च निवृत्ताश चैव मद्येभस ते नराः सवर्गगामिनः ॥ 87 ॥
आश्रमाणां च कर्तारः कुलानां चैव भारत देशानां नगराणां च ते नराः सवर्गगामिनः ॥ 88 ॥
वस्त्राभरण दातारॊ भक्ष पानान्नदास तथा कुटुम्बानां च दातारस ते नराः सवर्गगामिनः ॥ 89 ॥
सर्वहिंसा निवृत्ताश च नराः सर्वसहाश च ये सर्वस्याश्रय भूताश च ते नराः सवर्गगामिनः ॥ 90 ॥
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः भरातॄणां चैव स सनेहास ते नराः सवर्गगामिनः ॥ 91 ॥
आढ्याश च बलवन्तश च यौवनस्थाश च भारत ये वै जितेन्द्रिया धीरास ते नराः सवर्गगामिनः ॥ 92 ॥
अपराद्धेषु स सनेहा मृदवॊ मित्रवत्सलाः आराधन सुखाश चापि ते नराः सवर्गगामिनः ॥ 93 ॥
सहस्रपरिवेष्टारस तथैव च सहस्रदाः तरातारश च सहस्राणां पुरुषाः सवर्गगामिनः ॥ 94 ॥
सुवर्णस्य च दातारॊ गवां च भरतर्षभ यानानां वाहनानां च ते नराः सवर्गगामिनः ॥ 95 ॥
वैवाहिकानां कन्यानां परेष्याणां च युधिष्ठिर दातारॊ वाससां चैव ते नराः सवर्गगामिनः ॥ 96 ॥
विहारावसथॊद्यान कूपाराम सभा परदाः वप्राणां चैव कर्तारस ते नराः सवर्गगामिनः ॥ 97 ॥
निवेशनानां कषृत्राणां वसतीनां च भारत दातारः परार्थितानां च ते नराः सवर्गगामिनः ॥ 98 ॥
रसानाम अथ बीजानां धान्यानां च युधिष्ठिर सवयम उत्पाद्य दातारः पुरुषाः सवर्गगामिनः ॥ 99 ॥
यस्मिन कस्मिन कुले जाता बहुपुत्राः शतायुषः सानुक्रॊशा जितक्रॊधाः पुरुषाः सवर्गगामिनः ॥ 100 ॥
एतद उक्तम अमुत्रार्थं दैवं पित्र्यं च भारत धर्माधर्मौ च दानस्य यथापूर्वर्षिभिः कृतौ ॥ 101 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 24
Reach this point to mark the section finished.
Continue to अध्याय 25