धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 22

  1. [य] न बिभेति कथं सा सत्री शापस्य परमद्युतेः कथं निवृत्तॊ भगवांस तद भवान परब्रवीतु मे ॥ 1 ॥

  2. [भ] अष्टावक्रॊ ऽनवपृच्छत तां रूपं विकुरुषे कथम न चानृतं ते वक्तव्यं बरूहि बराह्मण काम्यया ॥ 2 ॥

  3. [सत्री] दयावापृथिवी मात्रैषा काम्या बराह्मणसत्तम शृणुष्वावहितः सर्वं यद इदं सत्यविक्रम ॥ 3 ॥

  4. उत्तरां मां दिशं विद्धि दृष्टं सत्रीचापलं च ते अव्युत्थानेन ते लॊका जिताः सत्यपराक्रम ॥ 4 ॥

  5. जिज्ञासेयं परयुक्ता मे सथिरी कर्तुं तवानघ सथविराणाम अपि सत्रीणां बाधते मैथुन जवरः ॥ 5 ॥

  6. तुष्टः पिता महस ते ऽदय तथा देवाः स वासवाः स तव येन च कार्येण संप्राप्तॊ भगवान इह ॥ 6 ॥

  7. परेषितस तेन विप्रेण कन्यापित्रा दविजर्षभ तवॊपदेशं कर्तुं वै तच च सर्वं कृतं मया ॥ 7 ॥

  8. कषेमी गमिष्यसि गृहाञ शरमश च न भविष्यति कन्यां पराप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥ 8 ॥

  9. काम्यया पृष्टवांस तवं मां ततॊ वयाहृतम उत्तरम अनतिक्रमणीयैषा कृत्स्नैर लॊकैस तरिभिः सदा ॥ 9 ॥

  10. गच्छस्व सुकृतं कृत्वा किं वान्यच छरॊतुम इच्छसि यावद बरवीमि विप्रर्षे अष्टावक्र यथातथम ॥ 10 ॥

  11. ऋषिणा परसादिता चास्मि तव हेतॊर दविजर्षभ तस्य संमाननार्थं मे तवयि वाक्यं परभाषितम ॥ 11 ॥

  12. शरुत्वा तु वचनं तस्याः स विप्रः पराञ्जलिः सथितः अनुज्ञातस तया चापि सवगृहं पुनर आव्रजत ॥ 12 ॥

  13. गृहम आगम्य विश्रान्तः सवजनं परतिपूज्य च अभ्यगच्छत तं विप्रं नयायतः कुरुनन्दन ॥ 13 ॥

  14. पृष्टश च तेन विप्रेण दृष्टं तव एतन निदर्शनम पराह विप्रं तदा विप्रः सुप्रीतेनान्तर आत्मना ॥ 14 ॥

  15. भवताहम अनुज्ञातः परथितॊ गन्धमादनम तस्य चॊत्तरतॊ देशे दृष्टं तद दैवतं महत ॥ 15 ॥

  16. तया चाहम अनुज्ञातॊ भवांश चापि परकीर्तितः शरावितश चापि तद वाक्यं गृहम अभ्यागतः परभॊ ॥ 16 ॥

  17. तम उवाच ततॊ विप्रः परतिगृह्णीष्व मे सुताम नक्षत्रतिथि संयॊगे पात्रं हि मरमं भवान ॥ 17 ॥

  18. [भ] अष्टावक्रस तथेत्य उक्त्वा परतिगृह्य च तां परभॊ कन्यां परमधर्मात्मा परीतिमांश चाभवत तदा ॥ 18 ॥

  19. कन्यां तां परतिगृह्यैव भार्यां परमशॊभनाम उवास मुदितस तत्र आश्रमे सवे गतज्वरः ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21