धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 21

  1. [भ] अथ सा सत्री तम उक्त्वा तु विप्रम एवं भवत्व इति तैलं दिव्यम उपादाय सनानशाटीम उपानयत ॥ 1 ॥

  2. अनुज्ञाता च मुनिना सा सत्री तेन महात्मना अथास्य तैलेनाङ्गानि सर्वाण्य एवाभ्यमृक्षयत ॥ 2 ॥

  3. शनैश चॊत्सादितस तत्र सनानशालाम उपागमत भद्रासनं ततश चित्रम ऋषिर अन्वाविशन नवम ॥ 3 ॥

  4. अथॊपविष्टश च यदा तस्मिन भद्रासने तदा सनापयाम आस शनकैस तम ऋषिं सुखहस्तवत दिव्यं च विधिवच चक्रे सॊपचारं मुनेस तदा ॥ 4 ॥

  5. स तेन सुसुखॊष्णेन तस्या हस्तसुखेन च वयतीतां रजनीं कृत्स्नां नाजानात स महाव्रतः ॥ 5 ॥

  6. तत उत्थाय स मुनिस तदा परमविस्मितः पूर्वस्यां दिशि सूर्यं च सॊ ऽपश्यद उदितं दिवि ॥ 6 ॥

  7. तस्य बुद्धिर इयं किं नु मॊहस तत्त्वम इदं भवेत अथॊपास्य सहस्रांशुं किं करॊमीत्य उवाच ताम ॥ 7 ॥

  8. सा चामृतरसप्रख्यम ऋषेर अन्नम उपाहरत तस्य सवादुतयान्नस्य न परभूतं चकार सः वयगमच चाप्य अहः शेषं ततः संध्यागमत पुनः ॥ 8 ॥

  9. अथ सत्री भगवन्तं सा सुप्यताम इत्य अचॊदयत तत्रै वै शयने दिव्ये तस्य तस्याश च कल्पिते ॥ 9 ॥

  10. [अ] न भद्रे परदारेषु मनॊ मे संप्रसज्जति उत्तिष्ठ भद्रे भद्रं ते सवप वै विरमस्व च ॥ 10 ॥

  11. [भ] सा तदा तेन विप्रेण तथा धृत्या निवर्तिता सवतन्त्रास्मीत्य उवाचैनं न धर्मच छलम अस्ति ते ॥ 11 ॥

  12. [अ] नास्ति सवतन्त्रता सत्रीणाम अस्वतन्त्रा हि यॊषितः परजापतिमतं हय एतन न सत्री सवातन्त्र्यम अर्हति ॥ 12 ॥

  13. [सत्री] बाधते मैथुनं विप्र मम भक्तिं च पश्य वै अधर्मं पराप्स्यसे विप्र यन मां तवं नाभिनन्दसि ॥ 13 ॥

  14. [अ] हरन्ति दॊषजातानि नरं जातं यथेच्छकम परभवामि सदा धृत्या भद्रे सवं शयनं वरज ॥ 14 ॥

  15. [सत्री] शिरसा परणमे विप्र परसादं कर्तुम अर्हसि भूमौ निपतमानायाः शरणं भव मे ऽनघ ॥ 15 ॥

  16. यदि वा दॊषजातं तवं परदारेषु पश्यसि आत्मानं सपर्शयाम्य अद्य पाणिं गृह्णीष्व मे दविज ॥ 16 ॥

  17. न दॊषॊ भविता चैव सत्येनैतद बरवीम्य अहम सवतन्त्रां मां विजानीहि यॊ ऽधर्मः सॊ ऽसतु वै मयि ॥ 17 ॥

  18. [अ] सवतन्त्रा तवं कथं भद्रे बरूहि कारणम अत्र वै नास्ति लॊके हि का चित सत्री या वै सवातन्त्र्यम अर्हति ॥ 18 ॥

  19. पिता रक्षति कौमारे भर्ता रक्षति यौवने पुत्राश च सथविरी भावे न सत्री सवातन्त्र्यम अर्हति ॥ 19 ॥

  20. [सत्री] कौमारं बरह्मचर्यं मे कन्यैवास्मि न संशयः कुरु मा विमतिं विप्र शरद्धां विजहि मा मम ॥ 20 ॥

  21. [अ] यथा मम तथा तुभ्यं यथा तव तथा मम जिज्ञासेयम ऋषेस तस्य विघ्नः सत्यं नु किं भवेत ॥ 21 ॥

  22. आश्चर्यं परमं हीदं किं नु शरेयॊ हि मे भवेत दिव्याभरणवस्त्रा हि कन्येयं माम उपस्थिता ॥ 22 ॥

  23. किं तव अस्याः परमं रूपं जीर्णम आसीत कथं पुनः कन्या रूपम इहाद्यैव किम इहात्रॊत्तरं भवेत ॥ 23 ॥

  24. यथा पररं शक्तिधृतेर न वयुत्थास्ये कथं चन न रॊचये हि वयुत्थानं धृत्यैवं साधयाम्य अहम ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20