धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 19

  1. [य] यद इदं सहधर्मेति परॊच्यते भरतर्षभ पाणिग्रहण काले तु सत्रीणाम एतत कथं समृतम ॥ 1 ॥

  2. आर्ष एष भवेद धर्मः पराजापत्यॊ ऽथ वासुरः यद एतत सहधर्मेति पूर्वम उक्तं महर्षिभिः ॥ 2 ॥

  3. संदेहः सुमहान एष विरुद्ध इति मे मतिः इह यः सहधर्मॊ वै परेत्यायं विहितः कव नु ॥ 3 ॥

  4. सवर्गे मृतानां भवति सहधर्मः पितामह पूर्वम एकस तु मरियते कव चैकस तिष्ठते वद ॥ 4 ॥

  5. नाना कर्मफलॊपेता नाना कर्म निवासिनः नाना निरयनिष्ठान्ता मानुषा बहवॊ यदा ॥ 5 ॥

  6. अनृताः सत्रिय इत्य एवं सूत्रकारॊ वयवस्यति यदानृताः सत्रियास तात सहधर्मः कुतः समृतः ॥ 6 ॥

  7. अनृताः सत्रिय इत्य एवं वेदेष्व अपि हि पठ्यते धर्मॊ ऽयं पौर्विकी संज्ञा उपचारः करियाविधिः ॥ 7 ॥

  8. गह्वरं परतिभात्य एत्न मम चिन्तयतॊ ऽनिशम निः संदेहम इदं सर्वं पितामह यथा शरुतिः ॥ 8 ॥

  9. यद एतद यादृशं चैतद यथा चैतत परवर्तितम निखिलेन महाप्राज्ञ भवान एतद बरवीतु मे ॥ 9 ॥

  10. [भ] अताप्य उदाहरन्तीमम इतिहासं पुरातनम अष्टावक्रस्य संवादं दिशया सह भारत ॥ 10 ॥

  11. निवेष्टु कामस तु पुरा अष्टावक्रॊ महातपाः ऋषेर अथ वदान्यस्य कन्यां वव्रे महात्मनः ॥ 11 ॥

  12. सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि गुणप्रबर्हां शीलेन साध्वीं चारित्रशॊभनाम ॥ 12 ॥

  13. सा तस्य दृष्ट्वैव मनॊ जहार शुभलॊचना वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥ 13 ॥

  14. ऋषिस तम आह देया मे सुता तुभ्यं शृणुष्व मे गच्छ तावद दिशं पुण्याम उत्तरां दरक्ष्यसे ततः ॥ 14 ॥

  15. [अ] किं दरष्टव्यं मया तत्र वक्तुम अर्हति मे भवान तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान ॥ 15 ॥

  16. [व] धनदं समतिक्रम्य हिमवन्तं तथैव च रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम ॥ 16 ॥

  17. परहृष्टैः पार्षदैर जुष्टं नृत्यद्भिर विविधाननैः दिव्याङ्गरागैः पैशाचैर वन्यैर नानाविधैर तथा ॥ 17 ॥

  18. पाणितालसतालैश च शम्या तालैः समैस तथा संप्रहृष्टैः परनृत्यद्भिः शर्वस तत्र निषेव्यते ॥ 18 ॥

  19. इष्टं किल गिरौ सथानं तद दिव्यम अनुशुश्रुम नित्यं संनिहितॊ देवस तथा पारिषदाः शुभाः ॥ 19 ॥

  20. तत्र देव्या तपस तप्तं शंकरार्थं सुदुश्चरम अतस तद इष्टं देवस्य तथॊमाया इति शरुतिः ॥ 20 ॥

  21. तत्र कूपॊ महान पार्श्वे देवस्यॊत्तरतस तथा ऋतवः कालरात्रिश च ये दिव्या ये च मानुषाः ॥ 21 ॥

  22. सर्वे देवम उपासन्ते रूपिणः किल तत्र ह तद अतिक्रम्य भवनं तवया यातव्यम एव हि ॥ 22 ॥

  23. ततॊ नीलं वलॊद्देशं दरक्ष्यसे मेघसंनिभम रमणीयं मनॊग्राहि तत्र दरक्ष्यसि वै सत्रियम ॥ 23 ॥

  24. तपस्विणीं महाभागां वृद्धां दीक्षाम अनुष्ठिताम दरष्टव्या सा तवया तत्र संपूज्या चैव यत्नतः ॥ 24 ॥

  25. तां दृष्ट्वा विनिवृत्तस तवं ततः पाणिं गरहीष्यसि यद्य एष समयः सत्यः साध्यतां तत्र गम्यताम ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 20

Previous: अध्याय 18