धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 18

  1. [व] महायॊगी ततः पराह कृष्णद्वैपायनॊ मुनिः पठस्व पुत्र भद्रं ते परीयतां ते महेश्वरः ॥ 1 ॥

  2. पुरा पुत्र मया मेरौ तप्यता परमं तपः पुत्र हेतॊर महाराज सतव एषॊ ऽनुकीर्तितः ॥ 2 ॥

  3. लब्धवान अस्मि तान कामान अहं वै पाण्डुनन्दन तथा तवम अपि शर्वाद धि सर्वान कामान अवाप्स्यसि ॥ 3 ॥

  4. चतुः शीर्षस ततः पराह शक्रस्य दयितः सखा आलम्बयान इत्य एव विश्रुतः करुणात्मकः ॥ 4 ॥

  5. मया गॊकर्णम आसाद्य तपस तप्त्वा शतं समाः अयॊनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम ॥ 5 ॥

  6. अजराणाम अदुःखानां शतवर्ष सहस्रिणाम लब्धं पुत्रशतं शर्वात पुरा पाण्डुनृपात्मज ॥ 6 ॥

  7. वाल्मीकिश चापि भगवान युधिष्ठिरम अभाषत विवादे साम्नि मुनिभिर बरह्मघ्नॊ वै भवान इति उक्तः कषणेन चाविष्टस तेनाधर्मेण भारत ॥ 7 ॥

  8. सॊ ऽहम ईशानम अनघम अस्तौषं शरणं गतः मुक्तश चास्म्य अवशः पापात ततॊ दुःखविनाशनः आह मां तरिपुरघ्नॊ वै यशस ते ऽगर्यं भविष्यति ॥ 8 ॥

  9. जामदग्न्यश च कौन्तेयम आह धर्मभृतां वरः ऋषिमध्ये सथितस तात तपन्न इव विभावसुः ॥ 9 ॥

  10. पितृविप्र वधेनाहम आर्तॊ वै पाण्डवाग्रज शुचिर भूत्वा महादेवं गतवाञ शरणं नृप ॥ 10 ॥

  11. नामभिश चास्तुवं देवं ततस तुष्टॊ ऽभवद भवः परशुं च ददौ देवॊ दिव्यान्य अस्त्राणि चैव मे ॥ 11 ॥

  12. पापं न भविता ते ऽदय अजेयश च भविष्यसि न ते परभविता मृत्युर यशस्वी च भविष्यसि ॥ 12 ॥

  13. आह मां भगवान एवं शिखण्डी शिव विग्रहः यद अवाप्तं च मे सर्वं परसादात तस्य धीमतः ॥ 13 ॥

  14. असितॊ देवलश चैव पराह पाण्डुसुतं नृपम शापाच छक्रस्य कौन्तेय चितॊ धर्मॊ ऽनशन मम तन मे धर्मं यशश चाग्र्यम आयुश चैवाददद भवः ॥ 14 ॥

  15. ऋषिर गृत्समदॊ नाम शक्रस्य दयितः सखा पराहाजमीढं भगवान बृहस्पतिसमद्युतिः ॥ 15 ॥

  16. वसिष्ठॊ नाम भगवांश चाक्षुषस्य मनॊः सुतः शतक्रतॊर अचिन्त्यस्य सत्रे वर्षसहस्रिके वर्तमाने ऽबरवीद वाक्यं साम्नि हय उच्चारिते मया ॥ 16 ॥

  17. रथन्तरं दविजश्रेष्ठ न सम्यग इति वर्तते समीक्षस्व पुनर बुद्ध्या हर्षं तयक्त्वा दविजॊत्तम अयज्ञ वाहिनं पापम अकार्षीस तवं सुदुर्मते ॥ 17 ॥

  18. एवम उक्त्वा महाक्रॊधात पराह रुष्टः पुनर वचः परज्ञया रहितॊ दुःखी नित्यं भीतॊ वनेचरः दशवर्षसहस्राणि दशाष्टौ च शतानि च ॥ 18 ॥

  19. नष्टपानीय यवसे मृगैर अन्यैश च वर्जिते अयज्ञीय दरुमे देशे रुरुसिंहनिषेविते भविता तवं मृगः करूरॊ महादुःखसमन्वितः ॥ 19 ॥

  20. तस्य वाक्यस्य निधने पार्थ जातॊ हय अहं मृगः ततॊ मां शरणं पराप्तं पराह यॊगी महेश्वरः ॥ 20 ॥

  21. अजरश चामरश चैव भविता दुःखवर्जितः साम्यं समस तु ते सौख्यं युवयॊर वर्धतां करतुः ॥ 21 ॥

  22. अनुग्रहान एवम एष करॊति भवगान विभुः परं धाता विधाता च सुखदुःखे च सर्वदा ॥ 22 ॥

  23. अचिन्त्य एष भगवान कर्मणा मनसा गिरा न मे तात युधि शरेष्ठ विद्यया पण्डितः समः ॥ 23 ॥

  24. [जैगीसव्य] ममाष्ट गुणम ऐश्वर्यं दत्तं भगवता पुरा यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ॥ 24 ॥

  25. [गार्ग्य] चतुःषष्ट्यङ्गम अददात कालज्ञानं ममाद्भुतम सरस्वत्यास तटे तुष्टॊ मनॊ यज्ञेन पाण्टव ॥ 25 ॥

  26. तुल्यं मम सहस्रं तु सुतानां बरह्मवादिनाम आयुश चैव सपुत्रस्य संवत्सरशतायुतम ॥ 26 ॥

  27. [पराषर] परसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप महातपा महातेजा महायॊगी महायशाः वेद वयासः शरियावासॊ बरह्मण्यः करुणात्मकः ॥ 27 ॥

  28. अपि नामेप्षितः पुत्रॊ मम सयाद वै महेश्वरात इति मत्वा हृदि मतं पराह मां सुरसत्तमः ॥ 28 ॥

  29. मयि संभवतस तस्य फलात कृष्णॊ भविष्यति सावर्णस्य मनॊः सर्गे सप्तर्षिश च भविष्यति ॥ 29 ॥

  30. वेदानां च स वै वयस्ता कुरुवंशकरस तथा इतिहासस्य कर्ता च पुत्रस ते जगतॊ हितः ॥ 30 ॥

  31. भविष्यति महेन्द्रस्य दयितः स महामुनिः अजरश चामरश चैव पराशर सुतस तव ॥ 31 ॥

  32. एवम उक्त्वा स भगवांस तत्रैवान्तरधीयत युधिष्ठिर महायॊगी वीर्यवान अक्षतॊ ऽवययः ॥ 32 ॥

  33. [माण्डव्य] अचौरश चौर शङ्कायां शूले भिन्नॊ हय अहं यदा तत्रस्थेन सतुतॊ देवः पराह मां वै महेश्वरः ॥ 33 ॥

  34. मॊक्षं पराप्स्यसि शुल्लाच च जीविष्यसि समार्बुदम रुजा शूलकृता चैव न ते विप्र भविष्यति आधिभिर वयाधिभिश चैव वर्जितस तवं भविष्यसि ॥ 34 ॥

  35. पादाच चतुर्थात संभूत आत्मा यस्मान मुने तव तवं भविष्यस्य अनुपमॊ जन्म वै सफलं कुरु ॥ 35 ॥

  36. तीर्थाभिषेकं सफलं तवम अविघ्नेन चाप्स्यसि सवर्गं चैवाक्षयं विप्र विदधामि तवॊर्जितम ॥ 36 ॥

  37. एवम उक्त्वा तु भगवान वरेण्यॊ वृषवाहनः महेश्वरॊ महाराज कृत्ति वासा महाद्युतिः सगणॊ दैवतश्रेष्ठस तत्रैवान्तरधीयत ॥ 37 ॥

  38. [गालव] विश्वामित्राभ्यनुज्ञातॊ हय अहं पितरम आगतः अब्रवीन मां ततॊ माता दुःखिता रुदती भृशम ॥ 38 ॥

  39. कौशिकेनाभ्यनुज्ञातं पुत्रं वेद विभूषितम न तात तरुणं दान्तं पिता तवां पश्यते ऽनघ ॥ 39 ॥

  40. शरुत्वा जनन्या वचनं निराशॊ गुरु दर्शने नियतात्मा महादेवम अपश्यं सॊ ऽबरवीच च माम ॥ 40 ॥

  41. पिता माता च ते तवं च पुत्र मृत्युविवर्जिताः भविष्यथ विश कषिप्रं दरष्टासि पितरं कषये ॥ 41 ॥

  42. अनुज्ञातॊ भगवता गृहं गत्वा युधिष्ठिर अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम ॥ 42 ॥

  43. उपस्पृश्य गृहीत्वेध्मं कुशांश च शरणाद गुरून तान विसृज्य च मां पराह पिता सास्राविलेक्षणः ॥ 43 ॥

  44. परणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव दिष्ट्या दृष्टॊ ऽसि मे पुत्रकृतविद्य इहागतः ॥ 44 ॥

  45. [व] एतान्य अत्यद्भुतान्य एव कर्माण्य अथ महात्मनः परॊक्तानि मुनिभिः शरुत्वा विस्मयाम आस पाण्डवः ॥ 45 ॥

  46. ततः कृष्णॊ ऽबरवीद वाक्यं पुनर मतिमतां वरः युधिष्ठिरं धर्मनित्यं पुरुहूतम इवेश्वरः ॥ 46 ॥

  47. आदित्यचन्द्राव अनिलानलौ च; दयौर भूमिर आपॊ वसवॊ ऽथ विश्वे धातार्यमा शुक्रवृहस्पती च; रुद्राः स साध्या वरुणॊ वित्तगॊपः ॥ 47 ॥

  48. बरह्मा शक्रॊ मारुतॊ बरह्मसत्यं; वेदा यज्ञा दक्षिणा वेद वाहाः सॊमॊ यष्टा यच च हव्यं हविश च; रक्षा दीक्षानियमा ये च के चित ॥ 48 ॥

  49. सवाहा वषड बराह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च यशॊ दमॊ बुद्धिमती सथितिश च; शुभाशुभं मुनयश चैव सप्त ॥ 49 ॥

  50. अग्र्या बुद्धिर मनसा दर्शने च; सपर्शे सिद्धिः कर्मणां या च सिद्धिः गणा देवानाम ऊष्मपाः सॊमपाश च; लेखाः सुयामास तुषिता बरह्म कायाः ॥ 50 ॥

  51. आभास्वरा गन्धपा दृष्टिपाश च; वाचा विरुद्धाश च मनॊ विरुद्धाः शुद्धाश च निर्वाणरताश च देवाः; सपर्शाशना दर्शपा आज्यपाश च ॥ 51 ॥

  52. चिन्ता गता ये च देवेषु मुख्या; ये चाप्य अन्ये देवताश चाजमीढ सुपर्णगन्धर्वपिशाचदानवा; यक्षास तथा पन्नगाश चारणाश च ॥ 52 ॥

  53. सूक्ष्मं सथूलं मृदु यच चाप्य असूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च सांख्यं यॊगं यत पराणां परं च; शर्वाज जातं विद्धि यत कीर्तितं मे ॥ 53 ॥

  54. तत संभूता भूतकृतॊ वरेण्याः; सर्वे देवा भुवनस्यास्य गॊपाः आविश्येमां धरणीं ये ऽभयरक्षन; पुरातनीं तस्य देवस्य सृष्टिम ॥ 54 ॥

  55. विचिन्वन्तं मनसा तॊष्टुवीमि; किं चित तत्त्वं पराणहेतॊर नतॊ ऽसमि ददातु देवः स वरान इहेष्टान; अभिष्टुतॊ नः परभुर अव्ययः सदा ॥ 55 ॥

  56. इमं सतवं संनियम्येन्द्रियाणि; शुचिर भूत्वा यः पुरुषः पठेत अभग्न यॊगॊ नियतॊ ऽबदम एकं; स पराप्नुयाद अश्वमेधे फलं यत ॥ 56 ॥

  57. वेदान कृत्स्नान बराह्मणः पराप्नुयाच च; जयेद राजा पृथिवीं चापि कृत्स्नाम वैश्यॊ लाभं पराप्नुयान नैपुणं च; शूद्रॊ गतिं परेत्य तथा सुखं च ॥ 57 ॥

  58. सतवराजम इमं कृत्वा रुद्राय दधिरे मनः सर्वदॊषापहं पुण्यं पवित्रं च यशस्विनम ॥ 58 ॥

  59. यावन्त्य अस्य शरीरेषु रॊमकूपाणि भारत तावद वर्षसहस्राणि सवर्गे वसति मानवः ॥ 59 ॥

Reach this point to mark the section finished.

Continue to अध्याय 19

Previous: अध्याय 17