धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 17

  1. [वासुदेव] ततः स परयतॊ भूत्वा मम तात युधिष्ठिर पराञ्जलिः पराह विप्रर्षिर नाम संहारम आदितः ॥ 1 ॥

  2. [उ] बरह्म परॊक्तैर ऋषिप्रॊक्तैर वेदवेदाङ्गसंभवैः सर्वलॊकेषु विख्यातैः सथाणुं सतॊष्यामि नामभिः ॥ 2 ॥

  3. महद्भिर विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ऋषिणा तण्डिना भक्त्या कृतैर देवकृतात्मना ॥ 3 ॥

  4. यथॊक्तैर लॊकविख्यातैर मुनिभिस तत्त्वदर्शिभिः परवरं परथमं सवर्ग्यं सर्वभूतहितं शुभम शरुतैः सर्वत्र जगति बरह्मलॊकावतारितैः ॥ 4 ॥

  5. यत तद रहस्यं परमं बरह्म परॊक्तं सनातनम वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितॊ मम ॥ 5 ॥

  6. परत्वेन भवं देवं भक्तस तवं परमेश्वरम तेन ते शरावयिष्यामि यत तद बरह्म सनातनम ॥ 6 ॥

  7. न शक्यं विस्तरात कृत्स्नं वक्तुं शर्वस्य केन चित युक्तेनापि विभूतीनाम अपि वर्षशतैर अपि ॥ 7 ॥

  8. यस्यादिर मध्यम अन्तश च सुरैर अपि न गम्यते कस तस्य शक्नुयाद वक्तुं गुणान कार्त्स्न्येन माधव ॥ 8 ॥

  9. किं तु देवस्य महतः संक्षिप्तार्थ पदाक्षरम शक्तितश चरितं वक्ष्ये परसादात तस्य चैव हि ॥ 9 ॥

  10. अप्राप्येह ततॊ ऽनुज्ञां न शक्यः सतॊतुम ईश्वरः यदा तेनाभ्यनुज्ञातः सतुवत्य एव सदा भवम ॥ 10 ॥

  11. अनादि निधनस्याहं सर्वयॊनेर महात्मनः नाम्नां कं चित समुद्देशं वक्ष्ये हय अव्यक्तयॊनिनः ॥ 11 ॥

  12. वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः शृणु नाम समुद्देशं यद उक्तं पद्मयॊनिना ॥ 12 ॥

  13. दश नाम सहस्राणि यान्य आह परपितामहः तानि निर्मथ्य मनसा दध्नॊ घृतम इवॊद्धृतम ॥ 13 ॥

  14. गिरेः सारं यथा हेमपुष्पात सारं यथा मधु घृतात सारं यथा मण्डस तथैतत सारम उद्धृतम ॥ 14 ॥

  15. सर्वपाप्मापहम इदं चतुर्वेद समन्वितम परयत्नेनाधिगन्तव्यं धार्यं च परयतात्मना शान्तिकं पौष्टिकं चैव रक्षॊघ्नं पावनं महत ॥ 15 ॥

  16. इदं भक्ताय दातव्यं शरद्दधानास्तिकाय च नाश्रद्दधान रूपाय नास्तिकायाजितात्मने ॥ 16 ॥

  17. यश चाभ्यसूयते देवं भूतात्मानं पिनाकिनम स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥ 17 ॥

  18. इदं धयानम इदं यॊगम इदं धयेयम अनुत्तमम इदं जप्यम इदं जञानं रहस्यम इदम उत्तमम इदं जञात्वान्त काके ऽपि गच्छेद धि परमां गतिम ॥ 18 ॥

  19. पवित्रं मङ्गलं पुण्यं कल्याणम इदम उत्तमम निगदिष्ये महाबाहॊ सतवानाम उत्तमं सतवम ॥ 19 ॥

  20. इदं बरह्मा पुरा कृत्वा सर्वलॊकपितामहः सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत ॥ 20 ॥

  21. तदा परभृति चैवायम ईश्वरस्य महात्मनः सतवराजेति विख्यातॊ जगत्य अमरपूजितः बरह्मलॊकाद अयं चैव सतवराजॊ ऽवतारितः ॥ 21 ॥

  22. यस्मात तण्डिः पुरा पराह तेन तण्डि कृतॊ ऽभवत सवर्गाच चैवात्र भूलॊकं तण्डिना हय अवतारितः ॥ 22 ॥

  23. सर्वमङ्गल मङ्गल्यं सर्वपापप्रणाशनम निगदिष्ये महाबाहॊ सतवानाम उत्तमं सतवम ॥ 23 ॥

  24. बरह्मणाम अपि यद बरह्म पराणाम अपि यत परम तेजसाम अपि यत तेजस तपसाम अपि यत तपः ॥ 24 ॥

  25. शान्तीनाम अपि या शान्तिर दयुतीनाम अपि या दयुतिः दान्तानाम अपि यॊ दान्तॊ धीमताम अपि या च धीः ॥ 25 ॥

  26. देवानाम अपि यॊ देवॊ मुनीनाम अपि यॊ मुनिः यज्ञानाम अपि यॊ यज्ञः शिवानाम अपि यः शिवः ॥ 26 ॥

  27. रुद्राणाम अपि यॊ रुद्रः परभुः परभवताम अपि यॊगिनाम अपि यॊ यॊगी कारणानां च कारणम ॥ 27 ॥

  28. यतॊ लॊकाः संभवन्ति न भवन्ति यतः पुनः सर्वभूतात्मभूतस्य हरस्यामित तेजसः ॥ 28 ॥

  29. अष्टॊत्तर सहस्रं तु नाम्नां शर्वस्य मे शृणु यच छरुत्वा मनुजश्रेष्ठ सर्वान कामान अवाप्स्यसि ॥ 29 ॥

  30. सथिरः सथाणुः पभुर भानुः परवरॊ वरदॊ वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरॊ भवः ॥ 30 ॥

  31. जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरिश च हरिणाक्षश च सर्वभूतहरः परभुः ॥ 31 ॥

  32. परवृत्तिश च निवृत्तिश च नियतः शाश्वतॊ धरुवः शमशानचारी भगवान खचरॊ गॊचरॊ ऽरदनः ॥ 32 ॥

  33. अभिवाद्यॊ महाकर्मा तपस्वी भूतभावनः उन्मत्तवेश परच्छन्नः सर्वलॊकप्रजापतिः ॥ 33 ॥

  34. महारूपॊ महाकायः सर्वरूपॊ महायशाः महात्मा सर्वभूतश च विरूपॊ वामनॊ मनुः ॥ 34 ॥

  35. लॊकपालॊ ऽनतर्हितात्मा परसादॊ हयगर्दभिः पवित्रश च महांश चैव नियमॊ नियमाश्रयः ॥ 35 ॥

  36. सर्वकर्मा सवयम्भूश च आदिर आदि करॊ निधिः सहस्राक्षॊ विरूपाक्शः सॊमॊ नक्षत्रसाधकः ॥ 36 ॥

  37. चन्द्रसूर्यगतिः केतुर गरहॊ गरहपतिर वरः अद्रिर अद्र्यालयः कर्ता मृगबाणार्पणॊ ऽनघः ॥ 37 ॥

  38. महातपा घॊरतपा अदीनॊ दीनसाधकः संवत्सरकरॊ मन्त्रः परमाणं परमं तपः ॥ 38 ॥

  39. यॊगी यॊज्यॊ महाबीजॊ महारेता महातपाः सुवर्णरेताः सर्वज्ञः सुबीजॊ वृषवाहनः ॥ 39 ॥

  40. दश बाहुस तव अनिमिषॊ नीलकण्ठ उमापतिः विश्वरूपः सवयं शरेष्ठॊ बलवीरॊ बलॊ गणः ॥ 40 ॥

  41. गणकर्ता गणपतिर दिग्वासाः काम्य एव च पवित्रं परमं मन्त्रः सर्वभावकरॊ हरः ॥ 41 ॥

  42. कमण्डलुधरॊ धन्वी बाणहस्तः कपालवान अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान ॥ 42 ॥

  43. सरुव हस्तः सुरूपश च तेजस तेजः करॊ निधिः उष्णीषी च सुवक्त्रश च उदग्रॊ विनतस तथा ॥ 43 ॥

  44. दीर्घश च हरि केशश च सुतीर्थः कृष्ण एव च सृगालरूपः सर्वार्थॊ मण्डः कुण्डी कमण्डलुः ॥ 44 ॥

  45. अजश च मृगरूपश च गन्धधारी कपर्द्य अपि उर्ध्व रेता ऊर्ध्वलिङ्ग ऊर्ध्व शायी नभस्तलः ॥ 45 ॥

  46. तरिजटश चीरवासाश च रुद्रः सेनापतिर विभुः अहश चरॊ ऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 46 ॥

  47. गजहा दैत्यहा लॊकॊ लॊकधाता गुणाकरः सिंहशार्दूलरूपश च आर्द्र चर्माम्बरावृतः ॥ 47 ॥

  48. कालयॊगी महानादः सर्ववासश चतुष्पथः निशाचरः परेतचारी भूतचारी महेश्वरः ॥ 48 ॥

  49. बहुभूतॊ बहुधनः सर्वाधारॊ ऽमितॊ गतिः नृत्यप्रियॊ नित्यनर्तॊ नर्तकः सर्वलासकः ॥ 49 ॥

  50. घॊरॊ महातपाः पाशॊ नित्यॊ गिरिचरॊ नभः सहस्रहस्तॊ विजयॊ वयवसायॊ हय अनिन्दितः ॥ 50 ॥

  51. अमर्षणॊ मर्षणात्मा यज्ञहा कामनाशनः दक्षयज्ञापहारी च सुसहॊ मध्यमस तथा ॥ 51 ॥

  52. तेजॊ ऽपहारी बलहा मुदितॊ ऽरथॊ जितॊ वरः गम्भीरघॊषॊ गम्भीरॊ गम्भीरबलवाहनः ॥ 52 ॥

  53. नयग्रॊधरूपॊ नयग्रॊधॊ वृक्षकर्ण सथितिर विभुः तीक्ष्णतापश च हर्यश्वः सहायः कर्मकालवित ॥ 53 ॥

  54. विष्णुप्रसादितॊ यज्ञः समुद्रॊ वडवामुखः हुताशनसहायश च परशान्तात्मा हुताशनः ॥ 54 ॥

  55. उग्रतेजा महातेजा जयॊ विजयकालवित जयॊतिषाम अयनं सिद्धिः संधिर विग्रह एव च ॥ 55 ॥

  56. शिखी दण्डी जटी जवाली मूर्तिजॊ मूर्धगॊ बली वैणवी पणवी ताली कालः कालकटंकटः ॥ 56 ॥

  57. नक्षत्रविग्रह विधिर गुणवृद्धिर लयॊ ऽगमः परजापतिर दिशा बाहुर विभागः सर्वतॊ मुखः ॥ 57 ॥

  58. विमॊचनः सुरगणॊ हिरण्यकवचॊद्भवः मेढ्रजॊ बलचारी च महाचारी सतुतस तथा ॥ 58 ॥

  59. सर्वतूर्य निनादी च सर्ववाद्य परिग्रहः वयालरूपॊ बिलावासी हेममाली तरंगवित ॥ 59 ॥

  60. तरिदशस तरिकालधृक कर्म सर्वबन्धविमॊचनः बन्धनस तवासुरेन्द्राणां युधि शत्रुविनाशनः ॥ 60 ॥

  61. सांख्यप्रसादॊ सुर्वासाः सर्वसाधु निषेवितः परस्कन्दनॊ विभागश च अतुल्यॊ यज्ञभागवित ॥ 61 ॥

  62. सर्वावासः सर्वचारी दुर्वासा वासवॊ ऽमरः हेमॊ हेमकरॊ यज्ञः सर्वधारी धरॊत्तमः ॥ 62 ॥

  63. लॊहिताक्षॊ महाक्षश च विजयाक्षॊ विशारदः संग्रहॊ निग्रहः कर्ता सर्पचीरनिवासनः ॥ 63 ॥

  64. मुख्यॊ ऽमुख्यश च देहश च देहर्द्धिः सर्वकामदः सर्वकामप्रसादश च सुबलॊ बलरूपधृक ॥ 64 ॥

  65. आकाशनिधि रूपश च निपाती उरगः खगः रौद्ररूपॊ ऽंशुर आदित्यॊ वसु रश्मिः सुवर्चसी ॥ 65 ॥

  66. वसु वेगॊ महावेगॊ मनॊ वेगॊ निशाचरः सर्वावासी शरियावासी उपदेश करॊ हरः ॥ 66 ॥

  67. मुनिर आत्मपतिर लॊके संभॊज्यश च सहस्रदः पक्षी च पक्षिरूपी च अतिदीप्तॊ विशां पतिः ॥ 67 ॥

  68. उन्मादॊ मदनाकारॊ अर्थार्थकर रॊमशः वामदेवश च वामश च पराग्दक्षिण्यश च वामनः ॥ 68 ॥

  69. सिद्धयॊगापहारी च सिद्धः सर्वार्थसाधकः भिक्षुश च भिक्षुरूपश च विषाणी मृदुर अव्ययः ॥ 69 ॥

  70. महासेनॊ विशाखश च षष्टिभागॊ गवां पतिः वज्रहस्तश च विष्कम्भी चमू सतम्भन एव च ॥ 70 ॥

  71. ऋतुर ऋतुकरः कालॊ मधुर मधुकरॊ ऽचलः वानस्पत्यॊ वाजसेनॊ नित्यम आश्रमपूजितः ॥ 71 ॥

  72. बरह्म चारी लॊकचारी सर्वचारी सुचारवित ईशान ईश्वरः कालॊ निशा चारी पिनाक धृक ॥ 72 ॥

  73. नन्दीश्वरश च नन्दी च नन्दनॊ नन्दिवर्धनः भगस्याक्षि निहन्ता च कालॊ बरह्मविदां वरः ॥ 73 ॥

  74. चतुर्मुखॊ महालिङ्गश चारु लिङ्गस तथैव च लिङ्गाध्यक्षः सुराध्यक्षॊ लॊकाध्यक्षॊ युगावहः ॥ 74 ॥

  75. बीजाध्यक्षॊ बीजकर्ता अध्यात्मानुगतॊ बलः इतिहास करः कल्पॊ गौतमॊ ऽथ जलेश्वरः ॥ 75 ॥

  76. दम्भॊ हय अदम्भॊ वैदम्भॊ वैश्यॊ वश्य करः कविः लॊककर्ता पशुपतिर महाकर्ता महौषधिः ॥ 76 ॥

  77. अक्षरं परमं बरह्मबलवाञ शक्र एव च नीतिर हय अनीतिः शुद्धात्मा शुद्धॊ मान्यॊ मनॊगतिः ॥ 77 ॥

  78. बहु परसादः सवपनॊ दर्पणॊ ऽथ तव अमित्रजित वेदकारः सूत्रकारॊ विद्वान समरमर्दनः ॥ 78 ॥

  79. महामेघनिवासी च महाघॊरॊ वशीकरः अग्निज्वालॊ महाज्वालॊ अतिधूम्रॊ हुतॊ हविः ॥ 79 ॥

  80. वृषणः शंकरॊ नित्यॊ वर्चस्वी धूमकेतनः नीलस तथाङ्गलुब्धश च शॊभनॊ निरवग्रहः ॥ 80 ॥

  81. सवस्तिदः सवस्ति भावश च भागी भागकरॊ लघुः उत्सङ्गश च महाङ्गश च महागर्भः परॊ युवा ॥ 81 ॥

  82. कृष्ण वर्णः सुवर्णश च इन्द्रियः सर्वदेहिनाम महापादॊ महाहस्तॊ महाकायॊ महायशाः ॥ 82 ॥

  83. महामूर्धा महामात्रॊ महानेत्रॊ दिग आलयः महादन्तॊ महाकर्णॊ महामेढ्रॊ महाहनुः ॥ 83 ॥

  84. महानासॊ महाकम्बुर महाग्रीवः शमशानधृक महावक्षा महॊरस्कॊ अन्तरात्मा मृगालयः ॥ 84 ॥

  85. लम्बनॊ लम्बितौष्ठश च महामायः पयॊ निधिः महादन्तॊ महादंष्ट्रॊ महाजिह्वॊ महामुखः ॥ 85 ॥

  86. महानखॊ महारॊमा महाकेशॊ महाजटः असपत्नः परसादश च परत्ययॊ गिरिसाधनः ॥ 86 ॥

  87. सनेहनॊ ऽसनेहनश चैव अजितश च महामुनिः वृक्षाकारॊ वृक्षकेतुर अनलॊ वायुवाहनः ॥ 87 ॥

  88. मण्डलीमेरुधामा च देवदानव दर्पहा अथर्वशीर्षः सामास्य ऋक सहस्रामितेक्षणः ॥ 88 ॥

  89. यजुः पादभुजॊ गुह्यः परकाशॊ जङ्गमस तथा अमॊघार्थः परसादश च अभिगम्यः सुदर्शनः ॥ 89 ॥

  90. उपहार परियः शर्वः कनकः काञ्चनः सथिरः नाभिर नन्दिकरॊ भाव्यः पुष्करस्थ पतिः सथिरः ॥ 90 ॥

  91. दवादशस तरासनश चाद्यॊ यज्ञॊ यज्ञसमाहितः नक्तं कलिश च कालश च मकरः कालपूजितः ॥ 91 ॥

  92. सगणॊ गणकारश च भूतभावन सारथिः भस्म शायी भस्म गॊप्ता भस्मभूतस तरुर गणः ॥ 92 ॥

  93. अगणश चैव लॊपश च महात्मा सर्वपूजितः शङ्कुस तरिशङ्कुः संपन्नः शुचिर भूतनिषेवितः ॥ 93 ॥

  94. आश्रमस्थः कपॊतस्थॊ विश्वकर्मा पतिर वरः शाखॊ विशाखस ताम्रौष्ठॊ हय अम्बुजालः सुनिश्चयः ॥ 94 ॥

  95. कपिलॊ ऽकपिलः शूर आयुश चैव परॊ ऽपरः गन्धर्वॊ हय अदितिस तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥ 95 ॥

  96. परश्वधायुधॊ देव अर्थकारी सुबान्धवः तुम्बवीणी महाकॊप ऊर्ध्वरेता जले शयः ॥ 96 ॥

  97. उग्रॊ वंशकरॊ वंशॊ वंशनादॊ हय अनिन्दितः सर्वाङ्गरूपॊ मायावी सुहृदॊ हय अनिलॊ ऽनलः ॥ 97 ॥

  98. बन्धनॊ बन्धकर्ता च सुबन्धन विमॊचनः स यज्ञारिः स कामारिर महादंष्ट्रॊ महायुधः ॥ 98 ॥

  99. बाहुस तव अनिन्दितः शर्वः शंकरः शंकरॊ ऽधनः अमरेशॊ महादेवॊ विश्वदेवः सुरारिहा ॥ 99 ॥

  100. अहिर्बुध्नॊ निरृतिश च चेकितानॊ हरिस तथा अजैकपाच च कापाली तरिशङ्कुर अजितः शिवः ॥ 100 ॥

  101. धन्वन्तरिर धूमकेतुः सकन्दॊ वैश्रवणस तथा धाता शक्रश च विष्णुश च मित्रस तवष्टा धरुवॊ धरः ॥ 101 ॥

  102. परभावः सर्वगॊ वायुर अर्यमा सविता रविः उदग्रश च विधाता च मान्धाता भूतभावनः ॥ 102 ॥

  103. रतितीर्थश च वाग्मी च सर्वकामगुणावहः पद्मगर्भॊ महागर्भश चन्द्र वक्त्रॊ मनॊरमः ॥ 103 ॥

  104. बलवांश चॊपशान्तश च पुराणः पुण्यचञ्चुरी कुरु कर्ता कालरूपी कुरु भूतॊ महेश्वरः ॥ 104 ॥

  105. सर्वाशयॊ दर्भशायी सर्वेषां पराणिनां पतिः देवदेव मुखॊ ऽसक्तः सद असत सर्वरत्नवित ॥ 105 ॥

  106. कैलासशिखरावासी हिमवद गिरिसंश्रयः कूलहारी कूलकर्ता बहु विद्यॊ बहु परदः ॥ 106 ॥

  107. वणिजॊ वर्धनॊ वृक्षॊ नकुलश चन्दनश छदः सारग्रीवॊ महाजत्रुर अलॊलश च महौषधः ॥ 107 ॥

  108. सिद्धार्थकारी सिद्धार्थश चन्दॊ वयाकरणॊत्तरः सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 108 ॥

  109. परभावात्मा जगत कालस तालॊ लॊकहितस तरुः सारङ्गॊ नव चक्राङ्गः केतुमाली सभावनः ॥ 109 ॥

  110. भूतालयॊ भूतपतिर अहॊरात्रम अनिन्दितः वाहिता सर्वभूतानां निलयश च विभुर भवः ॥ 110 ॥

  111. अमॊघः संयतॊ हय अश्वॊ भॊजनः पराणधारणः धृतिमान मतिमान दक्षः सत्कृतश च युगाधिपः ॥ 111 ॥

  112. गॊपालिर गॊपतिर गरामॊ गॊचर्म वसनॊ हरः हिरण्यबाहुश च तथा गुहा पालः परवेशिनाम ॥ 112 ॥

  113. परतिष्ठायी महाहर्षॊ जितकामॊ जितेन्द्रियः गन्धारश च सुरालश च तपः कर्म रतिर धनुः ॥ 113 ॥

  114. महागीतॊ महानृत्तॊ हय अप्सरॊगणसेवितः महाकेतुर धनुर धातुर नैकसानु चरश चलः ॥ 114 ॥

  115. आवेदनीय आवेशः सर्वगन्धसुखावहः तॊरणस तारणॊ वायुः परिधावति चैकतः ॥ 115 ॥

  116. संयॊगॊ वर्धनॊ वृद्धॊ महावृद्धॊ गणाधिपः नित्य आत्मसहायश च देवासुरपतिः पतिः ॥ 116 ॥

  117. युक्तश च युक्तबाहुश च दविविधश च सुपर्वणः आषाढश च सुषाड्धश च धरुवॊ हरि हणॊ हरः ॥ 117 ॥

  118. वपुर आवर्तमानेभ्यॊ वसु शरेष्ठॊ महापथः शिरॊ हारी विमर्षश च सर्वलक्षणभूषितः ॥ 118 ॥

  119. अक्षश च रथयॊगी च सर्वयॊगी महाबलः समाम्नायॊ ऽसमाम्नायस तीर्थदेवॊ महारथ ॥ 119 ॥

  120. निर्जीवॊ जीवनॊ मन्त्रः शुभाक्षॊ बहु कर्कशः रत्नप्रभूतॊ रक्ताङ्गॊ महार्णव निपानवित ॥ 120 ॥

  121. मूलॊ विशालॊ हय अमृतॊ वयक्ताव्यक्तस तपॊ निधिः आरॊहणॊ निरॊहश च शल हारी महातपाः ॥ 121 ॥

  122. सेना कल्पॊ महाकल्पॊ युगायुग करॊ हरिः युगरूपॊ महारूपॊ पवनॊ गहनॊ नगः ॥ 122 ॥

  123. नयायनिर्वापणः पादः पण्डितॊ हय अचलॊपमः बहु मालॊ महामालः सुमालॊ बहु लॊचनः ॥ 123 ॥

  124. विस्तारॊ लवणः कूपः कुसुमः सफलॊदयः वृषभॊ वृषभाङ्काङ्गॊ मणिबिल्वॊ जटाधरः ॥ 124 ॥

  125. इन्दुर विसर्वः सुमुखः सुरः सर्वायुधः सहः निवेदनः सुधा जातः सुगन्धारॊ महाधनुः ॥ 125 ॥

  126. गन्धमाली च भगवान उत्थानः सर्वकर्मणाम मन्थानॊ बहुलॊ बाहुः सकलः सर्वलॊचनः ॥ 126 ॥

  127. तरस ताली करस ताली ऊर्ध्वसंहननॊ वहः छत्रं सुच्छत्रॊ विख्यातः सर्वलॊकाश्रयॊ महान ॥ 127 ॥

  128. मुण्डॊ विरूपॊ विकृतॊ दण्डि मुण्डॊ विकुर्वणः हर्यक्षः ककुभॊ वज्री दीप्तजिह्वः सहस्रपात ॥ 128 ॥

  129. सहस्रमूर्धा देवेन्द्रः सर्वदेवमयॊ गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलॊककृत ॥ 129 ॥

  130. पवित्रं तरिमधुर मन्त्रः कनिष्ठः कृष्णपिङ्गलः बरह्मदण्डविनिर्माता शतघ्नीशतपाशधृक ॥ 130 ॥

  131. पद्मगर्भॊ महागर्भॊ बरह्म गर्भॊ जलॊद्भवः गभस्तिर बरह्म कृद बरह्मा बरह्मविद बराह्मणॊ गतिः ॥ 131 ॥

  132. अनन्तरूपॊ नैकात्मा तिग्मतेजाः सवयम्भुवः ऊर्ध्वगात्मा पशुपतिर वातरंहा मनॊजवः ॥ 132 ॥

  133. चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणॊ नरः कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक ॥ 133 ॥

  134. उमापतिर उमा कान्तॊ जाह्नवी धृग उमा धवः वरॊ वराहॊ वरदॊ वरेशः सुमहास्वनः ॥ 134 ॥

  135. महाप्रसादॊ दमनः शत्रुहा शवेतपिङ्गलः परीतात्मा परयतात्मा च संयतात्मा परधानधृक ॥ 135 ॥

  136. सर्वपार्श्व सुतस तार्क्ष्यॊ धर्मसाधारणॊ वरः चराचरात्मा सूक्ष्मात्मा सुवृषॊ गॊवृषेश्वरः ॥ 136 ॥

  137. साध्यर्षिर वसुर आदित्यॊ विवस्वान सविता मृडः वयासः सर्वस्य संक्षेपॊ विस्तरः पर्ययॊ नयः ॥ 137 ॥

  138. ऋतुः संवत्सरॊ मासः पक्षः संख्या समापनः कला काष्ठा लवॊ मात्रा मुहूर्तॊ ऽहः कषपाः कषणाः ॥ 138 ॥

  139. विश्वक्षेत्रं परजा बीजं लिङ्गम आद्यस तव अनिन्दितः सदसद वयक्तम अव्यक्तं पिता माता पितामहः ॥ 139 ॥

  140. सवर्गद्वारं परजा दवारं मॊक्षद्वारं तरिविष्टपम निर्वाणं हलादनं चैव बरह्मलॊकः परा गतिः ॥ 140 ॥

  141. देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर देवॊ देवासुरनमस्कृतः ॥ 141 ॥

  142. देवासुरमहामात्रॊ देवासुरगणाश्रयः देवासुरगणाध्यक्षॊ देवासुरगणाग्रणीः ॥ 142 ॥

  143. देवातिदेवॊ देवर्षिर देवासुरवरप्रदः देवासुरेश्वरॊ देवॊ देवासुरमहेश्वरः ॥ 143 ॥

  144. सर्वदेवमयॊ ऽचिन्त्यॊ देवतात्मात्म संभवः उद्भिदस तरिक्रमॊ वैद्यॊ विरजॊ विरजॊऽमबरः ॥ 144 ॥

  145. ईड्यॊ हस्ती सुरव्याघ्रॊ देव सिंहॊ नरर्षभः विबुधाग्र वरः शरेष्ठः सर्वदेवॊत्तमॊत्तमः ॥ 145 ॥

  146. परयुक्तः शॊभनॊ वर्ज ईशानः परभुर अव्ययः गुरुः कान्तॊ निजः सर्गः पवित्रः सर्ववाहनः ॥ 146 ॥

  147. शृङ्गी शृङ्गप्रियॊ बभ्रू राजराजॊ निरामयः अभिरामः सुरगणॊ विरामः सर्वसाधनः ॥ 147 ॥

  148. ललाटाक्षॊ विश्वदेहॊ हरिणॊ बरह्म वर्चसः सथावराणां पतिश चैव नियमेन्द्रियवर्धनः ॥ 148 ॥

  149. सिद्धार्थः सर्वभूतार्थॊ ऽचिन्त्यः सत्यव्रतः शुचिः वरताधिपः परं बरह्म मुक्तानां परमा गतिः ॥ 149 ॥

  150. विमुक्तॊ मुक्ततेजाश च शरीमाञ शरीवर्धनॊ जगत यथा परधानं भगवान इति भक्त्या सतुतॊ मया ॥ 150 ॥

  151. यं न बरह्मादयॊ देवा विदुर्यं न महर्षयः तं सतव्यम अर्च्यं वन्द्यं च कः सतॊष्यति जगत्पतिम ॥ 151 ॥

  152. भक्तिम एव पुरस्कृत्य मया यज्ञपतिर वसुः ततॊ ऽभयनुज्ञां पराप्यैव सतुतॊ मतिमतां वरः ॥ 152 ॥

  153. शिवम एभिः सतुवन देवं नामभिः पुष्टिवर्धनैः नित्ययुक्तः शुचिर भूत्वा पराप्नॊत्य आत्मानम आत्मना ॥ 153 ॥

  154. एतद धि परमं बरह्म सवयं गीतं सवयम्भुवा ऋषयश चैव देवाश च सतुवन्त्य एतेन तत्परम ॥ 154 ॥

  155. सतूयमानॊ महादेवः परीयते चात्मनामभिः भक्तानुकम्पी भगवान आत्मसंस्थान करॊति तान ॥ 155 ॥

  156. तथैव च मनुष्येषु ये मनुष्याः परधानतः आस्तिकाः शरद्दधानाश च बहुभिर जन्मभिः सतवैः ॥ 156 ॥

  157. जाग्रतश च सवपन्तश च वरजन्तः पथि संस्थिताः सतुवन्ति सतूयमानाश च तुष्यन्ति च रमन्ति च जन्म कॊटिसहस्रेषु नाना संसारयॊनिषु ॥ 157 ॥

  158. जन्तॊर विशुद्धपापस्य भवे भक्तिः परजायते उत्पन्ना च भवे भक्तिर अनन्या सर्वभावतः ॥ 158 ॥

  159. कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः एतद देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ 159 ॥

  160. निर्विघ्ना निश्चला रुद्रे भक्तिर अव्यभिचारिणी तस्यैव च परसादेन भक्तिर उत्पद्यते नृणाम यया यान्ति परां सिद्धिं तद्भावगतचेतसः ॥ 160 ॥

  161. ये सर्वभावॊपगताः परत्वेनाभवन नराः परपन्न वत्सलॊ देवः संसारात तान समुद्धरेत ॥ 161 ॥

  162. एवम अन्ये न कुर्वन्ति देवाः संसारमॊचनम मनुष्याणां महादेवाद अन्यत्रापि तपॊबलात ॥ 162 ॥

  163. इति तेनेन्द्र कल्पेन भगवान सद असत पतिः कृत्ति वासाः सतुतः कृष्ण तण्डिना शुद्धबुद्धिना ॥ 163 ॥

  164. सतवम एतं भगवतॊ बरह्मा सवयम अधारयत बरह्मा परॊवाच शक्राय शक्रः परॊवाच मृत्यवे ॥ 164 ॥

  165. मृत्युः परॊवाच रुद्राणां रुद्रेभ्यस तण्डिम आगमत महता तपसा पराप्तस तण्डिना बरह्म सद्मनि ॥ 165 ॥

  166. तण्डिः परॊवाच शुक्राय गौतमायाह भार्गवः वैवस्वताय मनवे गौतमः पराह माधव ॥ 166 ॥

  167. नारायणाय साध्याय मनुर इष्टाय धीमते यमाय पराह भगवान साध्यॊ नारायणॊ ऽचयुतः ॥ 167 ॥

  168. नाचिकेताय भगवान आह वैवस्वतॊ यमः मार्कण्डेयाय वार्ष्णेय नाचिकेतॊ ऽभयभाषत ॥ 168 ॥

  169. मार्कण्डेयान मया पराप्तं नियमेन जनार्दन तवाप्य अहम अमित्रघ्न सतवं दद्म्य अद्य विश्रुतम सवर्ग्यम आरॊग्यम आयुष्यं धन्यं बल्यं तथैव च ॥ 169 ॥

  170. न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः पिशाचा यातुधानाश च गुह्यका भुजगा अपि ॥ 170 ॥

  171. यः पठेत शुचिर भूत्वा बरह्म चारी जितेन्द्रियः अभग्न यॊगॊ वर्षं तु सॊ ऽशवमेध फलं लभेत ॥ 171 ॥

Reach this point to mark the section finished.

Continue to अध्याय 18

Previous: अध्याय 16