[कृस्न] मूर्ध्ना निपत्यनियतस तेजः संनिचये ततः परमं हर्षम आगम्य भगवन्तम अथाब्रुवम ॥ 1 ॥
धर्मे दृढत्वं युधि शत्रुघातं; यशस तथाग्र्यं परमं बलं च यॊगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि ॥ 2 ॥
एवम अस्त्व इति तद वाक्यं मयॊक्तः पराह शंकरः ॥ 3 ॥
ततॊ मां जगतॊ माता धरणी सर्वपावनी उवाचॊमा परणिहिता शर्वाणी तपसां निधिः ॥ 4 ॥
दतॊद भगवता पुत्रः साम्बॊ नाम तवानघ मत्तॊ ऽपय अष्टौ वरान इष्टान गृहाण तवं ददामि ते परणम्य शिरसा सा च मयॊक्ता पाण्डुनन्दन ॥ 5 ॥
दविजेष्व अकॊपं पितृतः परसादं; शतं सुतानाम उपभॊगं परं च कुले परीतिं मातृतश च परसादं; शम पराप्तिं परवृणे चापि दाक्ष्यम ॥ 6 ॥
[देवी] एवं भविष्यत्य अमरप्रभाव; नाहं मृषा जातु वदे कदा चित भार्या सहस्राणि च षॊडशैव; तासु परियत्वं च तथाक्षयत्वम ॥ 7 ॥
परीतिं चाग्र्यां बान्धवानां सकाशाद; ददामि ते वपुषः काम्यतां च भॊक्ष्यन्ते वै सप्ततिर वै शतानि; गृहे तुभ्यम अतिथीनां च नित्यम ॥ 8 ॥
[वासुदेव] एवं दत्त्वा वरान देवॊ मम देवी च भारत अन्तर्हितः कषणे तस्मिन सगणॊ भीम पूर्वज ॥ 9 ॥
एतद अत्यद्भुतं सर्वं बराह्मणायातितेजसे उपमन्यवे मया कृत्स्नम आख्यातं कौरवॊत्तम ॥ 10 ॥
नमस्कृत्वा तु स पराह देवदेवाय सुव्रत नास्ति शर्व समॊ दाने नास्ति शर्व समॊ रणे नास्ति शर्व समॊ देवॊ नास्ति शर्व समा गतिः ॥ 11 ॥
ऋषिर आसीत कृते तात तण्डिर इत्य एव विश्रुतः दशवर्षसहस्राणि तेन देवः समाधिना आराधितॊ ऽभूद भक्तेन तस्यॊदर्कं निशामय ॥ 12 ॥
स दृष्ट्ववान महादेवम अस्तौषीच च सतवैर विभुम पवित्राणां पवित्रस तवं गतिर गतिमतां वर अत्युग्रं तेजसां तेजस तपसां परमं तपः ॥ 13 ॥
विश्वावसुहिरण्याक्ष पुरुहूत नमस्कृत भूरि कल्याणद विभॊ पुरु सत्यनमॊ ऽसतु ते ॥ 14 ॥
जाती मरणभीरूणां यतीनां यततां विभॊ निर्वाणद सहस्रांशॊ नमस ते ऽसतु सुखाश्रय ॥ 15 ॥
बरह्मा शतक्रतुर विष्णुर विश्वे देवा महर्षयः न विदुस तवां तु तत्त्वेन कुतॊ वेत्स्यामहे वयम ॥ 16 ॥
तवत्तः परवर्तते कालस तवयि कालश च लीयते कालाख्यः पुरुषाख्यश च बरह्माख्यश च तवम एव हि ॥ 17 ॥
तनवस ते समृतास तिस्रः पुराणज्ञैः सुरर्षिभिः अधिपौरुषम अध्यात्मम अधिभूताधिदैवतम अधिलॊक्याधिविज्ञानम अधियज्ञस तवम एव हि ॥ 18 ॥
तवां विदित्वात्म देहस्थं दुर्विदं दैवतैर अपि विद्वांसॊ यान्ति निर्मुक्ताः परं भावम अनामयम ॥ 19 ॥
अनिच्छतस तव विभॊ जन्ममृत्युर अनेकतः दवारं तवं सवर्गमॊक्षाणाम आक्षेप्ता तवं ददासि च ॥ 20 ॥
तवम एव मॊक्षः सवर्गश च कामः करॊधस तवम एव हि सत्त्वं रजस तमश चैव अधश चॊर्ध्वं तवम एव हि ॥ 21 ॥
बरह्मा विष्णुश च रुद्रश च सकन्देन्द्रौ सविता यमः वरुणेन्दू मनुर धाता विधाता तवं धनेश्वरः ॥ 22 ॥
भूर वायुर जयॊतिर आपश च वाग्बुद्धिस तवं मतिर मनः कर्म सत्यानृते चॊभे तवम एवास्ति च नास्ति च ॥ 23 ॥
इन्द्रियाणीन्द्रियार्थाश च तत्परं परकृतेर धरुवम विश्वाविश्व परॊ भावश चिन्त्याचिन्त्यस तवम एव हि ॥ 24 ॥
यच चैतत परमं बरह्म यच च तत्परमं पदम या गतिः सांख्ययॊगानां स भवान नात्र संशयः ॥ 25 ॥
नूनम अद्य कृतार्थाः सम नूनं पराप्ताः सतां गतिम यां गतिं पराप्नुवन्तीह जञाननिर्मल बुद्धयः ॥ 26 ॥
अहॊ मूढाः सम सुचिरम इमं कालम अचेतसः यन न विद्मः परं देवं शाश्वतं यं विदुर बुधाः ॥ 27 ॥
सॊ ऽयम आसादितः साक्षाद बहुभिर जन्मभिर मया भक्तानुग्रह कृद देवॊ यं जञात्वामृतम अश्नुते ॥ 28 ॥
देवासुरमनुष्याणां यच च गुह्यं सनातनम गुहायां निहितं बरह्म दुर्विज्ञेयं सुरैर अपि ॥ 29 ॥
स एष भगवान्द देवः सर्वकृत सर्वतॊ मुखः सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ 30 ॥
पराणकृत पराणभृत पराणी पराणदः पराणिनां गतिः देहकृद देहभृद देही देहभुग देहिनां गतिः ॥ 31 ॥
अध्यात्मगतिनिष्ठानां धयानिनाम आत्मवेदिनाम अपुनर्मार कामानां या गतिः सॊ ऽयम ईश्वरः ॥ 32 ॥
अयं च सर्वभूतानां शुभाशुभगतिप्रदः अयं च जन्म मरणे विदध्यात सर्वजन्तुषु ॥ 33 ॥
अयं च सिद्धिकामानाम ऋषीणां सिद्धिदः परभुः अयं च मॊक्षकामानां दविजानां मॊक्षदः परभुः ॥ 34 ॥
भूर आद्यान सर्वभुवनान उत्पाद्य स दिवौकसः विभर्ति देवस तनुभिर अष्टाभिश च ददाति च ॥ 35 ॥
अतः परवर्तते सर्वम अस्मिन सर्वं परतिष्ठितम अस्मिंश च परलयं याति अयम एकः सनातनः ॥ 36 ॥
अयं स सत्यकामानां सत्यलॊकः परः सताम अपवर्गश च मुक्तानां कैवल्यं चात्मवादिनाम ॥ 37 ॥
अयं बरह्मादिभिः सिद्धैर गुहायां गॊपितः परभुः देवासुरमनुष्याणां न परकाशॊ भवेद इति ॥ 38 ॥
तं तवां देवासुरनरास तत्त्वेन न विदुर भवम मॊहिताः खल्व अनेनैव हृच्छयेन परवेशिताः ॥ 39 ॥
ये चैनं संप्रपद्यन्ते भक्तियॊगेन भारत तेषाम एवात्मनात्मानं दर्शयत्य एष हृच्छयः ॥ 40 ॥
यं जञात्वा न पुनर्जन्म मरणं चापि विद्यते यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ 41 ॥
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः पराणसूक्ष्मां परां पराप्तिम आगच्छत्य अक्षयावहाम ॥ 42 ॥
यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः सूक्ष्मज्ञानरताः पूर्वं जञात्वा मुच्यन्ति बन्धनैः ॥ 43 ॥
यं च वेद विदॊ वेद्यं वेदान्तेषु परतिष्ठितम पराणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ 44 ॥
अयं स देव यानानाम आदित्यॊ दवारम उच्यते अयं च पितृयानानां चन्द्रमा दवारम उच्यते ॥ 45 ॥
एष कालगतिश चैत्रा संवत्सरयुगादिषु भावाभावौ तदात्वे च अयने दक्षिणॊत्तरे ॥ 46 ॥
एवं परजापतिः पूर्वम आराध्य बहुभिः सतवैः वरयाम आस पुत्रत्वे नीललॊहित संज्ञितम ॥ 47 ॥
ऋग्भिर यम अनुशंसन्ति तन्त्रे कर्मणि बह्व ऋचः यजुर्भिर यं तरिधा वेद्यं जुह्वत्य अध्वर्यवॊ ऽधवरे ॥ 48 ॥
सामभिर यं च गायन्ति सामगाः शुद्धबुद्धयः यज्ञस्य परमा यॊनिः पतिश चायं परः समृतः ॥ 49 ॥
रात्र्यहः शरॊत्रनयनः पक्षमास शिरॊ भुजः ऋतुवीर्यस तपॊ धैर्यॊ हय अब्द गुह्यॊरु पादवान ॥ 50 ॥
मृत्युर यमॊ हुताशश च कालः संहार वेगवान कालस्य परमा यॊनिः कालश चायं सनातनः ॥ 51 ॥
चन्द्रादित्यौ स नक्षत्रौ सग्रहौ सह वायुना धरुवः सप्तर्षयश चैव भुवनाः सप्त एव च ॥ 52 ॥
परधानं महद अव्यक्तं विशेषान्तं स वैकृतम बरह्मादि सतम्ब पर्यन्तं भूतादि सद असच च यत ॥ 53 ॥
अष्टौ परकृतयश चैव परकृतिभ्यश च यत परम अस्य देवस्य यद भागं कृत्स्नं संपरिवर्तते ॥ 54 ॥
एतत परमम आनन्दं यत तच छाश्वतम एव च एषा गतिर विरक्तानाम एष भावः परः सताम ॥ 55 ॥
एतत पदम अनुद्विग्नम एतद बरह्म सनातनम शास्त्रवेदाङ्गविदुषाम एतद धयानं परं पदम ॥ 56 ॥
इयं सा परमा काष्ठा इयं सा परमा कला इयं सा परमा सिद्धिर इयं सा परमा गतिः ॥ 57 ॥
इयं सा परमा शान्तिर इयं सा निर्वृतिः परा यं पराप्य कृतकृत्याः सम इत्य अमन्यन्त वेधसः ॥ 58 ॥
इयं तुष्टिर इयं सिद्धिर इयं शरुतिर इयं समृतिः अध्यात्मगतिनिष्ठानां विदुषां पराप्तिर अव्यया ॥ 59 ॥
यजतां यज्ञकामानां यज्ञैर विपुलदक्षिणैः या गतिर देवतैर दिव्या सा गतिस तवं सनातन ॥ 60 ॥
जप्यहॊमव्रतैः कृच्छ्रैर नियमैर देहपातनैः तप्यतां या गतिर देव वैरजे सा गतिर भवान ॥ 61 ॥
कर्म नयासकृतानां च विरक्तानां ततस ततः या गतिर बरह्मभवने सा गतिस तवं सनातन ॥ 62 ॥
अपुनर्मार कामानां वैराग्ये वर्ततां परे विकृतीनां लयानां च सा गतिस तवं सनातन ॥ 63 ॥
जञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना कैवल्या या गतिर देव परमा सा गतिर भवान ॥ 64 ॥
वेद शास्त्रपुराणॊक्ताः पञ्चैता गतयः समृताः तवत्प्रसादाद धि लभ्यन्ते न लभ्यन्ते ऽनयथा विभॊ ॥ 65 ॥
इति तण्डिस तपॊयॊगात तुष्टावेशानम अव्ययम जगौ च परमं बरह्म यत पुरा लॊककृज जगौ ॥ 66 ॥
बरह्मा शतक्रतुर विष्णुर विश्वे देवा महर्षयः न विदुस तवाम इति ततस तुष्टः परॊवाच तं शिवः ॥ 67 ॥
अक्षयश चाव्ययश चैव भविता दुःखवर्जितः यशस्वी तेजसा युक्तॊ दिव्यज्ञानसमन्वितः ॥ 68 ॥
ऋषीणाम अभिगम्यश च सूत्रकर्ता सुतस तव मत्प्रसादाद दविजश्रेष्ठ भविष्यति न संशयः ॥ 69 ॥
कं वा कामं ददाम्य अद्य बरूहि यद वत्स काङ्क्षसे पराञ्जलिः स उवाचेदं तवयि भक्तिर दृढास्तु मे ॥ 70 ॥
एवं दत्त्वा वरं देवॊ वन्द्यमानः सुरर्षिभिः सतूयमानश च विबुधैस तत्रैवान्तरधीयत ॥ 71 ॥
अन्तर्हिते भगवति सानुगे यादवेश्वर ऋषिर आश्रमम आगम्य ममैतत परॊक्तवान इह ॥ 72 ॥
यानि च परथितान्य आदौ तण्डिर आख्यातवान मम नामानि मानवश्रेष्ठ तानि तवं शृणु सिद्धये ॥ 73 ॥
दश नाम सहस्राणि वेदेष्व आह पितामहः शर्वस्य शास्त्रेषु तथा दश नाम शतानि वै ॥ 74 ॥
गुह्यानीमानि नामानि तण्डिर भगवतॊ ऽचयुत देवप्रसादाद देवेश पुरा पराह महात्मने ॥ 75 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17