धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 15

  1. [उप] एतान सहस्रशश चान्यान समनुध्यातवान हरः कस्मात परसादं भगवान न कुर्यात तव माधव ॥ 1 ॥

  2. तवादृशेन हि देवानां शलाघनीयः समागमः बरह्मण्येनानृशंसेन शरद्दधानेन चाप्य उत जप्यं च ते परदास्यामि येन दरक्ष्यसि शंकरम ॥ 2 ॥

  3. [कृस्न] अब्रुवं तम अहं बरह्मंस तवत्प्रसादान महामुने दरक्ष्ये दितिजसंघानां मर्दनं तरिदशेश्वरम ॥ 3 ॥

  4. दिने ऽषटमे च विप्रेण दीक्षितॊ ऽहं यथाविधि दण्डी मुण्डी कुशी चीरी घृताक्तॊ मेखली तथा ॥ 4 ॥

  5. मासम एकं फलाहारॊ दवितीयं सलिलाशनः तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ॥ 5 ॥

  6. एकपादेन तिष्ठंश च ऊर्ध्वबाहुर अतन्द्रितः तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ 6 ॥

  7. तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन इन्द्रायुधपिनद्धाङ्गं विद्युन्माला गवाक्षकम नीलशैलचय परख्यं बलाका भूषितं घनम ॥ 7 ॥

  8. तम आस्थितश च भगवान देव्या सह महाद्युतिः तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ 8 ॥

  9. रराज भगवांस तत्र देव्या सह महेश्वरः सॊमेन सहितः सूर्यॊ यथा मेघस्थितस तथा ॥ 9 ॥

  10. संहृष्टरॊमा कौन्तेय विस्मयॊत्फुल्ललॊचनः अपश्यं देवसंघानां गतिम आर्तिहरं हरम ॥ 10 ॥

  11. किरीटिनं गदिनं शूलपाणिं; वयाघ्राजिनं जटिलं दण्डपाणिम पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं वयालयज्ञॊपवीतम ॥ 11 ॥

  12. दिव्यां मालाम उरसानेक वर्णां; समुद्वहन्तं गुल्फ देशावलम्बाम चन्द्रं यथा परिविष्टं ससंध्यं; वर्षात्यये तद्वद अपश्यम एनम ॥ 12 ॥

  13. परथमानां गणैश चैव समन्तात परिवारितम शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम ॥ 13 ॥

  14. एकादश तथा चैनं रुद्राणां वृषवाहनम अस्तुवन नियतात्मानः कर्मभिः शुभकर्मिणम ॥ 14 ॥

  15. आदित्या वसवः साध्या विश्वे देवास तथाश्विनौ विश्वाभिः सतुतिभिर देवं विश्वदेवं समस्तुवन ॥ 15 ॥

  16. शतक्रतुश च भगवान विष्णुश चादितिनन्दनौ बरह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥ 16 ॥

  17. यॊगीश्वराः सुबहवॊ यॊगदं पितरं गुरुम बरह्मर्षयश च स सुतास तथा देवर्षयश च वै ॥ 17 ॥

  18. पृतिवी चान्तरिक्षं च नक्षत्राणि गरहास तथा मासार्ध मासा ऋतवॊ रात्र्यः संवत्सराः कषणाः ॥ 18 ॥

  19. मुहूर्ताश च निमेषाश च तथैव युगपर्ययाः दिव्या राजन नमस्यन्ति विद्याः सर्वा दिशस तथा ॥ 19 ॥

  20. सनत्कुमारॊ वेदांश च इतिहासास तथैव च मरीचिर अङ्गिरा अत्रिः पुलस्त्यः पुलहः करतुः ॥ 20 ॥

  21. मनवः सप्त सॊमश च अथर्वा स बृहस्पतिः भृगुर दक्षः कश्यपश च वसिष्ठः काश्य एव च ॥ 21 ॥

  22. छन्दांसि दीक्षा यज्ञाश च दक्षिणाः पावकॊ हविः यज्ञॊपगानि दरव्याणि मूर्तिमन्ति युधिष्ठिर ॥ 22 ॥

  23. परजानां पतयः सर्वे सरितः पन्नगा नगाः देवानां मातरः सर्वा देवपत्न्यः स कन्यकाः ॥ 23 ॥

  24. सहस्राणि मुनीनां च अयुतान्य अर्बुदानि च नमस्यन्ति परभुं शान्तं पर्वताः सागरा दिशः ॥ 24 ॥

  25. गन्धर्वाप्सरसश चैव गीतवादित्रकॊविदाः दिव्यतानेन गायन्तः सतुवन्ति भवम अद्भुतम विद्याधरा दानवाश च गुह्यका राक्षसास तथा ॥ 25 ॥

  26. सर्वाणि चैव भूतानि सथावराणि चराणि च नमस्यन्ति महाराज वान मनः कर्मभिर विभुम पुरस्ताद विष्ठितः शर्वॊ ममासीत तरिदशेश्वरः ॥ 26 ॥

  27. पुरस्ताद विष्ठितं दृष्ट्वा ममेशानं च भारत स परजापतिशक्रान्तं जगन माम अभ्युदैक्षत ॥ 27 ॥

  28. ईक्षितुं च महादेवं न मे शक्तिर अभूत तदा ततॊ माम बरवीद देवः पश्य कृष्ण वदस्व च ॥ 28 ॥

  29. शिरसा वन्दिते देवे देवी परीता उमाभवत ततॊ ऽहम अस्तुवं सथाणुं सतुतं बरह्मादिभिः सुरैः ॥ 29 ॥

  30. नमॊ ऽसतु ते शाश्वतसर्वयॊने; बरह्माधिपं तवाम ऋषयॊ वदन्ति तपश च सत्त्वं च रजस; तमश च तवाम एव सत्यं च वदन्ति सन्तः ॥ 30 ॥

  31. तवं वै बरह्मा च रुद्रश च वरुणॊ ऽगनिर मनुर भवः धाता तवष्टा विधाता च तवं परभुः सर्वतॊ मुखः ॥ 31 ॥

  32. तवत्तॊ जातानि भूतानि सथावराणि चराणि च तवम आदिः सर्वभूतानां संहारश च तवम एव हि ॥ 32 ॥

  33. ये चेन्द्रियार्थाश च मनश च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः ये वा दिविस्था देवताश चापि पुंसां; तस्मात परं तवाम ऋषयॊ वदन्ति ॥ 33 ॥

  34. वेदा यज्ञाश च सॊमश च दक्षिणा पावकॊ हविः यज्ञॊपगं च यत किं चिद भगवांस तद असंशयम ॥ 34 ॥

  35. इष्टं दत्तम अधीतं च वरतानि नियमाश च ये हरीः कीर्तिः शरीर दयुतिस तुष्टिः सिद्धिश चैव तवद अर्पणा ॥ 35 ॥

  36. कामः करॊधॊ भयं लॊभॊ मदः सतम्भॊ ऽथ मत्सरः आधयॊ वयाधयश चैव भगवंस तनयास तव ॥ 36 ॥

  37. कृतिर विकारः परलयः परधानं परभवॊ ऽवययः मनसः पररमा यॊनिः सवभावश चापि शाश्वतः अव्यक्तः पावन विभॊ सहस्रांशॊ हिरण्मयः ॥ 37 ॥

  38. आदिर गुणानां सर्वेषां भवान वै जीवनाश्रयः महान आत्मा मतिर बरह्मा विश्वः शम्भुः सवयम्भुवः ॥ 38 ॥

  39. बुद्धिः परज्ञॊपलब्धिश च संवित खयातिर धृतिः समृतिः पर्याय वाचकैः शब्दैर महान आत्मा विभाव्यसे ॥ 39 ॥

  40. तवां बुद्ध्वा बराह्मणॊ विद्वान अन परमॊहं निगच्छति हृदयं सर्वभूतानां कषेत्रज्ञस तवम ऋषिष्टुतः ॥ 40 ॥

  41. सर्वतः पाणिपादस तवं सर्वतॊ ऽकषिशिरॊमुखः सर्वतः शरुतिमाँल लॊके सर्वम आवृत्य तिष्ठसि ॥ 41 ॥

  42. फलं तवम असि तिग्मांशॊ निमेषादिषु कर्मसु तवं वै परभार्चिः पुरुषः सर्वस्य हृदि संस्थितः अणिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः ॥ 42 ॥

  43. तवयि बुद्धिर मतिर लॊकाः परपन्नाः संश्रिताश च ये धयानिनॊ नित्ययॊगाश च सत्यसंधा जितेन्द्रियाः ॥ 43 ॥

  44. यस तवां धरुवं वेदयते गुहा शयं; परभुं पुराणं पुरुषं विश्वरूपम हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान बुद्धिम अतीत्य तिष्ठति ॥ 44 ॥

  45. विदित्वा सप्त सूक्ष्माणि षडङ्गं तवां च मूर्तितः परधानविधियॊगस्थस तवाम एव विशते बुधः ॥ 45 ॥

  46. एवम उक्ते मया पार्थ भवे चार्ति विनाशने चराचरं जगत सर्वं सिंहनादम अथाकरॊत ॥ 46 ॥

  47. स विप्र संघाश च सुरासुराश च; नागाः पिशाचाः पितरॊ वयांसि रक्षॊगणा बूत गणाश च सर्वे; महर्षयश चैव तथा परणेमुः ॥ 47 ॥

  48. मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्दिनाम राशयॊ निपतन्ति सम वायुश च सुसुखॊ ववौ ॥ 48 ॥

  49. निरीक्ष्य भगवान देवीम उमां मां च जगद धितः शतक्रतुं चाभिवीक्ष्य सवयं माम आह शंकरः ॥ 49 ॥

  50. विद्मः कृष्ण परां भक्तिम अस्मासु तव शत्रुहन करियताम आत्मनः शरेयः परीतिर हि परमा तवयि ॥ 50 ॥

  51. वृणीष्वाष्टौ वरान कृष्ण दातास्मि तव सत्तम बरूहि यादव शार्दूलयान इच्छसि सुदुर्लभान ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 16

Previous: अध्याय 14