धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 153

  1. [व] ततः कुन्तीसुतॊ राजा पौरजानपदं जनम पूजयित्वा यथान्यायम अनुजज्ञे गृहान परति ॥ 1 ॥

  2. सान्त्वयाम आस नारीश च हतवीरा हतेश्वराः विपुलै रथदानैश च तदा पाण्डुसुतॊ नृपः ॥ 2 ॥

  3. सॊ ऽभिषिक्तॊ महाप्राज्ञः पराप्य राज्यं युधिष्ठिरः अवस्थाप्य नरश्रेष्ठः सर्वाः सवप्रकृतीस तदा ॥ 3 ॥

  4. दविजेभ्यॊ बलमुख्येभ्यॊ नैगमेभ्यश च सर्वशः परतिगृह्याशिषॊ मुख्यास तदा धर्मभृतां वरः ॥ 4 ॥

  5. उषित्वा शर्वरीः शरीमान पञ्चाशन नगरॊत्तमे समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ 5 ॥

  6. स निर्ययौ गजपुराद याजकैः परिवारितः दृष्ट्वा निवृत्तम आदित्यं परवृत्तं चॊत्तरायणम ॥ 6 ॥

  7. घृतं माल्यं च गन्धांश च कषौमाणि च युधिष्ठिरः चन्दनागरुमुख्यानि तथा कालागरूणि च ॥ 7 ॥

  8. परस्थाप्य पूर्वं कौन्तेयॊ भीष्म संसाधनाय वै माल्यानि च महार्हाणि रत्नानि विविधानि च ॥ 8 ॥

  9. धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम मातरं च पृथां धीमान भरातॄंश च पुरुषर्षभः ॥ 9 ॥

  10. जनार्दनेनानुगतॊ विदुरेण च धीमता युयुत्सुना च कौरव्यॊ युयुधानेन चाभिभॊ ॥ 10 ॥

  11. महता राजभॊग्येन परिबर्हेण संवृतः सतूयमानॊ महाराज भीष्मस्याग्नीन अनुव्रजन ॥ 11 ॥

  12. निश्चक्राम पुरात तस्माद यथा देवपतिस तथा आससाद कुरुक्षेत्रे ततः शांतनवं नृपम ॥ 12 ॥

  13. उपास्यमानं वयासेन पाराशर्येण धीमता नारदेन च राजर्षे देवलेनासितेन च ॥ 13 ॥

  14. हतशिष्टैर नृपैश चान्यैर नानादेशसमागतैः रक्षिभिश च महात्मानं रक्ष्यमाणं समन्ततः ॥ 14 ॥

  15. शयानं वीरशयने ददर्श नृपतिस ततः ततॊ रथाद अवारॊहद भरातृभिः सहधर्मराट ॥ 15 ॥

  16. अभिवाद्याथ कौन्तेयः पितामहम अरिंदमम दवैपायनादीन विप्रांश च तैश च परत्यभिनन्दितः ॥ 16 ॥

  17. ऋत्विग्भिर बरह्मकल्पैश च भरातृभिश च सहाच्युतः आसाद्य शरतल्पस्थम ऋषिभिः परिवारितम ॥ 17 ॥

  18. अब्रवीद भरतश्रेष्ठं धर्मराजॊ युधिष्ठिरः भरातृभिः सह कौरव्य शयानं निम्नगा सुतम ॥ 18 ॥

  19. युधिष्ठिरॊ ऽहं नृपते नमस ते जाह्नवीसुत शृणॊषि चेन महाबाहॊ बरूहि किं करवाणि ते ॥ 19 ॥

  20. पराप्तॊ ऽसमि समये राजन्न अग्नीन आदाय ते विभॊ आचार्या बराह्मणाश चैव ऋत्विजॊ भरातरश च मे ॥ 20 ॥

  21. पुत्रश च ते महातेजा धृतराष्ट्रॊ जनेश्वरः उपस्थितः सहामात्यॊ वासुदेवश च वीर्यवान ॥ 21 ॥

  22. हतशिष्टाश च राजानः सर्वे च कुरुजाङ्गलाः तान पश्य कुरुशार्दूल समुन्मीलय लॊचने ॥ 22 ॥

  23. यच चेह किं चित कर्तव्यं तत सर्वं परापितं मया यथॊक्तं भवता काले सर्वम एव च तत कृतम ॥ 23 ॥

  24. एवम उक्तस तु गाङ्गेयः कुन्तीपुत्रेण धीमता ददर्श भारतान सर्वान सथितान संपरिवार्य तम ॥ 24 ॥

  25. ततश चल वलिर भीष्मः परगृह्य विपुलं भुजम ओघमेघस्वनॊ वाग्मी काले वचनम अब्रवीत ॥ 25 ॥

  26. दिष्ट्या पराप्तॊ ऽसि कौन्तेय सहामात्यॊ युधिष्ठिर परिवृत्तॊ हि भगवान सहस्रांशुर दिवाकरः ॥ 26 ॥

  27. अष्ट पञ्चाशतं रात्र्यः शयानस्याद्य मे गताः शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ 27 ॥

  28. माघॊ ऽयं समनुप्राप्तॊ मासः पुण्यॊ युधिष्ठिर तरिभागशेषः पक्षॊ ऽयं शुक्लॊ भवितुम अर्हति ॥ 28 ॥

  29. एवम उक्त्वा तु गाङ्गेयॊ धर्मपुत्रं युधिष्ठिरम धृतराष्ट्रम अथामन्त्र्य काले वचनम अब्रवीत ॥ 29 ॥

  30. राजन विदितधर्मॊ ऽसि सुनिर्णीतार्थ संशयः बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ 30 ॥

  31. वेद शास्त्राणि सर्वाणि धर्मांश च मनुजेश्वर वेदांश च चतुरः साङ्गान निखिलेनावबुध्यसे ॥ 31 ॥

  32. न शॊचितव्यं कौरव्य भवितव्यं हि तत तथा शरुतं देव रहस्यं ते कृष्णद्वैपायनाद अपि ॥ 32 ॥

  33. यथा पाण्डॊः सुता राजंस तथैव तव धर्मतः तान पालय सथितॊ धर्मे गुरुशुश्रूषणे रतान ॥ 33 ॥

  34. धर्मराजॊ हि शुद्धात्मा निदेशे सथास्यते तव आनृशंस्य परं हय एनं जानामि गुरुवत्सलम ॥ 34 ॥

  35. तव पुत्रा दुरात्मानः करॊधलॊभ परायणाः ईर्ष्याभिभूता दुर्वृत्तास तान न शॊचितुम अर्हसि ॥ 35 ॥

  36. [व] एतावद उक्त्वा वचनं धृतराष्ट्रं मनीषिणम वासुदेवं महाबाहुम अभ्यभाषत कौरवः ॥ 36 ॥

  37. भगवन देवदेवेश सुरासुरनमस्कृत तरिविक्रम नमस ते ऽसतु शङ्खचक्रगदाधर ॥ 37 ॥

  38. अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषॊत्तम रक्ष्याश च ते पाण्डवेया भवान हय एषां परायणम ॥ 38 ॥

  39. उक्तवान अस्मि दुर्बुद्धिं मन्दं दुर्यॊधनं पुरा यतः कृष्णस ततॊ धर्मॊ यतॊ धर्मस ततॊ जयः ॥ 39 ॥

  40. वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः संधानस्य परः कालस तवेति च पुनः पुनः ॥ 40 ॥

  41. न च मे तद वचॊ मूढः कृतवान स सुमन्दधीः घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ 41 ॥

  42. तवां च जानाम्य अहं वीर पुराणम ऋषिसत्तमम नरेण सहितं देवं बदर्यां सुचिरॊषितम ॥ 42 ॥

  43. तथा मे नारदः पराह वयासश च सुमहातपाः नरनारायणाव एतौ संभूतौ मनुजेष्व इति ॥ 43 ॥

  44. [वा] आनुजानामि भीष्म तवां वसून आप्नुहि पार्थिव न ते ऽसति वृजिनं किं चिन मया दृष्टं महाद्युते ॥ 44 ॥

  45. पितृभक्तॊ ऽसि राजर्षे मार्कण्डेय इवापरः तेन मृत्युस तव वशे सथितॊ भृत्य इवानतः ॥ 45 ॥

  46. [व] एवम उक्तस तु गाङ्गेयः पाण्डवान इदम अब्रवीत धृतराष्ट्र मुखांश चापि सर्वान ससुहृदस तथा ॥ 46 ॥

  47. पराणान उत्स्रष्टुम इच्छामि तन मानुज्ञातुम अर्हथ सत्ये परयतितव्यं वः सत्यं हि परमं बलम ॥ 47 ॥

  48. आनृशंस्य परैर भाव्यं सदैव नियतात्मभिः बरह्मण्यैर धर्मशीलैश च तपॊ नीत्यैश च भारत ॥ 48 ॥

  49. इत्य उक्त्वा सुहृदः सर्वान संपरिष्वज्य चैव ह पुनर एवाब्रवीद धीमान युधिष्ठिरम इदं वचः ॥ 49 ॥

  50. बराह्मणाश चैव ते नित्यं पराज्ञाश चैव विशेषतः आचार्या ऋत्विजश चैव पूजनीया नराधिप ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 154

Previous: अध्याय 152