धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 14

  1. [य] पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ॥ 1 ॥

  2. [भ] सुरासुरगुरॊ देव विष्णॊ तवं वक्तुम अर्हसि शिवाय विश्वरूपाय यन मां पृच्छद युधिष्ठिरः ॥ 2 ॥

  3. नाम्नां सहस्रं देवस्य तण्डिना बरह्मयॊनिना निवेदितं बरह्मलॊके बरह्मणॊ यत पुराभवत ॥ 3 ॥

  4. दवैपायनप्रभृतयस तथैवेमे तपॊधनाः ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस तव ॥ 4 ॥

  5. धरुवाय नन्दिने हॊत्रे गॊप्त्रे विश्वसृजे ऽगनये महाभाग्यं विभॊ बरूहि मुण्डिने ऽथ कपर्दिने ॥ 5 ॥

  6. [वासुदेव] न गतिः कर्मणां शक्या वेत्तुम ईशस्य तत्त्वतः ॥ 6 ॥

  7. हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः न विदुर यस्य निधनम आधिं वा सूक्ष्मदर्शिनः स कथं नरमात्रेण शक्यॊ जञातुं सतां गतिः ॥ 7 ॥

  8. तस्याहम असुरघ्नस्य कांश चिद भगवतॊ गुणान भवतां कीर्तयिष्यामि वरतेशाय यथातथम ॥ 8 ॥

  9. [व] एवम उक्त्वा तु भगवान गुणांस तस्य महात्मनः उपस्पृश्य शुचिर भूवा कथयाम आस धीमतः ॥ 9 ॥

  10. [व] शुश्रूषध्वं बराह्मणेन्द्रास तवं च तात युधिष्ठिर तवं चापगेय नामानि निशामय जगत्पतेः ॥ 10 ॥

  11. यद अवाप्तं च मे पूर्वं साम्ब हेतॊः सुदुष्करम यथा च भगवान दृष्टॊ मया पूर्वं समाधिना ॥ 11 ॥

  12. शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता अतीते दवादशे वर्षे जाम्बवत्य अब्रवीद धि माम ॥ 12 ॥

  13. परद्युम्न चारुदेष्णादीन रुक्मिण्या वीक्ष्य पुत्रकान पुत्रार्थिनी माम उपेत्य वाक्यम आह युधिष्ठिर ॥ 13 ॥

  14. शूरं बलवतां शरेष्ठं कान्त रूपम अलक्मषम आत्मतुल्यं मम सुतं परयच्छाच्युत माचिरम ॥ 14 ॥

  15. न हि ते ऽपराप्यम अस्तीह तरिषु लॊकेषु किं चन लॊकान सृजेस तवम अपरान इच्छन यदुकुलॊद्वह ॥ 15 ॥

  16. तवया दवादश वर्षाणि वायुभूतेन शुष्यता आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ॥ 16 ॥

  17. चारुदेष्णः सुचारुश च चारुवेषॊ यशॊधरः चारु शवराश चारु यशाः परद्युम्नः शम्भुर एव च ॥ 17 ॥

  18. यथा ते जनिताः पुत्रा रुक्मिण्याश चारु विक्रमाः तथा ममापि तनयं परयच्छ बलशालिनम ॥ 18 ॥

  19. इत्य एवं चॊदितॊ देव्या ताम अवॊचं सुमध्यमाम अनुजानीहि मां राज्ञि करिष्ये वचनं तव सा च माम अब्रवीद गच्छ विजयाय शिवाय च ॥ 19 ॥

  20. बरह्मा शिवः काश्यपश च नद्यॊ देवा मनॊऽनुगाः कषेत्रौषध्यॊ यज्ञवाहाच छन्दांस्य ऋषिगणा धरा ॥ 20 ॥

  21. समुद्रा दक्षिणा सतॊभा ऋक्षाणि पितरॊ गरहाः देवपत्न्यॊ देवकन्या देव मातर एव च ॥ 21 ॥

  22. मन्वन्तराणि गावश च चन्द्रमाः सविता हरिः सावित्री बरह्म विद्या च ऋतवॊ वत्सराः कषपाः ॥ 22 ॥

  23. कषणा लवा मुहूर्ताश च निमेषा युगपर्ययाः रक्षन्तु सर्वत्रगतं तवां यादव सुखावहम अरिष्टं गच्छ पन्थानम अप्रमत्तॊ भवानघ ॥ 23 ॥

  24. एवं कृतस्वस्त्ययनस तयाहं; ताम अभ्यनुज्ञाय कपीन्द्र पुत्रीम पितुः समीपे नरसत्तमस्य; मातुश च राज्ञश च तथाहुकस्य ॥ 24 ॥

  25. तम अर्थम आवेद्य यद अब्रवीन मां; विद्याधरेन्द्रस्य सुता भृशार्ता तान अभ्यनुज्ञाय तदाति दुःखाद; गदं तथैवातिबलं च रामम ॥ 25 ॥

  26. पराप्यानुनां गुरुजनाद अहं तार्क्ष्यम अचिन्तयम सॊ ऽवहद धिमवन्तं मां पराप्य चैनं वयसर्जयम ॥ 26 ॥

  27. तत्राहम अद्भुतान भावान अपश्यं गिरिसत्तमे कषेत्रं च तपसां शरेष्ठं पश्याम्य आश्रमम उत्तमम ॥ 27 ॥

  28. दिव्यं वैयाघ्रपद्यस्य उपमन्यॊर महात्मनः पुजितं देवगन्धर्वैर बराह्म्या लक्ष्म्या समन्वितम ॥ 28 ॥

  29. धव ककुभ कदम्बनारिकेलैः; कुर बककेतकजम्बुपाटलाभिः वट वरुणक वत्स नाभबिल्वैः; सरलकपित्थ परियालसाल तालैः ॥ 29 ॥

  30. बदरी कुन्दपुन्नागैर अशॊकाम्रातिमुक्तकैः भल्लातकैर मधूकैश च चम्पकैः पनसैस तथा ॥ 30 ॥

  31. वन्यैर बहुविधैर वृक्षैः फलपुष्पप्रदैर युतम पुष्पगुल्म लताकीर्णं कदली षण्डशॊभितम ॥ 31 ॥

  32. नानाशकुनिसंभॊज्यैः फलैर वृक्षैर अलं कृतम यथास्थानविनिक्षिप्तैर भूषितं वनराजिभिः ॥ 32 ॥

  33. रुरुवारणशार्दूल सिंहद्वीपिसमाकुलम कुरङ्ग बर्हिणाकीर्णं मार्जारभुजगावृतम पूगैश च मृगजातीनां महिषर्क्ष निषेवितम ॥ 33 ॥

  34. नानापुष्परजॊ मिश्रॊ गजदानाधिवासितः दिव्यस्त्री गीतबहुलॊ मारुतॊ ऽतर सुखॊ ववौ ॥ 34 ॥

  35. धारा निनादैर विहगप्रणादैः; शुभैस तथा बृंहितैः कुञ्जराणाम गीतैस तथा किं नराणाम उदारैः; शुभैः सवनैः सामगानां च वीर ॥ 35 ॥

  36. अचिन्त्यं मनसाप्य अन्यैः सरॊभिः समलं कृतम विशालैश चाग्निशरणैर भूषितं कुश संवृतम ॥ 36 ॥

  37. विभूषितं पुण्यपवित्र तॊयया; सदा च जुष्पं नृप जह्नुकन्यया महात्मभिर धर्मभृतां वरिष्ठैर; महर्षिभिर भूषितम अग्निकल्पैः ॥ 37 ॥

  38. वाय्वाहारैर अम्बुपैर जप्यनित्यैः; संप्रक्षालैर यतिभिर धयाननित्यैः धूमाशनैर ऊष्मपैः कषीरपैश च; विभूषितं बराह्मणेन्द्रैः समन्तात ॥ 38 ॥

  39. गॊचारिणॊ ऽथाश्म कुट्टा दन्तॊलूखलिनस तथा मरीचिपाः फेनपाश च तथैव मृगचारिणः ॥ 39 ॥

  40. सुदुःखान नियमांस तांस तान वहतः सुतपॊऽनवितान पश्यन उत्फुल्लनयनः परवेष्टुम उपचक्रमे ॥ 40 ॥

  41. सुपूजितं देवगणैर महात्मभिः; शिवादिभिर भारत पुण्यकर्मभिः रराज तच चाश्रममण्डलं सदा; दिवीव राजन रविमण्डलं यथा ॥ 41 ॥

  42. करीडन्ति सर्पैर नकुला मृगैर वयाघ्राश च मित्रवत परभावाद दीप्ततपसः संनिकर्ष गुणान्विताः ॥ 42 ॥

  43. तत्राश्रमपदे शरेष्ठे सर्वभूतमनॊरमे सेविते दविज शार्दूलैर वेदवेदाङ्गपारगैः ॥ 43 ॥

  44. नाना नियमविख्यातैर ऋषिभिश च महात्मभिः परविशन्न एव चापश्यं जटाचीरधरं परभुम ॥ 44 ॥

  45. तेजसा तपसा चैव दीप्यमानं यथानलम शिष्यमध्य गतं शान्तं युवानं बराह्मणर्षभम शिरसा वन्दमानं माम उपमन्युर अभाषत ॥ 45 ॥

  46. सवागतं पुण्डरीकाक्ष सफलानि तपांसि नः यत पूज्यः पूजयसि नॊ दरष्टव्यॊ दरष्टुम इच्छसि ॥ 46 ॥

  47. तम अहं पराञ्जलिर भूत्वा मृगपक्षिष्व अथाग्निषु धर्मे च शिष्यवर्गे च समपृच्छम अनामयम ॥ 47 ॥

  48. ततॊ मां भगवान आह साम्ना परमवल्गुना लप्स्यसे तनयं कृष्ण आत्मतुल्यम असंशयम ॥ 48 ॥

  49. तपः सुमहद आस्थाय तॊषयेशानम ईश्वरम इह देवः स पत्नीकः समाक्रीडत्य अधिक्षज ॥ 49 ॥

  50. इहैव देवता शरेष्ठं देवाः सर्षिगणा पुरा तपसा बरह्मचर्येण सत्येन च दमेन च तॊषयित्वा शुभान कामान पराप्नुवंस ते जनार्दन ॥ 50 ॥

  51. तेजसां तपसां चैव निधिः स भगवान इह शुभाशुभान्वितान भावान विसृजन संक्षिपन्न अपि आस्ते देव्या सहाचिन्त्यॊ यं परार्थयसि शत्रुहन ॥ 51 ॥

  52. हिरण्यकशिपुर यॊ ऽभूद दानवॊ मेरुकम्पनः तेन सर्वामरैश्वर्यं शर्वात पराप्तं समार्बुदम ॥ 52 ॥

  53. तस्यैव पुत्र परवरॊ मन्दरॊ नाम विश्रुतः महादेववराच छक्रं वर्षार्बुदम अयॊधयत ॥ 53 ॥

  54. विष्णॊश चक्रं च तद घॊरं वज्रम आखण्डलस्य च शीर्णं पुराभवत तात गरहस्याङ्गेषु केशव ॥ 54 ॥

  55. अर्द्यमानाश च विबुधा गरहेण सुबलीयसा शिव दत्तवराञ जघ्नुर असुरेन्द्रान सुरा भृशम ॥ 55 ॥

  56. तुष्टॊ विद्युत्प्रभस्यापि तरिलॊकेश्वरताम अदात शतं वर्षसहस्राणां सर्वलॊकेश्वरॊ ऽभवत ममैवानुचरॊ नित्यं भवितासीति चाब्रवीत ॥ 56 ॥

  57. तथा पुत्रसहस्राणाम अयुतं च ददौ परभुः कुश दवीपं च स ददौ राज्येन भगवान अजः ॥ 57 ॥

  58. तथा शतमुखॊ नाम धात्रा सृष्टॊ महासुरः येन वर्षशतं साग्रम आत्ममांसैर हुतॊ ऽनलः तं पराह भगवांस तुष्टः किं करॊमीति शंकरः ॥ 58 ॥

  59. तं वै शतमुखः पराह यॊगॊ भवतु मे ऽदभुतः बलं च दैवतश्रेष्ठ शाश्वतं संम्प्रयच्छ मे ॥ 59 ॥

  60. सवायम्भुवः करतुश चापि पुत्रार्थम अभवत पुरा आविश्य यॊगेनात्मानं तरीणि वर्षशतान्य अपि ॥ 60 ॥

  61. तस्य देवॊ ऽददत पुत्रान सहस्रं करतुसंमितान यॊगेश्वरं देव गीतं वेत्थ कृष्ण न संशयः ॥ 61 ॥

  62. वालखिल्या मघवता अवज्ञाताः पुरा किल तैः करुद्धैर भगवान रुद्रस तपसा तॊषितॊ हय अभूत ॥ 62 ॥

  63. तांश चापि दैवतश्रेष्ठः पराह परीतॊ जगत्पतिः सुपर्णं सॊमहर्तारं तपसॊत्पादयिष्यथ ॥ 63 ॥

  64. महादेवस्य रॊषाच च आपॊ नष्टाः पुराभवन तांश च सप्त कपालेन देवैर अन्याः परवर्तिताः ॥ 64 ॥

  65. अत्रेर भार्यापि भर्तारं संत्यज्य बरह्मवादिनी नाहं तस्य मुनेर भूयॊ वशगा सयां कथं चन इत्य उक्त्वा सा महादेवम अगच्छच छरणं किल ॥ 65 ॥

  66. निर आहारा भयाद अत्रेस तरिणि वर्षशतान्य अपि अशेत मुसलेष्व एव परसादार्थं भवस्य सा ॥ 66 ॥

  67. ताम अब्रवीद धसन देवॊ भविता वै सुतस तव वंशे तवैव नाम्ना तु खयातिं यास्यति चेप्सिताम ॥ 67 ॥

  68. शाकल्यः संशितात्मा वै नववर्षशतान्य अपि आराधयाम आस भवं मनॊ यज्ञेन केशव ॥ 68 ॥

  69. तं चाह भगवांस तुष्टॊ गरन्थ कारॊ भविष्यसि वत्साक्षया च ते कीर्तिस तरैलॊक्ये वै भविष्यति अक्षयं च कुलं ते ऽसतु महर्षिभिर अलं कृतम ॥ 69 ॥

  70. सावर्णिश चापि विख्यात ऋषिर आसीत कृते युगे इह तेन तपस तप्तं षष्टिं वर्षशतान्य अथ ॥ 70 ॥

  71. तम आह भगवान रुद्रः साक्षात तुष्टॊ ऽसमि ते ऽनघ गरन्थ कृल लॊकविख्यातॊ भवितास्य अजरामरः ॥ 71 ॥

  72. मयापि च यथादृष्टॊ देवदेवः पुरा विभुः साक्षात पशुपतिस तात तच चापि शृणु माधव ॥ 72 ॥

  73. यदर्थं च महादेवः परयतेन मया पुरा आराधितॊ महातेजास तच चापि शृणु विस्तरम ॥ 73 ॥

  74. यद अवाप्तं च मे पूर्वं देवदेवान महेश्वरात तत सर्वम अखिलेनाद्य कथयिष्यामि ते ऽनघ ॥ 74 ॥

  75. पुरा कृतयुगे तात ऋषिर आसीन महायशाः वयाघ्रपाद इति खयातॊ वेदवेदाङ्गपारगः तस्याहम अभवं पुत्रॊ धौम्यश चापि ममानुजः ॥ 75 ॥

  76. कस्य चित तव अथ कालस्य धौम्येन सहमाधव आगच्छम आश्रमं करीडन मुनीनां भावितात्मनाम ॥ 76 ॥

  77. तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी लक्षितं च मया कषीरं सवादुतॊ हय अमृतॊपमम ॥ 77 ॥

  78. ततः पिष्टं समालॊड्य तॊयेन सहमाधव आवयॊः कषीरम इत्य एव पानार्थम उपनीयते ॥ 78 ॥

  79. अथ गव्यं पयस तात कदा चित पराशितं मया ततः पिष्ट रसं तात न मे परीतिम उदावहत ॥ 79 ॥

  80. ततॊ ऽहम अब्रुवं बाल्याज जननीम आत्मनस तदा कषीरौदन समायुक्तं भॊजनं च परयच्छ मे ॥ 80 ॥

  81. ततॊ माम अब्रवीन माता दुःखशॊकसमन्विता पुत्रस्नेहात परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥ 81 ॥

  82. कुतः कषीरॊदनं वत्स मुनीनां भावितात्मनाम वने निवसतां नित्यं कन्दमूलफलाशिनाम ॥ 82 ॥

  83. अप्रसाद्य विरूपाक्षं वरदं सथाणुम अव्ययम कुतः कषीरॊदनं वत्स सुखानि वसनानि च ॥ 83 ॥

  84. तं परपद्य सदा वत्स सर्वभावेन शंकरम तत्प्रसादाच च कामेभ्यः फलं पराप्स्यसि पुत्रक ॥ 84 ॥

  85. जनन्यास तद वचः शरुत्वा तदा परभृति शत्रुहन मम भक्तिर महादेवे नैष्ठिकी समपद्यत ॥ 85 ॥

  86. ततॊ ऽहं तप आस्थाय तॊषयाम आस शंकरम दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ॥ 86 ॥

  87. एकं वर्षशतं चैव फलाहारस तदाभवम दवितीयं शीर्णपर्णाशी तृतीयं चाम्बुभॊजनः शतानि सप्त चैवाहं वायुभक्षस तदाभवम ॥ 87 ॥

  88. ततः परीतॊ महादेवः सर्वलॊकेश्वरः परभुः शक्र रूपं स कृत्वा तु सर्वैर देवगणैर वृतः सहस्राक्षस तदा भूत्वा वर्ज पाणिर महायशाः ॥ 88 ॥

  89. सुधावदातं रक्ताक्षं सतब्धकर्णं मदॊत्कटम आवेष्टित करं रौद्रं चतुर्दंष्ट्रं महागजम ॥ 89 ॥

  90. समास्थितश च भगवान दीप्यमानः सवतेजसा आजगाम किरीटी तु हारकेयूरभूषितः ॥ 90 ॥

  91. पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि सेव्यमानॊ ऽपसरॊभिश च दिव्यगन्धर्वनादितः ॥ 91 ॥

  92. ततॊ माम आह देवेन्द्रः परीतस ते ऽहं दविजॊत्तम वरं वृणीष्व मत्तस तव यत ते मनसि वर्तते ॥ 92 ॥

  93. शक्रस्य तु वचः शरुत्वा नाहं परीतमनाभवम अब्रुवं च तदा कृष्ण देवराजम इदं वचः ॥ 93 ॥

  94. नाहं तवत्तॊ वरं काङ्क्षे नान्यस्माद अपि दैवतात महादेवाद ऋते सौम्य सत्यम एतद बरवीमि ते ॥ 94 ॥

  95. पशुपतिवचनाद भवामि सद्यः; कृमिर अथ वा तरुर अप्य अनेकशाखः अपशु पतिवरप्रसादजा मे; तरिभुवन राज्यविभूतिर अप्य अनिष्टा ॥ 95 ॥

  96. अपि कीटः पतंगॊ वा भवेयं शंकराज्ञया न तु शक्र तवया दत्तं तरैलॊक्यम अपि कामये ॥ 96 ॥

  97. यावच छशाङ्क शकलामल बद्धमौलिर; न परीयते पशुपतिर भगवान ममेशः तावज जरामरणजन्म शताभिघातैर; दुःखानि देहविहितानि समुद्वहामि ॥ 97 ॥

  98. दिवसकर शशाङ्कवह्नि दीप्तं; तरिभुवन सारम अपारम आद्यम एकम अजरम अमरम अप्रसाद्य रुद्रं; जगति पुमान इह कॊ लभेत शान्तिम ॥ 98 ॥

  99. [षक्र] कः पुनस तव हेतुर वै ईशे कारणकारणे येन देवाद ऋते ऽनयस्मात परसादं नाभिकाङ्क्षसि ॥ 99 ॥

  100. [उप] हेतुभिर वा किम अन्यैस ते ईशः कारणकारणम न शुश्रुम यद अन्यस्य लिङ्गम अभ्यर्च्यते सुरैः ॥ 100 ॥

  101. कस्यान्यस्य सुरैः सर्वैर लिङ्गं मुक्त्वा महेश्वरम अर्च्यते ऽरचित पूर्वं वा बरूहि यद्य अस्ति ते शरुतिः ॥ 101 ॥

  102. यस्य बरह्मा च विष्णुश च तवं चापि सह दैवतैः अर्चयध्वं सदा लिङ्गं तस्माच छरेष्ठ तमॊ हि सः ॥ 102 ॥

  103. तस्माद वरम अहं काङ्क्षे निधनं वापि कौशिक गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥ 103 ॥

  104. कामम एष वरॊ मे ऽसतु शापॊ वापि महेश्वरात न चान्यां देवतां काङ्क्षे सर्वकामफलान्य अपि ॥ 104 ॥

  105. एवम उक्त्वा तु देवेन्द्रं दुःखाद आकुलितेन्द्रियः न परसीदति मे रुद्रः किम एतद इति चिन्तयन अथापश्यं कषणेनैव तम एवैरावतं पुनः ॥ 105 ॥

  106. हंसकुन्देन्दु सदृशं मृणालकुमुदप्रभम वृषरूपधरं साक्षात कषीरॊदम इव सागरम ॥ 106 ॥

  107. कृष्ण पुच्छं महाकायं मधुपिङ्गल लॊचनम जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम ॥ 107 ॥

  108. रक्ताक्षं सुमहानासं सुकर्णं सुकटी तटम सुपार्श्वं विपुर सकन्धं सुरूपं चारुदर्शनम ॥ 108 ॥

  109. ककुदं तस्य चाभाति सकन्धम आपूर्य विष्ठितम तुषारगिरिकूटाभं सिताभ्रशिखरॊपमम ॥ 109 ॥

  110. तम आस्थितश च भगवान देवदेवः सहॊमया अशॊभत महादेवः पौर्णमास्याम इवॊडुराट ॥ 110 ॥

  111. तस्य तेजॊ भवॊ वह्निः स मेघः सतनयित्नुमान सहस्रम इव सूर्याणां सर्वम आवृत्य तिष्ठति ॥ 111 ॥

  112. ईश्वरः सुमहातेजाः संवर्तक इवानलः युगान्ते सर्वभूतानि दिधक्षुर इव चॊद्यतः ॥ 112 ॥

  113. तेजसा तु तदा वयाप्ते दुर्निरीक्ष्ये समन्ततः पुनर उद्विग्नहृदयः किम एतद इति चिन्तयम ॥ 113 ॥

  114. मुहूर्तम इव तत तेजॊ वयाप्य सर्वा दिशॊ दिश परशान्तं च कषणेनैव देवदेवस्य मायया ॥ 114 ॥

  115. अथापश्यं सथितं सथाणुं भगवन्तं महेश्वरम सौरभेय गतं सौम्यं विधूमम इव पावकम सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम ॥ 115 ॥

  116. नीलकन्हं महात्मानम असक्तं तेजसां निधिम अष्टादश भुजं सथाणुं सर्वाभरणभूषितम ॥ 116 ॥

  117. शुक्लाम्बर धरं देवं शुक्लमाल्यानुलेपनम शुक्लध्वजम अनाधृष्यं शुक्लयज्ञॊपवीतिनम ॥ 117 ॥

  118. गायद्भिर नृत्यमानैश च उत्पतद्भिर इतस ततः वृत्तं पारिषदैर दिव्यैर आत्मतुल्यपराक्रमैः ॥ 118 ॥

  119. बालेन्दु मुकुटं पाण्डुं शरच चन्द्रम इवॊदितम तरिभिर नेत्रैः कृतॊद्द्यॊतं तरिभिः सूर्यैर इवॊदितैः ॥ 119 ॥

  120. अशॊभत च देवस्य माला गात्रे सितप्रभे जातरूपमयैः पद्मैर गरथिता रत्नभूषिता ॥ 120 ॥

  121. मूर्तिमन्ति तथास्त्राणि सर्वतेजॊमयानि च मया दृष्टानि गॊविन्द भवस्यामित तेजसः ॥ 121 ॥

  122. इन्द्रायुधसहस्राभं धनुस तस्य महात्मनः पिनाकम इति विख्यातं स च वै पन्नगॊ महान ॥ 122 ॥

  123. सप्त शीर्षॊ महाकायस तीक्ष्णदंष्ट्रॊ विषॊल्बणः जया वेष्टितमहाग्रीवः सथितः पुरुषविग्रहः ॥ 123 ॥

  124. शरश च सूर्यसंकाशः कालानलसमद्युतिः यत तद अस्त्रं महाघॊरं दिव्यं पाशुपतं महत ॥ 124 ॥

  125. अद्वितीयम अनिर्देश्यं सर्वभूतभयावहम स सफुलिङ्गं महाकायं विसृजन्तम इवानलम ॥ 125 ॥

  126. एकपादं महादंष्ट्रं सहस्रशिरसॊदरम सहस्रभुज जिह्वाक्षम उद्गिरन्तम इवानलम ॥ 126 ॥

  127. बराह्मान नारायणाद ऐन्द्राद आग्नेयाद अपि वारुणात यद विशिष्टं महाबाहॊ सर्वशस्त्रविघातनम ॥ 127 ॥

  128. येन तत तरिपुरं दग्ध्वा कषणाद भस्मीकृतं पुरा शरेणैकेन गॊविन्द महादेवेन लीलया ॥ 128 ॥

  129. निर्ददाह जगत कृत्स्नं तरैलॊक्यं स चराचरम महेश्वर भुजॊत्सृष्टं निमेषार्धान न संशयः ॥ 129 ॥

  130. नावध्यॊ यस्य लॊके ऽसमिन बरह्म विष्णुसुरेष्व अपि तद अहं दृष्टवांस तात आश्चर्याद भूतम उत्तमम ॥ 130 ॥

  131. गुह्यम अस्त्रं परं चापि तत्तुल्याधिकम एव वा यत तच छूलम इति खयातं सर्वलॊकेषु शूलिनः ॥ 131 ॥

  132. दारयेद यन महीं कृत्स्नां शॊषयेद वा महॊदधिम संहरेद वा जगत कृत्स्नं विसृष्टं शूलपाणिना ॥ 132 ॥

  133. यौवनाश्वॊ हतॊ येन मांधाता सबलः पुरा चक्रवर्ती महातेजास तरिलॊकविजयी नृपः ॥ 133 ॥

  134. महाबलॊ महावीर्यः शक्रतुल्यपराक्रमः करस्थेनैव गॊविन्द लवणस्येह रक्षसः ॥ 134 ॥

  135. तच छूलम अतितीक्ष्णाग्रं सुभीमं लॊमहर्षणम तरिशिखां भरुकुटीं कृत्वा तर्जमानम इव सथितम ॥ 135 ॥

  136. विधूमं सार्चिसं कृष्णं कालसूर्यम इवॊदितम सर्पहस्तम अनिर्देश्यं पाशहस्तम इवान्तकम दृष्टवान अस्मि गॊविन्द तद अस्त्रं रुद्र संनिधौ ॥ 136 ॥

  137. परशुस तीक्ष्णधारश च दत्तॊ रामस्य यः पुरा महादेवेन तुष्टेन कषत्रियाणां कषयं करः कार्तवीर्यॊ हतॊ येन चक्रवर्ती महामृधे ॥ 137 ॥

  138. तरिः सप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता जामदग्न्येन गॊविन्द रामेणाक्लिष्टकर्मणा ॥ 138 ॥

  139. दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्र वेष्टितः अभवच छूलिनॊ ऽभयाशे दीप्तवह्नि शिखॊपमः ॥ 139 ॥

  140. असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः परधान्यतॊ मयैतानि कीर्तितानि तवानघ ॥ 140 ॥

  141. सव्यदेशे तु देवस्य बरह्मा लॊकपितामहः दिव्यं विमानम आस्थाय हंसयुक्तं मनॊजवम ॥ 141 ॥

  142. वामपार्श्व गतश चैव तथा नारायणः सथितः वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥ 142 ॥

  143. सकन्दॊ मयूरम आस्थाय सथितॊ देव्याः समीपतः शक्तिं कन्हे समाधाय दवितीय इव पावकः ॥ 143 ॥

  144. पुरस्ताच चैव देवस्य नन्दिं पश्याम्य अवस्थितम शूलं विष्टभ्य तिष्ठन्तं दवितीयम इव शंकरम ॥ 144 ॥

  145. सवायम्भुवाद्या मनवॊ भृग्वाद्या ऋषयस तथा शक्राद्या देवताश चैव सर्व एव समभ्ययुः ॥ 145 ॥

  146. ते ऽभिवाद्य महात्मानं परिवार्य समन्ततः अस्तुवन विविधैः सतॊत्रैर महादेवं सुरास तदा ॥ 146 ॥

  147. बरह्मा भवं तदा सतुन्वन रथन्तरम उदीरयन जयेष्ठसाम्ना च देवेशं जगौ नारायणस तदा गृणञ शक्रः परं बरह्म शतरुद्रीयम उत्तमम ॥ 147 ॥

  148. बरह्मा नारायणश चैव देवराजश च कौशिकः अशॊभन्त महात्मानस तरयस तरय इवाग्नयः ॥ 148 ॥

  149. तेषां मध्यगतॊ देवॊ रराज भगवाञ शिवः शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान ततॊ ऽहम अस्तुवं देवं सतवेनानेन सुव्रतम ॥ 149 ॥

  150. नमॊ देवाधिदेवाय महादेवाय वै नमः शक्राय शक्र रूपाय शक्र वेषधराय च ॥ 150 ॥

  151. नमस ते वर्ज हस्ताय पिङ्गलायारुणाय च पिनाक पाणये नित्यं खड्गशूलधराय च ॥ 151 ॥

  152. नमस ते कृष्ण वासाय कृष्ण कुञ्चितमूर्धजे कृष्णाजिनॊत्तरीयाय कृष्णाष्टम इतराय च ॥ 152 ॥

  153. शुक्लवर्णाय शुक्लाय शुक्लाम्बर धराय च शुक्लभस्मावलिप्ताय शुक्लकर्म रताय च ॥ 153 ॥

  154. तवं बरह्मा सर्वदेवानां रुद्राणां नीललॊहितः आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे ॥ 154 ॥

  155. ऋषभस तवं पवित्राणां यॊगिनां निष्कलः शिवः आश्रमाणां गृहस्थस तवम ईश्वराणां महेश्वरः कुबेरः सर्वयक्षाणां करतूनां विष्णुर उच्यसे ॥ 155 ॥

  156. पर्वतानां महामेरुर नक्षत्राणां च चन्द्रमाः वसिष्ठस तवम ऋषीणां च गरहाणां सूर्य उच्यसे ॥ 156 ॥

  157. आरण्यानां पशूनां च सिंहस तवं परमेश्वरः गराह्याणां गॊवृषश चासि भगवाँल लॊकपूजितः ॥ 157 ॥

  158. आदित्यानां भवान विष्णुर वसूनां चैव पावकः पक्षिणां वैनतेयश च अनन्तॊ भुजगेषु च ॥ 158 ॥

  159. सामवेदश च वेदानां यजुषां शतरुद्रियम सनत्कुमारॊ यॊगीनां सांख्यानां कपिलॊ हय असि ॥ 159 ॥

  160. शक्रॊ ऽसि मरुतां देव पितॄणां धर्मराड असि बरह्मलॊकश च लॊकानां गतीनां मॊक्ष उच्यसे ॥ 160 ॥

  161. कषीरॊदः सागराणां च शैलानां हिमवान गिरिः वर्णानां बराह्मणश चासि विप्राणां दीक्षितॊ दविजः आदिस तवम असि लॊकानां संहर्ता काल एव च ॥ 161 ॥

  162. यच चान्यद अपि लॊकेषु सत्त्वं तेजॊ ऽधिकं समृतम तत सर्वं भगवान एव इति मे निश्चिता मतिः ॥ 162 ॥

  163. नमस ते भगवन देव नमस ते भक्त वत्सल यॊगेश्वर नमस ते ऽसतु नमस ते विश्वसंभव ॥ 163 ॥

  164. परसीद मम भक्तस्य दीनस्य कृपणस्य च अनैश्वर्येण युक्तस्य गतिर भव सनातन ॥ 164 ॥

  165. यं चापराधं कृतवान अज्ञानात परमेश्वर मद्भक्त इति देवेश तत सर्वं कषन्तुम अर्हसि ॥ 165 ॥

  166. मॊहितश चास्मि देवेश तुभ्यं रूपविपर्ययात तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ॥ 166 ॥

  167. एवं सतुत्वाहम ईशानं पाद्यम अर्घ्यं च भक्तितः कृताञ्जलिपुटॊ भूत्वा सर्वं तस्मै नयवेदयम ॥ 167 ॥

  168. ततः शीलाम्बुसंयुक्ता दिव्यगन्धसमन्विता पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ 168 ॥

  169. दुन्दुभिश च ततॊ दिव्यस ताडितॊ देवकिंकरैः ववौ च मारुतः पुण्यः शुचि गन्धः सुखावहः ॥ 169 ॥

  170. ततः परीतॊ महादेवः सपत्नीकॊ वृषध्वजः अब्रवीत तरिदशांस तत्र हर्षयन्न इव मां तदा ॥ 170 ॥

  171. पश्यध्वं तरिदशाः सर्वे उपमन्यॊर महात्मनः मयि भक्तिं परां दिव्याम एकभावाद अवस्थिताम ॥ 171 ॥

  172. एवम उक्तास ततः कृष्ण सुरास ते शूलपाणिना ऊचुः पराञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम ॥ 172 ॥

  173. भगवन देवदेवेश लॊकनाथ जगत्पते लभतां सर्वकामेभ्यः फलं तवत्तॊ दविजॊत्तमः ॥ 173 ॥

  174. एवम उक्तस ततः शर्वः सुरैर बरह्मादिभिस तथा आह मां भगवान ईशः परहसन्न इव शंकरः ॥ 174 ॥

  175. वत्सॊपमन्यॊ परीतॊ ऽसमि पश्य मां मुनिपुंगव दृढभक्तॊ ऽसि विप्रर्षे मया जिज्ञासितॊ हय असि ॥ 175 ॥

  176. अनया चैव भक्त्या ते अत्यर्थं परीतिमान अहम तस्मात सर्वान ददाम्य अद्य कामांस तव यथेप्शितान ॥ 176 ॥

  177. एवम उक्तस्य चैवाथ महादेवेन मे विभॊ हर्षाद अश्रूण्य अवर्तन्त लॊम हर्षश च जायते ॥ 177 ॥

  178. अब्रुवं च तदा देवं हर्षगद्गदया गिरा जानुभ्याम अवनिं गत्वा परणम्य च पुनः पुनः ॥ 178 ॥

  179. अद्य जातॊ हय अहं देव अद्य मे सफलं तपः यन मे साक्षान महादेवः परसन्नस तिष्ठते ऽगरतः ॥ 179 ॥

  180. यं न पश्यन्ति चाराध्य देवा हय अमितविक्रमम तम अहं दृष्टवान देवं कॊ ऽनयॊ धन्यतरॊ मया ॥ 180 ॥

  181. एवं धयायन्ति विद्वांसः परं तत्त्वं सनातनम षड्विंशकम इति खयातं यत परात परम अक्षरम ॥ 181 ॥

  182. स एष भगवान देवः सर्वतत्त्वादिर अव्ययः सर्वतत्त्वविधानज्ञः परधानपुरुषेश्वरः ॥ 182 ॥

  183. यॊ ऽसृजद दक्षिणाद अङ्गाद बरह्माणं लॊकसंभवम वामपार्श्वात तथा विष्णुं लॊकरक्षार्थम ईश्वरः युगान्ते चैव संप्राप्ते रुद्रम अङ्गात सृजत परभुः ॥ 183 ॥

  184. स रुद्रः संहरन कृत्स्नं जगत सथावरजङ्गमम कालॊ भूत्वा महातेजाः संवर्तक इवानलः ॥ 184 ॥

  185. एष देवॊ महादेवॊ जगत सृष्ट्वा चराचरम कल्पान्ते चैव सर्वेषां समृतिम आक्षिप्य तिष्ठति ॥ 185 ॥

  186. सर्वगः सर्वभूतात्मा सर्वभूतभवॊद्भवः आस्ते सर्वगतॊ नित्यम अदृश्यः सर्वदैवतैः ॥ 186 ॥

  187. यदि देयॊ वरॊ मह्यं यदि तुष्टश च मे परभुः भक्तिर भवतु मे नित्यं शाश्वती तवयि शंकर ॥ 187 ॥

  188. अतीतानागतं चैव वर्तमानं च यद विभॊ जानीयाम इति मे बुद्धिस तवत्प्रसादात सुरॊत्तम ॥ 188 ॥

  189. कषीरौदनं च भुञ्जीयाम अक्षयं सह बान्धवैः आश्रमे च सदा मह्यं सामिन्ध्यं परमस तु ते ॥ 189 ॥

  190. एवम उक्तः स मां पराह भगवाँल लॊकपूजितः महेश्वरॊ महातेजाश चराचरगुरुः परभुः ॥ 190 ॥

  191. अजरश चामरश चैव भव दुःखविवर्जितः शीलवान गुणसंपन्नः सर्वज्ञः परियदर्शनः ॥ 191 ॥

  192. अक्षयं यौवनं ते ऽसतु तेजश चैवानलॊपमम कषीरॊदः सागरश चैव यत्र यत्रेच्छसे मुने ॥ 192 ॥

  193. तत्र ते भविता कामं सांनिध्यं पयसॊ निधेः कषीरॊदनं च भुङ्क्ष्व तवम अमृतेन समन्वितम ॥ 193 ॥

  194. बन्धुभिः सहितः कल्पं ततॊ माम उपयास्यसि सांनिध्यम आश्रमे नित्यं करिष्यामि दविजॊत्तम ॥ 194 ॥

  195. तिष्ठ वत्स यथा कामनॊत्कण्ठां कर्तुम अर्हसि समृतः समृतश च ते विप्र सदा दास्यामि दर्शनम ॥ 195 ॥

  196. एवम उक्त्वा स भगवान सूर्यकॊटि समप्रभः ममेशानॊ वरं दत्त्वा तत्रैवान्तरधीयत ॥ 196 ॥

  197. एवं दृष्टॊ मया कृष्ण देवदेवः समाधिना तद अवाप्तं च मे सर्वं यद उक्तं तेन धीमता ॥ 197 ॥

  198. परत्यक्षं चैव ते कृष्ण पश्य सिद्धान वयवस्थितान ऋषीन विद्याधरान यक्षान गन्धर्वाप्सरसस तथा ॥ 198 ॥

  199. पश्य वृक्षान मनॊरम्यान सदा पुष्पफलान्वितान सर्वर्तुकुसुमैर युक्तान सनिग्धपत्रान सुशाखिनः सर्वम एतन महाबाहॊ दिव्यभावसमन्वितम ॥ 199 ॥

Reach this point to mark the section finished.

Continue to अध्याय 15

Previous: अध्याय 13